अध्यायः 203

भीष्मेण युधिष्ठिरम् प्रति मनुबृहस्पतिसंवादानुवादः ॥ 1 ॥ मनुरुवाच 001
दुःखोपघाते शारीरे मानसे चाप्युपस्थिते । 001a
यस्मिन्न शक्यते कर्तुं यत्नस्तं नानुचिन्तयेत् ॥ 001c
भैषज्यमेतद्दुःखस्य यदेतन्नानुचिन्तयेत् । 002a
चिन्त्यमानं हि चाभ्येति भूयश्चापि प्रवर्तते ॥ 002c
प्रज्ञया मानसं दुःखं हन्याच्छारीरमौषधैः । 003a
एतद्विज्ञानसामर्थ्यं न बालैः समतामियात् ॥ 003c
अनित्यं यौवनं रूपं जीवितं द्रव्यसञ्चयः । 004a
आरोग्यं प्रियसंवासो गृध्येत्तत्र न पण्डितः ॥ 004c
न जानपदिकं दुःखमेकः शोचितुमर्हति । 005a
अशोचन्प्रतिकुर्वीत यदि पश्येदुपक्रमम् ॥ 005c
सुखाद्बहुतरं दुःखं जीविते नास्ति संशयः । 006a
स्निग्धस्य चेन्द्रियार्थेषु मोहान्मरणमप्रियम् ॥ 006c
परित्यजति यो दुःखं सुखं वाऽप्युभयं नरः । 007a
अभ्येति ब्रह्म सोत्यन्तं न ते शोचन्ति पण्डिताः ॥ 007c
दुःखमर्था हि युज्यन्ते पालने न च ते सुखम् । 008a
दुःखेन चाधिगम्यन्ते नाशमेषां न चिन्तयेत् ॥ 008c
ज्ञानं ज्ञेयाभिर्निवृत्तं विद्धि ज्ञानगुणं मनः । 009a
प्रज्ञाकरणसंयुक्तं ततो बुद्धिः प्रवर्तते ॥ 009c
यदा कर्मगुणोपेता बुद्धिर्मनसि वर्तते । 010a
तदा प्रज्ञायते ब्रह्म ध्यानयोगसमाधिना ॥ 010c
सेयं गुणवती बुद्धिर्गुणेष्वेवाभिवर्तते । 011a
अपरादभिनिःस्रौति गिरेः शृङ्गादिवोदकम् ॥ 011c
यदा निर्गुणमाप्नोति ध्यानं मनसि पूर्वजम् । 012a
तदा प्रज्ञायते ब्रह्म निकषं निकषे यथा ॥ 012c
मनस्त्वसंहृतं बुद्ध्या हीन्द्रियार्थनिदर्शकम् । 013a
न समर्थं गुणापेक्षि निर्गुणस्य निदर्शने ॥ 013c
सर्वाण्येतानि संवार्य द्वाराणि मनसि स्थितः । 014a
मनस्येकाग्रतां कृत्वा तत्परं प्रतिपद्यते ॥ 014c
यथा महान्ति भूतानि निवर्तन्ते गुणक्षये । 015a
तथेन्द्रियाण्युपादाय बुद्धिर्मनसि वर्तते ॥ 015c
यदा मनसि सा बुद्धिर्वर्ततेऽन्तरचारिणी । 016a
व्यवसायगुणोपेता तदा सम्पद्यते मनः ॥ 016c
गुणवद्भिर्गुणोपेतं यदा ध्यानगतं मनः । 017a
तदा सर्वान्गुणान्हित्वा निर्गुणं प्रतिपद्यते ॥ 017c
अव्यक्तस्येह विज्ञाने नास्ति तुल्यं निदर्शनम् । 018a
यत्र नास्ति पदन्यासः कस्तं विषयमाप्नुयात् ॥ 018c
तपसा चानुमानेन गुणैर्जात्या श्रुतेन च । 019a
निनीषेत्परमं ब्रह्म विशुद्धेनान्तरात्मना ॥ 019c
गुणहीनो हि तं मार्गं बहिः समनुवर्तते । 020a
गुणाभावात्प्रकृत्या वा निस्तर्क्यं ज्ञेयसम्मितम् ॥ 020c
नैर्गुण्याद्ब्रह्म चाप्नोति सगुणत्वान्निवर्तते । 021a
गुणप्रसारिणी बुद्धिर्हुताशन इवेन्धने ॥ 021c
यदा पञ्च वियुक्तानि इन्द्रियाणि स्वकर्मभिः । 022a
तदा तत्परमं ब्रह्म सम्मुक्तं प्रकृतेः परम् ॥ 022c
एवं प्रकृतितः सर्वे सम्भवन्ति शरीरिणः । 023a
निवर्तन्ते निवृत्तौ च स्वर्गे नैवोपयान्ति च ॥ 023c
पुरुषप्रकृतिर्बुद्धिर्विशेषाश्चेन्द्रियाणि च । 024a
अहङ्कारोऽभिमानश्च सम्भूतो भूतसञ्ज्ञकः ॥ 024c
एतस्याद्या प्रवृत्तिस्तु प्रधानात्सम्प्रवर्तते । 025a
द्वितीया मिथुनव्यक्तिमविशेषान्नियच्छति ॥ 025c
धर्मादुत्कृष्यते श्रेयस्तथा धर्मोऽष्यधर्मतः । 026a
रागवान्प्रकृतिं ह्येति विरक्तो ज्ञानवान्भवेत् ॥ 026c

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि त्र्यधिकद्विशततमोऽध्यायः ॥ 203 ॥

12-203-5 उपक्रमं प्रतीकारोपायम् ॥ 12-203-6 मरणं भवति ॥ 12-203-7 ते ब्रह्माभिगताः ॥