अध्यायः 202
भीष्मेण युधिष्ठिरम् प्रति मनुबृहस्पतिसंवादानुवादः ॥ 1 ।
मनुरुवाच 001
यथा व्यक्तमिदं शेते स्वप्ने चरति चेतनम् । 001a
ज्ञानमिन्द्रियसंयुक्तं तद्वत्प्रेत्य भवाभवौ ॥ 001c
यथाऽम्भसि प्रसन्ने तु रूपं पश्यति चक्षुषा । 002a
तद्वत्प्रसन्नेन्द्रियवाञ्ज्ञेयं ज्ञानेन पश्यति ॥ 002c
स एव लुलिते तस्मिन्यथा रूपं न पश्यति । 003a
तथेन्द्रियाकुलीभावे ज्ञेयं ज्ञाने न पश्यति ॥ 003c
अबुद्धिरज्ञानकृता अबुद्ध्या दूष्यते मनः । 004a
दुष्टस्य मनसः पञ्च सम्प्रदुष्यन्ति मानसाः ॥ 004c
अज्ञानतृप्तो विषयेष्ववगाढो न पश्यति । 005a
स दृष्ट्वैव तु पूतात्मा विषयेभ्यो निवर्तते ॥ 005c
तर्षच्छेदो न भवति पुरुषस्येह कल्मषात् । 006a
निवर्तते तदा तर्षः पापमन्तर्गतं यदा ॥ 006c
'अन्तर्गतेन पापेन दह्यमानेन चेतसा । 007a
शुभाशुभविकारेण न स भूयोऽभिजायते ॥' 007c
विषयेषु तु संसर्गाच्छाश्वतस्य तु संश्रयात् । 008a
मनसा चान्यथा काङ्क्षन्परं न प्रतिपद्यते ॥ 008c
ज्ञानमुत्पद्यते पुंसां क्षयात्पापस्य कर्मणः । 009a
अथादर्शतलप्रख्ये पश्यत्यात्मानमात्मनि ॥ 009c
प्रसृतैरिन्द्रियैर्दुःखी तैरेव नियतैः सुखी । 010a
तस्मादिन्द्रियचोरेभ्यो यच्छेदात्मानमात्मना ॥ 010c
इन्द्रियेभ्यो मनः पूर्वं बुद्धिः परतरा ततः । 011a
बुद्धेः परतरं ज्ञानं ज्ञानात्परतरं परम् ॥ 011c
अव्यक्तात्प्रसृतं ज्ञानं ततो बुद्धिस्ततो मनः । 012a
मनः श्रोत्रादिभिर्युक्तं शब्दादीन्साधु पश्यति ॥ 012c
यस्तांस्त्यजति शब्दादीन्सर्वाश्च व्यक्तयस्तथा । 013a
'प्रसृतानीन्द्रियाण्येव प्रतिसंहरति कूर्मवत् ।' 013c
विमुञ्चत्याकृतिग्रामांस्तान्मुक्त्वाऽमृतमश्नुते ॥ 013e
उद्यन्हि सविता यद्वत्सृजते रश्मिमण्डलम् । 014a
'दृश्यते मण्डलं तस्य न च दृश्येत मण्डली । 014c
तद्वद्देहस्तु सन्दृश्य आत्माऽदृश्यः परः सदा ॥ 014e
ग्रस्तं ह्युद्गिरते नित्यमुद्गीथं वेत्ति नित्यशः । 015a
बाल्ये रथाभ्यां योगेन तत्वज्ञानं तु सम्मतम् ॥' 015c
स एवास्तमुपागच्छंस्तदेवात्मनि यच्छति । 016a
'आदत्ते सर्वभूतानां रसभूतं विकासवान् ॥' 016c
अन्तरात्मा तथा देहमाविश्येन्द्रियरश्मिभिः । 017a
प्राप्येन्द्रियगुणान्पञ्च सोऽस्तमावृत्त्य गच्छति । 017c
'रश्मिमण्डलहीनस्तु न चासौ नास्ति तावता ॥' 017e
प्रणीतं कर्मणा मार्गं नीयमानः पुनः पुनः । 018a
प्राप्नोत्ययं कर्मफलं प्रवृत्तं धर्ममाप्तवान् ॥ 018c
विषया विनिवर्तन्ते निराहारस्य देहिनः । 019a
रसवर्जं रसोऽप्यस्य परं दृष्ट्वा निवर्तते ॥ 019c
बुद्धिः कर्मगुणैर्हीना यदा मनसि वर्तते । 020a
तदा सम्पद्यते ब्रह्म तत्रैव प्रलयं गतम् ॥ 020c
अस्पर्शनमशृण्वानमनास्वादमदर्शनम् । 021a
अघ्राणमवितर्कं च सत्वं प्रविशते परम् ॥ 021c
'अव्यक्तात्प्रसृतं ज्ञानं ततो बुद्धिस्ततो मनः । 022a
आत्मनः प्रसृता बुद्धिरव्यक्तं ज्ञानमुच्यते ॥ 022c
तस्माद्बुद्धिः स्मृता तज्ज्ञैर्मनस्तस्मात्ततः स्मृतम् । 023a
तस्मादाकृतयः पञ्च मनः परममुच्यते ॥ 023c
तस्मात्परतरा बुद्धिर्ज्ञानं तस्मात्परं स्मृतम् । 024a
ततः सूक्ष्मस्ततो ह्यात्मा तस्मात्परतरं न च । 024c
इन्द्रियाणि निरीक्षन्ते मनसैतानि सर्वशः ॥' 024e
मनस्याकृतयो मग्ना मनस्त्वभिगतं मतिम् । 025a
मतिस्त्वभिगता ज्ञानं ज्ञानं चाभिगतं महत् ॥ 025c
नेन्द्रियैर्मनसः सिद्धिर्न बुद्धिं बुध्यते मनः । 026a
न बुद्धिर्बुध्यतेऽव्यक्तं सूक्ष्मं त्वेतानि पश्यति ॥ 026c
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि द्व्यधिकद्विशततमोऽध्यायः ॥ 202 ॥
12-202-5 अज्ञानदुष्टो विषयेष्ववगाढो न दृश्यते इति ध. पाठः ॥ 12-202-21 अघ्राणमवितर्षं चेति थ. पाठः ॥