अध्यायः 205
भीष्मेण युधिष्ठिरम् प्रति निबन्धनेन स्वमातरम् प्रति अरण्यत्वेन रूपितस्य संसारचक्रस्य विवरणम् ॥ 1 ॥ तथा नारदसावित्रीसंवादः ॥ 2 ॥ नारदेन तपसा श्रीभगवदपरोक्षीकरणम् ॥ 3 ॥
- युधिष्ठिर उवाच 001
पितामह महाप्राज्ञ दुःखशोकसमाकुले । 001
संसारचक्रे लोकानां निर्वेदो नास्ति किन्न्विदम् ॥ 001
भीष्म उवाच 002
अत्राप्युदाहरन्तीममितिहासं पुरातनम् । 002
निबन्धनस्य संवादं भोगवत्या नृपोत्तम ॥ 002
मुनिं निबन्धनं शुष्कं धमनीयाकृतिं तथा । 003
निरारम्भं निरालम्बमसज्जन्तं च कर्मणि । 003
पुत्रं दृष्ट्वाऽप्युवाचार्तं माता भोगवती तदा ॥ 003
उत्तिष्ठ मूढ किं शेषे निरपेक्षः सुहृज्जनैः । 004
निरालम्बो धनोपाये पैतृकं तव किं धनम् ॥ 004
निबन्धन उवाच 005
पैतृकं मे महन्मातः सर्वदुःखालयं त्विह । 005
अस्त्येतत्तद्विघाताय यतिष्ये तत्र मा शुचः ॥ 005
इदं शरीरमत्युग्रं पित्रा दत्तमसंशयम् । 006
तमेव पितरं गत्वा धनं तिष्ठति शाश्वतम् ॥ 006
कश्चिन्महति संसारे वर्तमानो धनेच्छया । 007
वनदुर्गमभिप्राप्तो महत्क्रव्यादसङ्कुलम् ॥ 007
सिंहव्याघ्रगजाकारैरतिघोरैर्महाशनैः । 008
समन्तात्सुपरिक्षिप्तं स दृष्ट्वा व्यथते पुमान् ॥ 008
स तद्वनं ह्यनुचरन्विप्रधावन्नितस्ततः । 009
वीक्षमाणो दिशः सर्वाः शरणार्थं प्रधावति ॥ 009
अथापश्यद्वनं रूढं समन्ताद्वागुरावृतम् । 010
वनमध्ये च तत्रासीदुदपानः समावृतः ॥ 010
वल्लिभिस्तृणसञ्छिन्नैर्गूढाभिरभिसंवृतः । 011
स पपात द्विजस्तत्र विजने सलिलाशये ॥ 011
विलग्नश्चाभवत्तस्मिल्ँलतासन्तानसङ्कुले । 012
बाहुभ्यां सम्परिष्वक्तस्तया परमसत्वया ॥ 012
स तथा लम्बते तत्र ऊर्ध्वपादो ह्यधश्शिराः । 013
अधस्तत्रैव जातश्च जम्बूवृक्षः सुदुस्तरः ॥ 013
कूपस्य तस्य वेलाया अपश्यत्सुमहाफलम् । 014
वृक्षं बहुविधं व्योमं वल्लीपुष्पसमाकुलम् ॥ 014
नानारूपा मधुकरास्तस्मिन्वृक्षेऽभवन्किल । 015
तेषां मधूनां बहुधा धारा प्रववृते तदा ॥ 015
विलम्बमानः स पुमान्धारां पिबति सर्वदा । 016
न तस्य तृष्णा विरता पीयमानस्य सङ्कटे ॥ 016
परीप्सति च तां नित्यमतृप्तः स पुनःपुनः । 017
एवं स वसते तत्र दुःखिदुःखी पुनःपुनः ॥ 017
मया तु तद्धनं देयं तव दास्यामि चेच्छसि । 018
तस्य च प्रार्थितः सोथ दत्वा मुक्तिमवाप सः ॥ 018
सा च त्यक्त्वाऽर्थसङ्ङ्कल्पं जगाम परमां गतिम् ॥ 019
एवं संसारचक्रस्य स्वरूपज्ञा नृपोत्तम । 020
परं वैराग्यमागम्य गच्छन्ति परमं पदम् ॥ 020
युधिष्ठिर उवाच 021
एवं संसारचक्रस्य स्वरूपं विदितं न मे । 021
पैतृकं तु धनं प्रोक्तं किं तद्विद्वन्महात्मना ॥ 021
कान्तारमिति किं प्रोक्तं को हस्ती स तु कूपकः । 022
किंसञ्ज्ञिको महावृक्षो मधु वाऽपि पितामह ॥ 022
एवं मे संशयं विद्धि धनशब्दं किमुच्यते । 023
कथं लब्धं धनं तेन तथा च किमिदं त्विह ॥ 023
भीष्म उवाच 024
उपाख्यानमिदं सर्वं मोक्षविद्भिरुदाहृतम् । 024
सुमतिं विन्दते येन बन्धनाशश्च भारत ॥ 024
एतदुक्तं हि कान्तारं महान्संसार एव सः । 025
ये ते प्रतिष्ठिता व्याला व्याधयस्ते प्रकीर्तिताः ॥ 025
या सा नारी महाघोरा वर्णरूपविनाशिनी । 026
तामाहुश्च जरां प्राज्ञाः परिष्वक्तं यया जगत् ॥ 026
यस्तत्र कूपे वसते महाहिः काल एव सः । 027
यो वृक्षः स च मृत्युर्हि स्वकृतं तस्य तत्फलम् ॥ 027
ये तु कृष्णाः सिता राजन्मूषिका रात्र्यहानि वै ॥ 028
द्विषट्कपदसंयुक्तो यो हस्ती षण्मुखाकृतिः । 029
स च संवत्सरः प्रोक्तः पाशमासर्तवो मुखाः ॥ 029
एतत्संसारचक्रस्य स्वरूपं व्याहृतं मया । 030
एवं लब्धधनं राजंस्तत्स्वरूपं विनाशय ॥ 030
एतज्ज्ञात्वा तु सा राजन्परं वैराग्यमास्थिता । 031
यथोक्तविधिना भूयः परं पदमवाप सः ॥ 031
धत्ते धारयते चैव एतस्मात्कारणाद्धनम् । 032
तद्गच्छ चामृतं शुद्धं हिरण्यममृतं तपः ॥ 032
तत्स्वरूपो महादेवः कृष्णो देवकिनन्दनः । 033
तस्य प्रसादाद्दुःखस्य नाशं प्राप्स्यसि मानद ॥ 033
एकः कर्ता स कृष्णश्च ज्ञानिनां परमा गतिः ॥ 034
इदमाश्रित्य देवेन्द्रो देवा रुद्रास्तथाऽश्विनौ । 035
स्वेस्वे पदे विविशिरे भुक्तिमुक्तिविदो जनाः ॥ 035
भूतानामन्तरात्माऽसौ स नित्यपदसंवृतः । 036
श्रूयतामस्य सद्भावः सम्यग्ज्ञानं यथा तव ॥ 036
भवेदेतन्निबोध त्वं नारदाय पुरा हरिः । 037
दर्शयित्वाऽऽत्मनो रूपं यदवोचत्स्वयं विभुः ॥ 037
पुरा देवऋषिः श्रीमान्नारदः परमार्थवान् । 038
चचार पृथिवीं कृत्स्नां तीर्थान्यनुचरन्प्रभुः ॥ 038
हिमवत्पादमाश्रित्य विचार्य च पुनःपुनः । 039
स ददर्श ह्रदं तत्र पद्मोत्पलसमाकुलम् ॥ 039
ददर्श कन्यां तत्तीरे सर्वाभरणभूषिताम् । 040
शोभमानां श्रिया राजन्क्रीडन्तीमुत्पलैस्तथा ॥ 040
सा महात्मानमालोक्य नारदेत्याह भामिनी । 041
तस्याः समीपमासाद्य तस्थौ विस्मितमानसः ॥ 041
वीक्षमाणं तमाज्ञाय सा कन्या चारुवासिनी । 042
विजजृम्भे महाभागा स्मयमाना पुनः पुनः ॥ 042
तस्मात्समभवद्वक्त्रात्पुरुषाकृतिसंयुतः । 043
रत्नबिन्दुचिताङ्गस्तु सर्वाभरणभूषितः ॥ 043
आदित्यसदृशाकारः शिरसा धारयन्मणिम् । 044
पुनरेव तदाकारसदृशः समजायत ॥ 044
तृतीयस्तु महाराज विविधाभरणैर्युतः । 045
प्रदक्षिणं तु तां कृत्वा विविधध्वनयस्तु ताम् ॥ 045
ततः सर्वेण विप्रर्षिः कन्यां पप्रच्छ तां शुभाम् ॥ 046
का त्वं परमकल्याणि पद्मेन्दुसदृशानने । 047
न जाने त्वां महादेवि ब्रूहि सत्यमनिन्दिते ॥ 047
कन्योवाच 048
सावित्री नाम विप्रर्षे शृणु भद्रं तवास्तु वै । 048
किं करिष्यामि तद्ब्रूहि तव यच्चेतसि स्थितम् ॥ 048
नारद उवाच 049
अभिवादये त्वां सावित्रि कृतार्थोऽहमनिन्दिते । 049
एतं मे संशयं देवि वक्तुमर्हसि शोभने ॥ 049
यस्तु वै प्रथमोत्पन्नः कोऽसौ स पुरुषाकृतिः । 050
बिन्दवस्तु महादेवि मूर्ध्नि ज्योतिर्मयाकृतिः ॥ 050
कन्योवाच 051
अग्रजः प्रथमोत्पन्नो यजुर्वेदस्तथाऽपरः । 051
तृतीयः सामवेदस्तु संशयो व्येतु ते मुने ॥ 051
वेदाश्च बिन्दुसंयुक्ता यज्ञस्य फलसंश्रिताः । 052
यत्तद्दृष्टं महज्ज्योतिर्ज्योतिरित्युच्यते बुधैः ॥ 052
ऋषे ज्ञेयं मया चाऽपीत्युक्त्वा चान्तरधीयत । 053
ततः स विस्मयाविष्टो नारदः पुरुषर्षभ । 053
ध्यानयुक्तः स तु चिरं न बुबोध महामतिः ॥ 053
ततः स्नात्वा महातेजा वाग्यतो नियतेन्द्रियः । 054
तुष्टाव पुरुषव्याघ्रो जिज्ञासुश्च तदद्भुतम् ॥ 054
ततो वर्षशते पूर्णे भगवाँलोकभावनः । 055
प्रादुश्चकार विश्वात्मा ऋषेः परमसौहृदात् ॥ 055
तमागतं जगन्नाथं सर्वकारणकारणम् । 056
अखिलामरमौल्यङ्गरुक्मारुणपदद्वयम् ॥ 056
वैनतेयपदस्पर्शकिणशोभितजानुकम् । 057
पीताम्बरलसत्काञ्चीदामबद्धकटीतटम् ॥ 057
श्रीवत्सवक्षसं चारुमणिकौस्तुभकन्धरम् । 058
मन्दस्मितमुखाम्भोजं चलदायतलोचनम् ॥ 058
नम्रचापानुकरणनम्रभ्रूयुगशोभितम् । 059
नानारत्नमणीवज्रस्फुरन्मकरकुण्डलम् ॥ 059
इन्द्रनीलनिभाभं तं केयूरमकुटोज्ज्वलम् । 060
देवैरिन्द्रपुरोगैश्च ऋषिसङ्घैरभिष्टुतम् ॥ 060
नारदो जयशब्देन ववन्दे शिरसा हरिम् ॥ 061
ततः स भगवाञ्श्रीमान्मेघगम्भीरया गिरा । 062
प्राहेशः सर्वभूतानां नारदं पतितं क्षितौ ॥ 062
भद्रमस्तु ऋषे तुभ्यं वरं वरय सुव्रत । 063
यत्ते मनसि सुव्यक्तमस्ति च प्रददामि तत् ॥ 063
स चेमं जयशब्देन प्रसीदेत्यातुरो मुनिः । 064
प्रोवाच हृदि संरूढं शङ्खचक्रगदाधरम् ॥ 064
विवक्षितं जगन्नाथ मया ज्ञातं त्वयाऽच्युत । 065
तत्प्रसीद हृषीकेश श्रोतुमिच्छामि तद्धरे ॥ 065
ततः स्मयन्महाविष्णुरभ्यभाषत नारदम् । 066
यद्दृष्टं मम रूपं तु वेदानां शिरसि त्वया ॥ 066
निर्द्वन्द्वा निरहङ्काराः शुचयः शुद्धलोचनाः । 067
तं मां पश्यन्ति सततं तान्पृच्छ यदिहेच्छसि ॥ 067
ये योगिनो महाप्राज्ञा मदंशा ये व्यवस्थिताः । 068
तेषां प्रसादं देवर्षे मत्प्रसादमवैहि तत् ॥ 068
भीष्म उवाच 069
इत्युक्त्वा स जगामाथ भगवान्भूतभावनः । 069
तस्माद्व्रज हृषीकेशं कृष्णं देवकिनन्दनम् ॥ 069
एतमाराध्य गोविन्दं गता मुक्तिं महर्षयः । 070
एष कर्ता विकर्ता च सर्वकारणकारणम् ॥ 070
मयाऽप्येतच्छ्रुतं राजन्नारदात्तु निबोध तत् । 071
स्वयमेव समाचष्ट नारदो भगवान्मुनिः ॥ 071
समस्तसंसारविघातकारणं भजन्ति ये विष्णुमनन्यमानसाः । 072
ते यान्ति सायुज्यमतीव दुर्लभमितीव नित्यं हृदि वर्णयन्ति ॥' 072
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि पञ्चाधिकद्विशततमोऽध्यायः ॥ 205 ॥
- अयमध्यायः ध. पुस्तक एव दृश्यते । 12-205-65 मया विवक्षितं त्वया ज्ञातमिति सम्बन्धः ॥ 12-205-69 व्रज शरणमिति शेषः ॥