अध्यायः 204

भीष्मेण युधिष्ठिरम् प्रति मनुबृहस्पतिसंवादानुवादसमापनम् ॥ 1 ॥ मनुरुवाच 001
'तदेव सततं मन्ये न शक्यमनुवर्णितुम् । 001a
यथा निदर्शनं वस्तु न शक्यमनुबोधितुम् ॥ 001c
यथाहि सारं जानाति न कथञ्चन संस्थितम् । 002a
परकायच्छविस्तद्वद्देहेऽयं चेतनस्तथा ॥ 002c
विना कायं न सा च्छाया तां विना कायमस्त्युत । 003a
तद्वदेव विना नास्ति प्रकृतेरिह वर्तनम् ॥ 003c
इदं वै — नास्ति नेदमस्ति परं विना । 004a
जीवात्मना त्वसौ छिन्नस्त्वेष चैव परात्मना ॥ 004c
तत्तथेति विदुः केचिदतथ्यमिति चापरे । 005a
उभयं मे मतं विद्वन्मुक्तिहेतौ समाहितम् ॥ 005c
विमुक्तैश्च मृगः सोऽपि दृश्यते संयतेन्द्रियः । 006a
सर्वेषां न हि दृश्यो हि तटिद्वत्स्फुरति ह्यसौ ॥ 006c
ब्राह्मणस्य समादृश्यो वर्तते सोऽपि किं पुनः । 007a
विद्यते परमः शुद्धः साक्षिभूतो विभावसुः ॥ 007c
श्रुतिरेषा ततो नित्या तस्मादेकः परो मतः । 008a
न प्रयोजनमुद्दिश्य चेष्टा तस्य महात्मनः ॥ 008c
तादृशोस्त्विति मन्तव्यस्तथा सत्यं महात्मना । 009a
नानासंस्थेन भेदेन सदा गतिविभेदवत् । 009c
तस्य भेदः समाख्यातो भेदो ह्यस्ति तथाविधः ॥ 009e
एवं विद्वन्विजानीहि परमात्मानमव्ययम् । 010a
तत्तद्गुणविशेषेण सञ्ज्ञानामनुसंयुतम् ॥ 010c
सर्वेश्वरः सर्वमयः स च सर्वप्रवर्तकः । 011a
सर्वात्मकः सर्वशक्तिः सर्वकारणकारणम् ॥ 011c
सर्वसाधारणः सर्वैरुपास्यश्च महात्मभिः । 012a
वासुदेवेति विख्यातस्तं विदित्वाऽश्नुतेऽमृतम् ॥' 012c
यदा ते पञ्चभिः पञ्च युक्तानि मनसा सह । 013a
अथ तद्द्रक्ष्यते ब्रह्म मणौ सूत्रमिवार्पितम् ॥ 013c
तदेव च यथा सूत्रं सुवर्णे वर्तते पुनः । 014a
मुक्तास्वथ प्रवालेषु मृन्मये राजते तथा ॥ 014c
तद्वद्गोऽश्वमनुष्येषु तद्वद्धस्तिमृगादिषु । 015a
तद्वत्कीटपतङ्गेषु प्रसक्तात्मा स्वकर्मभिः ॥ 015c
येनयेन शरीरेण यद्यत्कर्म करोत्ययम् । 016a
तेनतेन शरीरेण तत्तत्फलमुपाश्नुते ॥ 016c
यथा ह्येकरसा भूमिरोषध्यर्थानुसारिणी । 017a
तथा कर्मानुगा बुद्धिरन्तरात्माऽनुदर्शिनी ॥ 017c
ज्ञानपूर्वोद्भवा लिप्सा लिप्सापूर्वाभिसन्धिता । 018a
अभिसन्धिपूर्वकं कर्म कर्ममूलं ततः फलम् ॥ 018c
फलं कर्मत्मकं विद्यात्कर्म ज्ञेयात्मकं तथा । 019a
ज्ञेयं ज्ञानात्मकं विद्याज्ज्ञानं सदसदात्मकम् ॥ 019c
'तदेवमिष्यते ब्रह्म सङ्ख्यानाद्विनिभिद्यते ।' 020a
ज्ञानानां च फलानां च ज्ञेयानां कर्मणां तथा । 020c
क्षयान्ते यत्फलं विद्याज्ज्ञानं ज्ञेयप्रतिष्ठितम् ॥ 020e
महद्धि परमं भूतं युक्ताः पश्यन्ति योगिनः । 021a
अबुधास्तं न पश्यन्ति ह्यात्मस्थं गुणबुद्धयः ॥ 021c
पृथिवीरूपतो रूपमपामिह महत्तरम् । 022a
अद्भ्यो महत्तरं तेजस्तेजसः पवनो महान् ॥ 022c
पवनाच्च महद्व्योम तस्मात्परतरं मनः । 023a
मनसो महती बुद्धिर्बुद्धेः कालो महान्स्मृतः ॥ 023c
कालात्स भगवान्विष्णुर्यस्य सर्वमिदं जगत् । 024a
नादिर्न मध्यं नैवान्तस्तस्य देवस्य विद्यते ॥ 024c
अनादित्वादमध्यत्वादनन्तत्वाच्च सोऽव्ययः । 025a
अत्येति सर्वदुःखानि दुःखं ह्यन्तवदुच्यते ॥ 025c
तद्ब्रह्म परमं प्रोक्तं तद्धाम परमं पदम् । 026a
तद्गत्वा कालविषयाद्विमुक्ता मोक्षमाश्रिताः ॥ 026c
गुणेष्वेते प्रकाशन्ते निर्गुणत्वात्ततः परम् । 027a
निवृत्तिलक्षणो धर्मस्तथाऽऽनन्त्याय कल्पते ॥ 027c
ऋचो यजूंषि सामानि शरीराणि व्यपाश्रिताः । 028a
जिह्वाग्रेषु प्रवर्तन्ते यत्नसाध्याविनाशिनः ॥ 028c
न चैवमिष्यते ब्रह्म शरीराश्रयसम्भवम् । 029a
न यत्नसाध्यं तद्ब्रह्म नादिमध्यं न चान्तवत् ॥ 029c
ऋचामादिस्तथा साम्नां यजुषामादिरुच्यते । 030a
अन्तश्चादिमतां दृष्टो न त्वादिर्ब्रह्मणः स्मृतः ॥ 030c
अनादित्वादनन्तत्वात्तदनन्तमथाव्ययम् । 031a
अव्ययत्वाच्च निर्दुःखं द्वन्द्वाभावस्ततः परम् ॥ 031c
अदृष्टतोऽनुपायाच्च प्रतिसन्धेश्च कर्मणः । 032a
न तेन मर्त्याः पश्यन्ति येन गच्छन्ति तत्पदम् ॥ 032c
विषयेषु च संसर्गाच्छाश्वतस्य च संशयात् । 033a
मनसा चान्यदाकाङ्क्षन्परं न प्रतिपद्यते ॥ 033c
गुणान्यदिह पश्यन्ति तदिच्छन्त्यपरे जनाः । 034a
परं नैवाभिकाङ्क्षन्ति निर्गुणत्वाद्गुणार्थिनः ॥ 034c
गुणैर्यस्त्ववरैर्युक्तः कथं विद्याद्गुणानिमान् । 035a
अनुमानाद्धि गन्तव्यं गुणैरवयवैः परम् ॥ 035c
सूक्ष्मेण मनसा विद्मो वाचा वक्तुं न शक्नुमः । 036a
मनो हि मनसा ग्राह्यं दर्शनेन च दर्शनम् ॥ 036c
ज्ञानेन निर्मलीकृत्य बुद्धिं बुद्ध्या मनस्तथा । 037a
मनसा चेन्द्रियग्राममक्षरं प्रतिपद्यते ॥ 037c
बुद्धिप्रहीणो मनसा समृद्धस्तथाऽनिराशीर्गुणतामुपैति । 038a
परं त्यजन्तीह विलोभ्यमाना हुताशनं वायुरिवेन्धनस्थम् ॥ 038c
गुणादाने विप्रयोगे च तेषां मनः सदा विद्धि परावराभ्याम् । 039a
अनेनैव विधिना सम्प्रवृत्तो गुणादाने ब्रह्म शरीरमेति ॥ 039c
अव्यक्तात्मा पुरुषोऽव्यक्तकर्मा सोऽव्यक्तत्वं गच्छति ह्यन्तकाले । 040a
तैरेवायं चेन्द्रियैर्वर्धमानैर्ग्लायद्भिर्वा वर्ततेऽकामरूपः ॥ 040c
सर्वैरयं चेन्द्रियैः सम्प्रयुक्तो देहं प्राप्तः पञ्चभूताश्रयः स्यात् । 041a
न सामर्थ्याद्गच्छति कर्मणेह हीनस्तेन परमेणाव्ययेन ॥ 041c
पृथ्व्या नरः पश्यति नान्तमस्या ह्यन्तश्चास्या भविता चेति विद्धि । 042a
परं न यातीह विलोभ्यमानो यथा प्लवं वायुरिवार्णवस्थम् ॥ 042c
दिवाकरो गुणमुपलभ्य निर्गुणो यथा भवेदपगतरश्मिमण्डलः । 043a
तथा ह्यसौ मुनिरिह निर्विशेषवान् स निर्गुणं प्रविशति ब्रह्म चाव्ययम् ॥ 043c
अनागतं सुकृतवतां परां गतिं स्वयम्भुवं प्रभवनिधानमव्ययम् । 044a
सनातनं यदमृतमव्ययं ध्रुवं निचाय्य तत्परममृतत्वमश्नुते ॥ 044c

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि चतुरधिकद्विशततमोऽध्यायः ॥ 204 ॥

12-204-16 येनयेन पित्र्येण दैवेन गान्धर्वेण प्राजापत्येन वा प्राप्येण हेतुभूतेन यस्य यस्य देहस्य प्राप्त्यर्थमित्यर्थः । यद्यत्कर्म यज्ञादिकम् ॥ 12-204-33 शाश्वतस्य दर्शनात् इति झ. पाठः ॥ 12-204-40 यो व्यक्तत्वं गच्छति ब्रह्मभूयः । सुपुष्पितैः कर्मभिरिद्ध्यमानः सायन्दिवो वर्तते कर्मरूपः इति ध. पाठः ॥