अध्यायः 207
भीष्मेण युधिष्ठिरम् प्रति मरीच्यादिब्रह्मपुत्रवंशकथनपूर्वकं प्राच्यादिदिग्गतमहर्षिनामनिर्देशः ॥ 1 ।
युधिष्ठिर उवाच 001
के पूर्वमासन्पतयः प्रजानां भरतर्षभ । 001a
के चर्षयो महाभागा दिक्षु प्रत्येकशः स्थिताः ॥ 001c
भीष्म उवाच 002
श्रूयतां भरतश्रेष्ठ यन्मां त्वं परिपृच्छसि । 002a
प्रजानां पतयो ये च दिक्षु ये चर्षयः स्मृताः ॥ 002c
एकः स्वयम्भूर्भगवानाद्यो ब्रह्मा सनातनः । 003a
ब्रह्मणः सप्त वै पुत्रा महात्मानः स्वयम्भुवः ॥ 003c
मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः । 004a
वसिष्ठश्च महाभागः सदृशो वै स्वयम्भुवा ॥ 004c
सप्त ब्रह्माण इत्येते पुराणे निश्चयं गताः । 005a
अत ऊर्ध्वं प्रवक्ष्यामि सर्वानेव प्रजापतीन् ॥ 005c
अत्रिवंशतमुत्पन्नो ब्रह्मयोनिः सनातनः । 006a
प्राचीनबर्हिर्भगवांस्तस्मात्प्राचेतसो दश ॥ 006c
दशानां तनयस्त्वेको दक्षो नाम प्रजापतिः । 007a
तस्य द्वे नामनी लोके दक्षः क इति चोच्यते ॥ 007c
मरीचेः कश्यपः पुत्रस्तस्य द्वे नामनी स्मृते । 008a
अरिष्टनेमिरित्येके कश्यपेत्यपरे विदुः ॥ 008c
अत्रेश्चैवौरसः श्रीमान्राजा सोमश्च वीर्यवान् । 009a
सहस्रं यश्च दिव्यानां युगानां पर्युपासिता ॥ 009c
अर्यमा चैव भगवान्ये चास्य तनया विभो । 010a
एते प्रदेशाः कथिता भुवनानां प्रभावनाः ॥ 010c
शशबिन्दोश्च भार्याणां सहस्राणि दशाच्युत । 011a
एकैकस्यां सहस्रं तु तनयानामभूत्तदा ॥ 011c
एवं शतसहस्राणि दश तस्य महात्मनः । 012a
पुत्राणां च न ते कञ्चिदिच्छन्त्यन्यं प्रजापतिम् ॥ 012c
प्रजामाचक्षते विप्राः पुराणाः शाशबिन्दवीम् । 013a
स वृष्णिवंशप्रभवो महावंशः प्रजापतेः ॥ 013c
एते प्रजानां पतयः समुद्दिष्टा यशस्विनः ॥ 014ac
'शशबिन्दुस्तु राजर्षिर्महायोगी महामनाः । 015a
अध्यात्मवित्सहस्राणां भार्याणां दशमध्यगः ॥ 015c
स योगी योगमापन्नस्ततः सायुच्यतां गतः ।' 016a
अतः परं प्रवक्ष्यामि देवांस्त्रिभुवनेश्वरान् ॥ 016c
भगोंऽशश्चार्यमा चैव मित्रोऽथ वरुणस्तथा । 017a
सविता चैव धाता च विवस्वांश्च महाबलः ॥ 017c
त्वष्टा पूषा तथैवेन्द्रो द्वादशो विष्णुरुच्यते । 018a
इत्येते द्वादशादित्याः कश्यपस्यात्मसम्भवाः ॥ 018c
नासत्यश्चैव दस्रश्च स्मृतो द्वावश्विनावपि । 019a
मार्तण्डस्यात्मजावेतावष्टमस्य प्रजापतेः ॥ 019c
त्वष्टुश्चैवात्मजः श्रीमान्विश्वरूपो महायशाः ॥ 020ac
अजैकपादहिर्बुध्न्यो विरूपाक्षोऽथ रैवतः । 021a
हरश्च बहुरूपश्च त्र्यम्बकश्च सुरेश्वरः ॥ 021c
सावित्रश्च जयन्तश्च पिनाकी चापराजितः । 022a
'एकादशैते कथिता रुद्रास्त्रिभुवनेश्वराः ॥' 022c
पूर्वमेव महाभागा वसवोऽष्टौ प्रकीर्तिताः । 023a
एत एवंविधा देवा मनोरेव प्रजापतेः । 023c
ते च पूर्वं सुराश्चेति द्विविधाः पितरः स्मृताः ॥ 023e
शीलयौवनयोस्त्वन्यस्तथाऽन्ये सिद्धसाध्ययोः । 024a
ऋभवो मरुतश्चैव देवानां चोदितो गणः ॥ 024c
एवमेते समाम्नाता विश्वेदेवास्तथाऽश्विनौ । 025a
आदित्याः क्षत्रियास्तेषां विशश्च मरुतस्तथा ॥ 025c
अश्विनौ तु स्मृतौ शूद्रौ तपस्युग्रे समास्थितौ । 026a
स्मृतास्त्वङ्गिरसो देवा ब्राह्मणा इति निश्चयः । 026c
इत्येतत्सर्वदेवानां चातुर्वर्ण्यं प्रकीर्तितम् ॥ 026e
एतान्वै प्रातरुत्थाय देवान्यस्तु प्रकीर्तयेत् । 027a
स्वजादन्यकृताच्चैव सर्वपापात्प्रमुच्यते ॥ 027c
यवक्रीतोऽथ रैभ्यश्च अर्वावसुपरावसू । 028a
औशिजश्चैव कक्षीवान्बलश्चाङ्गिरसः स्मृतः ॥ 028c
ऋषिर्मेधातिथेः पुत्रः कण्वो बर्हिषदस्तथा । 029a
त्रैलोक्यभावनास्तात प्राच्यां सप्तर्षयस्तथा ॥ 029c
उन्मुचो विमुचश्चैव स्वस्त्यात्रेयश्च वीर्यवान् । 030a
प्रमुचश्चेध्मवाहश्च भगवांश्च दृढव्रतः ॥ 030c
मित्रावरुणयोः पुत्रस्तथाऽगस्त्यः प्रतापवान् । 031a
एते ब्रह्मर्षयो नित्यमास्थिता दक्षिणां दिशम् ॥ 031c
उषङ्गुः कवषो धौम्यः परिव्याधश्च वीर्यवान् । 032a
एकतश्च द्वितश्चैव त्रितश्चैव महर्षयः ॥ 032c
अत्रेः पुत्रश्च दुर्वासास्तथा सारस्वतः प्रभुः । 033a
एते चैव महात्मानः पश्चिमामाश्रिता दिशम् ॥ 033c
अत्रिश्चैव वसिष्ठश्च काश्यपश्च महानृषिः । 034a
गौतमोऽथ भरद्वाजो विश्वामित्रोऽथ कौशिकः ॥ 034c
तथैव पुत्रो भगवानृचीकस्य महात्मनः । 035a
जमदग्निश्च सप्तैते उदीचीमाश्रिता दिशम् ॥ 035c
एते प्रतिदिशं सर्वे कीर्तितास्तिग्मतेजसः । 036a
साक्षिभूता महात्मानो भुवनानां प्रभावनाः ॥ 036c
एवमेते महात्मानः स्थिताः प्रत्येकशो दिशम् । 037a
एतेषां कीर्तनं कृत्वा सर्वपापात्प्रमुच्यते ॥ 037c
यस्यांयस्यां दिशि ह्येते तां दिशं शरणं गतः । 038a
मुच्यते सर्वपापेभ्यः स्वस्तिमांश्च तथा भवेत् ॥ 038c
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि सप्ताधिकद्विशततमोऽध्यायः ॥ 207 ॥
12-207-9 अङ्गश्च पौरवः श्रीमान्राजा भौमश्च वीर्तवान् इति ड. थ. पाठः । अंशश्चैवौरसः श्रीमान्राजा भौमश्च वीर्यवानिति ध. पाठः ॥ 12-207-10 प्रदेशाः प्रदिशन्ति आज्ञापयन्तीति प्रदेशा ईशनशीला इत्यर्थः । प्रभावनाः प्रकर्षेण स्रष्टारश्च ॥ 12-207-27 स्वजात् स्वयं कामतोऽकामतश्च कृतात् । अन्यसंसर्गजात् ॥ 12-207-28 नीलश्चाङ्गिरसः स्मृत इति ड. ध. पाठः ॥ 12-207-29 त्रैलोक्यगायना इति ड. थ. पाठः ॥