अध्यायः 206

भीष्मेण युधिष्ठिरम् प्रति भूतादिजगत्सृष्टिप्रकारनिरूपणम् ॥ 1 ॥ तथा नारदोदितनृसिंहादिभगवत्प्रादुर्भावचरित्रनिरूपणपूर्वकं श्रीकृष्णस्य सर्वोत्तमत्वप्रतिपादनेन तद्ध्यानविधानम् ॥ 2 ॥ युधिष्ठिर उवाच 001
पितामह महाप्राज्ञ पुण्डरीकाक्षमच्युतम् । 001a
कर्तारमकृतं विष्णुं भूतानां प्रभवाप्ययम् ॥ 001c
नारायणं हृषीकेशं गोविन्दमपराजितम् । 002a
तत्त्वेन भरतश्रेष्ठ श्रोतुमिच्छामि केशवम् ॥ 002c
भीष्म उवाच 003
श्रुतोऽयमर्थो रामस्य जामदग्न्यस्य जल्पतः । 003a
नारदस्य च देवर्षेः कृष्णद्वैपायनस्य च ॥ 003c
असितो देवलस्तात वाल्मीकिश्च महातपाः । 004a
मार्कण्डेयश्च गोविन्दे कथयन्त्यद्भुतं महत् ॥ 004c
'केशवस्य मया राजन्न शक्या वर्णितुं गुणाः । 005a
ईदृशोऽसौ हृषीकेशो वासुदेवः परात्परः ॥' 005c
केशवो भरतश्रेष्ठ भगवानीश्वरः प्रभुः । 006a
पुरुषः सर्वमित्येव श्रूयते बहुधा विभुः ॥ 006c
किन्तु यानि विदुर्लोके ब्राह्मणाः शार्ङ्गधन्वनि । 007a
महात्मनि महाबाहो शृणु तानि युधिष्ठिर ॥ 007c
यानि चाहुर्मनुष्येन्द्र ये पुराणविदो जनाः । 008a
श्रुत्वा सर्वाणि गोविन्दो कीर्तयिष्यामि तान्यहम् ॥ 008c
महाभूतानि भूतात्मा महात्मा पुरुषोत्तमः । 009a
वायुर्ज्योतिस्तथा चापः खं च गां चान्वकल्पयत् ॥ 009c
स सृष्ट्वा पृथिवीं चैव सर्वभूतेश्वरः प्रभुः । 010a
अप्स्वेव शयनं चक्रे महात्मा पुरुषोत्तमः ॥ 010c
सर्वतेजोमयस्तस्मिञ्शयानः शयने शुभे । 011a
सोऽग्रजं सर्वभूतानां सङ्कर्षणमचिन्तयत् ॥ 011c
आश्रयं सर्वभूतानां मनसेतीह शुश्रुम । 012a
स धारयति भूतानि उभे भूतभविष्यती ॥ 012c
'प्रद्युम्नमसृजत्तस्मात्सर्वतेजःप्रकाशकम् । 013a
अनिरुद्धस्ततो जज्ञे सर्वशक्तिर्महाद्युतिः ॥ 013c
अप्सु व्योमगतः श्रीमान्योगनिद्रामुपेयिवान् । 014a
तस्मात्सञ्जज्ञिरे देवा ब्रह्मविष्णुमहेश्वराः । 014c
लयस्थित्यन्तकर्माणस्त्रयस्ते सुमहौजसः ॥' 014e
ततस्तस्मिन्महाबाहौ प्रादुर्भूते महात्मनि । 015a
भास्करप्रतिमं दिव्यं नाभ्यां पद्ममजायत ॥ 015c
स तत्र भगवान्देवः पुष्करे भ्राजयन्दिशः । 016a
ब्रह्मा समभवत्तात सर्वभूतपितामहः ॥ 016c
तस्मिन्नपि महाबाहौ प्रादुर्भूते महात्मनि । 017a
तमसः पूर्वजो जज्ञे मधुर्नाम महासुरः ॥ 017c
तमुग्रमुग्रकर्माणमुग्रां बुद्धिं समास्थितम् । 018a
ब्रह्मणोपचितिं कुर्वञ्जघान पुरुषोत्तमः ॥ 018c
तस्य तात वधात्सर्वे देवदानवमानवाः । 019a
मधुसूदनमित्याहुर्ऋषभं सर्वसात्वताम् ॥ 019c
ब्रह्माऽनुससृजे पुत्रान्मानसान्दक्षसप्तमान् । 020a
मरीचिमत्र्यङ्गिरसौ पुलस्त्यं पुलहं क्रतुम् ॥ 020c
मरीचिः कश्यपं तात पुत्रमग्रजमग्रजः । 021a
मानसं जनयामास तैजसं ब्रह्मवित्तमम् ॥ 021c
अङ्गुष्ठात्ससृजे ब्रह्मा मरीचेरपि पूर्वजम् । 022a
सोऽभवद्भरतश्रेष्ठ दक्षो नाम प्रजापतिः ॥ 022c
तस्य पूर्वमजायन्त दश तिस्रश्च भारत | 023a
प्रजापतेर्दुहितरस्तासां ज्येष्ठाऽभवद्दितिः ॥ 023c
सर्वधर्मविशेषज्ञः पुण्यकीर्तिर्महायशाः । 024a
मारीचः कश्यपस्तात सर्वासामभवत्पतिः ॥ 024c
उत्पाद्य तु महाभागस्तासामवरजा दश । 025a
ददौ धर्माय धर्मज्ञो दक्ष एव प्रजापतिः ॥ 025c
धर्मस्य वसवः पुत्रा रुद्राश्चामिततेजसः । 026a
विश्वेदेवाश्च साध्याश्च मरुत्वन्तश्च भारत ॥ 026c
अपराश्च यवीयस्यस्ताभ्योऽन्याः सप्तविंशतिः । 027a
सोमस्तासां महाभागः सर्वासामभवत्पतिः ॥ 027c
इतरास्तु व्यजायन्त गन्धर्वांस्तुरगान्द्विजान् । 028a
गाश्च किम्पुरुषान्मत्स्यानुद्भिज्जांश्च वनस्पतीन् ॥ 028c
आदित्यानदितिर्जज्ञे देवश्रेष्ठान्महाबलान् । 029a
तेषां विष्णुर्वामनोऽभूद्गोविन्दश्चाभवत्प्रभुः ॥ 029c
तस्य विक्रमणाच्चापि देवानां श्रीर्व्यवर्धत । 030a
दानवाश्च पराभूता दैतेयाश्चासुरी प्रजा ॥ 030c
विप्रचित्तिप्रधानांश्च दानवानसृजद्दनुः । 031a
दितिस्तु सर्वानसुरान्महासत्वानजीजनत् ॥ 031c
'ततः ससर्ज भगवान्मृत्युं लोकभयङ्करम् । 032a
हर्तारं सर्वभूतानां ससर्ज च जनार्दनः ॥' 032c
अहोरात्रं च कालं च यथर्तु मधुसूदनः । 033a
पूर्वाह्णं चापराह्णं च सर्वमेवान्वकल्पयत् ॥ 033c
लब्ध्वापः सोऽसृजन्मेघांस्तथा स्थावरजङ्गमान् । 034a
पृथिवीं सोऽसृजद्विश्वां सहीतां भूरितेजसा ॥ 034c
ततः कृष्णो महाभागः पुनरेव युधिष्ठिर । 035a
ब्राह्मणानां शतं श्रेष्ठं मुखादेवासृजत्प्रभुः ॥ 035c
बाहुभ्यां क्षत्रियशतं वैश्यानामूरुतः शतम् । 036a
पद्भ्यां शूद्रशतं चैव केशवो भरतर्षभ ॥ 036c
स एवं चतुरो वर्णान्समुत्पाद्य महातपाः । 037a
अध्यक्षं सर्व भूतानां धातारमकरोत्स्वयम् ॥ 037c
वेदविद्याविधातारं ब्रह्माणममितद्युतिम् । 038a
भूतमातृगणाध्यक्षं विरूपाक्षं च सोऽसृजत् ॥ 038c
शासितारं च पापानां पितॄणां समवर्तिनम् । 039a
असृजत्सर्वभूतात्मा निधिपं च धनेश्वरम् ॥ 039c
यादसामसृजन्नाथं वरुणं च जलेश्वरम् । 040a
वासवं सर्वदेवानामध्यक्षमकरोत्प्रभुः ॥ 040c
यावद्यावदभूच्छ्रद्धा देहं धारयितुं नृणाम् । 041a
तावत्तावदजीवंस्ते नासीद्यमकृतं भयम् ॥ 041c
न चैषां मैथुनो धर्मो बभूव भरतर्षभ । 042a
सङ्कल्पादेव चैतेषां गर्भः समुपपद्यते ॥ 042c
ततस्त्रेतायुगे काले संस्पर्शाज्जायते प्रजा । 043a
न ह्यभून्मैथुनो धर्मस्तेषामपि जनाधिप ॥ 043c
द्वापरे मैथुनो धर्मः प्रजानामभवन्नृप । 044a
तथा कलियुगे राजन्द्वन्द्वमापेदिरे जनाः ॥ 044c
एष भूतपतिस्तात स्वध्यक्षश्च तथोच्यते । 045a
निरपेक्षांश्च कौन्तेय कीर्तयिष्यामि तच्छृणु ॥ 045c
दक्षिणापथजन्मानः सर्वे करभृतस्तव । 046a
आन्ध्राः पुलिन्दाः शबराश्चूचुपा मद्रकैः सह ॥ 046c
उत्तरापथजन्मानः कीर्तयिष्यामि तानपि । 047a
ये तु काम्भोजगान्धाराः किराता बर्वरैः सह ॥ 047c
एते पापकृतस्तात चरन्ति पृथिवीमिमाम् । 048a
बकश्वपाकगृध्राणां सधर्माणो नराधिप ॥ 048c
नैते कृतयुगे तात चरन्ति पृथिवीमिमाम् । 049a
त्रेताप्रभृति वर्धन्ते ते जना भरतर्षभ ॥ 049c
ततस्तस्मिन्महाघोरे सन्ध्याकाले युगान्तिके । 050a
राजानः समसज्जन्त समासाद्येतरेतम् ॥ 050c
'ऐन्द्रं रूपं समास्थाय ह्यसुरेभ्यो चरन्महीम् । 051a
स एव भगवान्देवो वेदित्वं च गता मही ॥ 051c
एवम्भूते– सृष्टिर्नारसिंहादयः क्रमात् । 052a
प्रादुर्भावाः स्मृता विष्णोर्जगतीरक्षणाय वै ॥ 052c
एष कृष्णो महायोगी तत्तत्कार्यानुरूपणम् । 053a
हिरण्यकशिपुं दैत्यं हिरण्याक्षं तथैव च ॥ 053c
रावणं च महादैत्यं हत्वासौ पुरुषोत्तमः । 054a
भूमेर्दुःखोपनाशार्थं ब्रह्मशक्रादिभिः स्तुतः ॥ 054c
आत्मनोऽङ्गान्महातेजा उद्बबर्ह जनार्दनः । 055a
सितकृष्णौ महाराज केशौ हरिरुदारधीः ॥ 055c
वसुदेवस्य देवक्यामेष जात इहोत्तमः । 056a
देहवानिह विश्वात्मा सम्बन्धी ते जनार्दनः ॥ 056c
आविर्बभूव योगीन्द्रो मनोतीतो जगत्पतिः । 057a
अचिन्त्यः पुरुषव्याघ्र नैव केवलमानुषः ॥ 057c
अव्यक्तादिविशेषान्तं परिमाणार्थसंयुतम् । 058a
क्रीडा हरेरिदं सर्वं क्षरमित्येव धार्यताम् ॥ 058c
अक्षरं तत्परं नित्यं वैरूप्यं जगतो हरेः । 059a
तद्विद्धि रूपमतुलममृतत्वं भवज्जितम् ॥ 059c
तदेव कृष्णो दाशार्हः श्रीमाञ्श्रीवत्सलक्षणः । 060a
न भूतसृष्टिसंस्थानं देहोऽस्य परमात्मनः ॥ 060c
देहवानिह यो विष्णुरसौ मायामयो हरिः । 061a
आत्मनो लोकरक्षार्थं ध्याहि नित्यं सनातनम् ॥ 061c
अङ्गानि चतुरे वेदा मीमांसा न्यायविस्तरः । 062a
इतिहासपुराणानि धर्माः स्वायम्भुवादयः ॥ 062c
य एनं प्रतिवर्तन्ते वेदान्तानि च सर्वशः । 063a
भक्तिहीना न तैर्यान्ति नित्यमेनं कथञ्चन ॥ 063c
सर्वभूतेषु भूतात्मा तत्तद्बुद्धिं समास्थितः । 064a
तस्माद्बुद्धस्त्वमेवैनं ध्याहि नित्यमतन्द्रितः ॥' 064c
एवमेष कुरुश्रेष्ठ प्रादुर्भावो महात्मनः । 065a
एवं देवर्षिराचष्ट नारदः सर्वलोकदृक् ॥ 065c
नारदोऽप्यथ कृष्णस्य परं मेने नराधिप । 066a
शाश्वतत्वं महाबाहो यथावद्भरतर्षभ ॥ 066c
एवमेव महाबाहुः केशवः सत्यविक्रमः । 067a
अचिन्त्यः पुण्डरीकाक्षो नैष केवलमानुषः ॥ 067c
'एवंविधोऽसौ पुरुषः को वैनं वेत्ति सर्वदा । 068a
एतत्ते कथितं राजन्भूयः श्रोतुं किमिच्छसि' ॥ 068c

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि षडधिकद्विशततमोऽध्यायः ॥ 206 ॥

12-206-1 कर्तारममृतं विष्णुमिति ड. थ. पाठः ॥ 12-206-25 ततस्त्वरजसो दशेति ड. थ. पाठः ॥ 12-206-28 द्विरदांश्च वनस्पतीनिति ड. पाठः । विशदांश्च वनस्पतीनिति ध. पाठः । इतराः कश्यपस्त्रियः । व्यजायन्त व्यजनयन्त ॥ 12-206-35 शतमनन्तम् ॥ 12-206-39 समवर्तिनं यमम् ॥