अध्यायः 201

भीष्मेण युधिष्ठिरम् प्रति मनुबृहस्पतिसंवादानुवादः ॥ 1 ॥ मनुरुवाच 001
यदिन्द्रियैस्तूपगतैः पुरस्तात्प्राप्तान्गुणान्संस्मरते चिराय । 001a
तेष्विन्द्रियेषूपहतेषु पश्चात्स बुद्धिरूपः परमः स्वभावः ॥ 001c
य इन्द्रियार्थान्युगपत्समन्तान्नावेक्षते कृत्स्नशस्तुल्यकालम् । 002a
यथाक्रमं सञ्चरते स विद्वांस्तस्मात्स एकः परमः शरीरी ॥ 002c
रजस्तमः सत्वमथो तृतीयं गच्छत्यसौ ज्ञानगुणान्विरूपान् । 003a
'न तैर्निबद्धः स तु बध्नाति विश्वं न चानुयातीह गुणान्परात्मा । 003c
'तथेन्द्रियाण्याविशते शरीरी हुताशनं वायुरिवेन्धनस्थम् ॥ 003e
न चक्षुषा पश्यति रूपमात्मनो न पश्यति स्पर्शनमिन्द्रियेन्द्रियम् । 004a
न श्रोत्रलिङ्गं श्रवणेन दर्शनं तथा कृतं पश्यति तद्विनश्यति ॥ 004c
श्रोत्रादीनि न पश्यन्ति स्वंस्वमात्मानमात्मना । 005a
सर्वज्ञः सर्वदर्शी च क्षेत्रज्ञस्तानि पश्यति ॥ 005c
यथा हिमवतः पार्श्वे पृष्ठं चन्द्रमसो यथा । 006a
न दृष्टपूर्वं मनुजैर्न च तन्नास्ति तावता ॥ 006c
तद्वद्भूतेषु भूतात्मा सूक्ष्मो ज्ञानात्मवानसौ । 007a
अदृष्टपूर्वश्चक्षुर्भ्यां न चासौ नास्ति तावता ॥ 007c
पश्यन्नपि यथा लक्ष्म जनः सोमेन विन्दति । 008a
एवमस्ति न चोत्पन्नं न च तन्न परायणम् ॥ 008c
रूपवन्तमरूपत्वादुदयास्तमने बुधाः । 009a
धिया समनुपश्यन्ति तद्गताः सवितुर्गतिम् ॥ 009c
तथा बुद्धिप्रदीपेन दूरस्थं सुविपश्चितः । 010a
प्रत्यासन्नं निषीदन्ति ज्ञेयं ज्ञानाभिसंहितम् ॥ 010c
न हि खल्वनुपायेन कश्चिदर्थोऽभिसिद्ध्यति । 011a
सूत्रजालैर्यथा मत्स्यान्बध्नन्ति जलजीविनः ॥ 011c
मृगैर्मृगाणां ग्रहणं पक्षिणां पक्षिभिर्यथा । 012a
गजानां च गजैरेव ज्ञेयं ज्ञानेन गृह्यते ॥ 012c
अहिरेव ह्यहेः पादान्पश्यतीति निदर्शनम् । 013a
तद्वन्मूर्तिषु मूर्तिस्थं ज्ञेयं ज्ञानेन पश्यति ॥ 013c
नोत्सहन्ते यथा वेत्तुमिन्द्रियैरिन्द्रियाण्यपि । 014a
तथैवेह परा बुद्धिः परं बुद्ध्या न पश्यति ॥ 014c
यथा चन्द्रो ह्यमावास्यामलिङ्गत्वान्न दृश्यते । 015a
न च नाशोऽस्य भवति तथा विद्धि शरीरिणम् ॥ 015c
क्षीणकोशो ह्यमावास्यां चन्द्रमा न प्रकाशते । 016a
तद्वन्मूर्तिविमुक्तोऽसौ शरीरी नोपलभ्यते ॥ 016c
यथा कोशान्तरं प्राप्य चन्द्रमा भ्राजते पुनः । 017a
तद्वल्लिङ्गान्तरं प्राप्य शरीरी भ्राजते पुनः ॥ 017c
जन्म बुद्धिः क्षयश्चास्य प्रत्यक्षेणोपलभ्यते । 018a
सा तु चन्द्रमसो व्यक्तिर्न तु तस्य शरीरिणः ॥ 018c
उत्पत्तिवृद्धिव्ययतो यथा स इति गृह्यते । 019a
चन्द्र एव त्वमावास्यां तथा भवति मूर्तिमान् ॥ 019c
नाभिसर्पद्विमुञ्चद्वा शशिनं दृश्यते तमः । 020a
विसृजंश्चोपसर्पंश्च तद्वत्पश्य शरीरिणम् ॥ 020c
यथा चन्द्रार्कसंयुक्तं तमस्तदुपलभ्यते । 021a
तद्वच्छरीरसंयुक्तं ज्ञानं तदुपलभ्यते ॥ 021c
यथा चन्द्रार्कनिर्मुक्तः स राहुर्नोपलभ्यते । 022a
तद्वच्छरीरनिर्मुक्तः शरीरी नोपलभ्यते ॥ 022c
यथा चन्द्रो ह्यमावास्यां नक्षत्रैर्युज्यते गतः । 023a
तद्वच्छरीरनिर्मुक्तः फलैर्युज्यति कर्मणः ॥ 023c

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि एकाधिकद्विशततमोऽध्यायः ॥ 201 ॥

12-201-4 स्पर्शनमिन्द्रियाणामिति ध. पाठः ॥ 12-201-8 एवमस्ति नवेत्यन्यो न वेत्ति न परायणम् इति ध. पाठः ॥ 12-201-13 ज्ञानेन गृह्यते इति ट. ड. थ. पाठः ॥