अध्यायः 208

भीष्मेण युधिष्ठिरम् प्रति हरेर्वराहावतारनिरूपणम् ॥ 1 ॥ युधिष्ठिर उवाच 001
पितामह महाप्राज्ञ युधि सत्यपराक्रम । 001a
श्रोतुमिच्छामि कार्त्स्न्येन कृष्णमव्ययमीश्वरम् ॥ 001c
यच्चास्य तेजः सुमहद्यच्च कर्म पुरा कृतम् । 002a
तन्मे सर्वं यथातत्त्वं ब्रूहि त्वं पुरुषर्षभ ॥ 002c
तिर्यग्योनिगतो रूपं कथं धारितवान्प्रभुः । 003a
केन कार्यनिसर्गेण तमाख्याहि महाबल ॥ 003c
भीष्म उवाच 004
पुराऽहं मृगयां यातो मार्कण्डेयाश्रमे स्थितः । 004a
तत्रापश्यं मुनिगणान्समासीनान्सहस्रशः ॥ 004c
ततस्ते मधुपर्केण पूजां चक्रुरथो मयि । 005a
प्रतिगृह्य च तां पूजां प्रत्यनन्दमृषीनहम् || 005c
कथैषा कथिता तत्र कश्यपेन महर्षिणा । 006a
मनःप्रह्लादिनीं दिव्यां तामिहैकमनाः शृणु ॥ 006c
पुरा दानवमुख्या हि क्रोधलोभसमन्विताः । 007a
बलेन मत्ताः शतशो नरकाद्या महासुराः ॥ 007c
तथैव चान्ये बहवो दानवा युद्धदुर्मदाः । 008a
न सहन्ते स्म देवानां समृद्धिं तामनुत्तमाम् ॥ 008c
'नरकाद्या महाघोरा हिरण्याक्षमुपाश्रिताः । 009a
उद्योगं परमं चक्रुर्देवानां निग्रहे तदा ॥ 009c
नियुतं वत्सराणां तु वायुभक्षोऽभवत्तदा । 010a
हिरण्याक्षो महारौद्रो लेभे देवात्पितामहात् । 010c
वरानचिन्त्यानतुलाञ्शतशोऽथ सहस्रशः ॥' 010e
दानवैरर्द्यमानास्तु देवा देवर्षयस्तथा । 011a
न शर्म लेभिरे राजन्क्लिश्यमानास्ततस्ततः ॥ 011c
पृथिवीमार्तरूपां ते समपश्यन्दिवौकसः । 012a
दानवैरभिसङ्कीर्णां घोररूपैर्महाबलैः । 012c
भारार्तामप्रहृष्टां च दुःखितां सन्निमज्जतीम् ॥ 012e
'गृहीत्वा पृथिवी देवी पाताले न्यवसत्तदा । 013a
ततस्त्रैलोक्यमखिलं निरोषधिगणान्वितम् । 013c
निःस्वाध्यायवषट्कारमभूत्सर्वं समन्ततः ॥' 013e
अथादितेयाः सन्त्रस्ता ब्रह्माणमिदमब्रुवन् । 014a
कथं शक्ष्यामहे ब्रह्मन्दानवैरभिमर्दनम् ॥ 014c
'हिरण्याक्षेण भगवन्गृहीतेयं वसुन्धरा । 015a
न शक्ष्यामो वयं तत्र प्रवेष्टुं जलदुर्गमम् ॥ 015c
तानाह भगवान्ब्रह्मा मुनिरेव प्रसाद्यताम् । 016a
अगस्त्योऽसौ महातेजाः पातु तज्जलमञ्जसा ॥ 016c
तथेति चोक्त्वा ते देवा मुनिमूचुर्मुदान्विताः । 017a
त्रायस्व लोकान्विप्रर्षे जलमेतत्क्षयं नय ॥ 017c
तथेति चोक्त्वा भगवान्कालानलसमद्युतिः । 018a
ध्यायञ्जलादनिवहं स क्षणेन पपौ जलम् ॥ 018c
शोषिते तु समुद्रे च देवाः सर्षिपुरोगमाः । 019a
ब्रह्माणं प्रणिपत्योचुर्मुनिना शोषितं जलम् । 019c
इति भूयः समाचक्ष्व किं करिष्यामहे विभो ॥ 019e
स्वयम्भूस्तानुवाचेदं निसृष्टोऽत्र विधिर्मया ॥ 020ac
ते वरेणाभिसम्पन्ना बलेन च मदेन च । 021a
नावबुद्ध्यन्ति सम्मूढा विष्णुमव्यक्तदर्शनम् । 021c
वराहरूपिणं देवमधृष्यममरैरपि ॥ 021e
एष वेगेन गत्वा हि यत्र ते दानवाधमाः । 022a
अन्तर्भूमिगता घोरा निवसन्ति सहस्रशः । 022c
शमयिष्यति तच्छ्रुत्वा जहृषुः सुरसत्तमाः ॥ 022e
ततो विष्णुर्महातेजा वाराहं रूपमास्थितः । 023a
अन्तर्भूमिं सम्प्रविश्य जगाम दितिजान्प्रति ॥ 023c
दृष्ट्वा च सहिताः सर्वे दैत्याः सत्वममानुषम् । 024a
प्रसह्य तरसा सर्वे सन्तस्थुः कालमोहिताः ॥ 024c
ततस्ते समभिद्रुत्य वराहं जगृहुः समम् । 025a
सङ्क्रुद्धाश्च वराहं तं व्यकर्षन्त समन्ततः ॥ 025c
दानवेन्द्रा महाकाया महावीर्यबलोच्छ्रिताः । 026a
नाशक्नुवंश्च किञ्चित्ते तस्य कर्तुं तदा विभो ॥ 026c
ततोऽगच्छन्विस्मयं ते दानवेन्द्रा भयं तथा । 027a
संशयं गतमात्मानं मेनिरे च सहस्रशः ॥ 027c
ततो देवाधिदेवः स योगात्मा योगसारथिः । 028a
योगमास्थाय भगवांस्तदा भरतसत्तम ॥ 028c
विननाद महानादं क्षोभयन्दैत्यदानवान् । 029a
सन्नादिता येन लोकाः सर्वाश्चैव दिशो दश ॥ 029c
तेन सन्नादशब्देन लोकानां क्षोभ आगमत् । 030a
संश्रान्ताश्च दिशः सर्वा देवाः शक्रपुरोगमाः ॥ 030c
निर्विचेष्टं जगच्चापि बभूवातिभृशं तदा । 031a
स्थावरं जङ्गमं चैव तेन नादेन मोहितम् ॥ 031c
ततस्ते दानवाः सर्वे तेन नादेन भीषिताः । 032a
पेतुर्गतासवश्चैव विष्णुतेजः प्रमोहिताः ॥ 032c
'त्रस्तांश्च देवानालोक्य ब्रह्मा प्राह पितामहः । 033a
योगेश्वरोऽयं भगवान्वाराहं रूपमास्थितः । 033c
नर्दमानोऽत्र संयाति मा भैष्ट सुरसत्तमाः ॥ 033e
एवमुक्त्वा ततो ब्रह्मा नमश्चक्रे पितामहः । 034a
देवता मुनयश्चैव विष्णुं वै मुक्तिहेतवे ॥ 034c
ततो हरिर्महातेजा ब्रह्माणमभिनन्द्य च ।' 035a
रसातलगतश्चापि वराहस्त्रिदशद्विषाम् । 035c
खुरैर्विदारयामास मांसमेदोस्थिसञ्चयान् ॥ 035e
नादेन तेन महता सनातन इति स्मृतः । 036a
पद्मनाभो महायोगी भूतात्मा भूतभावनः ॥ 036c
ततो देवगणाः सर्वे पितामहमुपाद्रवन् । 037a
तत्र गत्वा महात्मानमूचुश्चैव जगत्पतिम् ॥ 037c
नादोऽयं कीदृशो देव नेतं विद्म वयं प्रभो । 038a
कोसौ हि कस्य वा नादो येन विह्वलितं जगत् । 038c
देवाश्च दानवाश्चैव मोहितास्तस्य तेजसा ॥ 038e
एतस्मिन्नन्तरे विष्णुर्वाराहं रूपमास्थितः । 039a
उदतिष्ठन्महाबाहो स्तूयमानो महर्षिभिः ॥ 039c
पितामह उवाच 040
'दिव्यं—— युद्धमासीन्महात्मनोः । 040a
हिरण्याक्षस्य विष्णोश्च सर्वसङ्क्षोभकारणम् ॥ 040c
जघान च हिरण्याक्षमन्तर्भूमिगतं हरिः । 041a
तदाकर्ण्य महातेजा ब्रह्मा मधुरमब्रवीत् ॥' 041c
पितामह उवाच 042
निहत्य दानवपतीन्महावर्ष्मा महाबलः । 042a
एष देवो महायोगी भूतात्मा भूतभावनः ॥ 042c
सर्वभूतेश्वरो योगी मुनिरात्मा तथाऽऽत्मनः । 043a
स्थिरीभवत कृष्णोऽयं सर्वविघ्नविनाशनः ॥ 043c
कृत्वा कर्मातिसाध्वेतदशक्यममितप्रभः । 044a
समायातः स्वमात्मानं महाभागो महाद्युतिः ॥ 044c
पद्मनाभो महायोगी पुराणपुरुषोत्तमः । 045a
न सन्तापो न भीः कार्या शोको वा सुरसत्तमैः ॥ 045c
विधिरेष प्रभावश्च कालः सङ्क्षयकारकः । 046a
लोकान्धारयता तेन नादो मुक्तो महात्मना ॥ 046c
स एष हि महाबाहुः सर्वलोकनमस्कृतः । 047a
अच्युतः पुण्डरीकाक्षः सर्वभूतादिरीश्वरः ॥ 047c

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि अष्टाधिकद्विशततमोऽध्यायः ॥ 208 ॥

12-208-36 भूताचार्यः स भूतराट् इति झ. ड. थ. पाठः ॥12-208-042 महावर्ष्मा महाकायः ||