अध्यायः 200
भीष्मेण युधिष्ठिरम् प्रति मनुबृहस्पतिसंवादानुवादः ॥ 1 ॥
मनुरुवाच 001
अक्षरात्खं ततो वायुस्ततो ज्योतिस्ततो जलम् । 001a
जलात्प्रसूता जगती जगत्या जायते जगत् ॥ 001c
इमे शरीरैर्जलमेव गत्वा जलाच्च तेजः पवनान्तरिक्षम् । 002a
खाद्वै निवर्तन्ति न भाविनस्ते ये भाविनस्ते परमाप्नुवन्ति ॥ 002c
नोष्णं न शीतं मृदु नापि तीक्ष्णं नाम्लं कषायं मधुरं न तिक्तम् । 003a
न शब्दवन्नापि च गन्धवत्तन्न रूपवत्तत्परमस्वभावम् ॥ 003c
स्पर्शं तनुर्वेद रसं च जिह्वा घ्राणं च गन्धाञ्श्रवणे च शब्दान् । 004a
रूपाणि चक्षुर्न च तत्परं यद्गृह्णन्त्यनध्यात्मविदो मनुष्याः ॥ 004c
निवर्तयित्वा रसनां रसेभ्यो घ्राणं च गन्धाच्छ्रवणे च शब्दात् । 005a
स्पर्शात्तनुं रूपगुणात्तु चक्षुस्ततः परं पश्यति तत्स्वभावम् ॥ 005c
यतो गृहीत्वा हि करोति यच्च यस्मिंश्च यामारभते प्रवृत्तिम् । 006a
यस्मै च यद्येन च यश्च कर्ता यत्कारणं तं स्वमुपेयमाहुः ॥ 006c
यद्वाऽप्यभूद्व्यापकं साधकं च यन्मन्त्रवत्स्थास्यति चापि लोके । 007a
यः सर्वहेतुः परमार्थकारी तत्कारणं कार्यमतो यदन्यत् ॥ 007c
यथा हि कश्चित्सुकृतैर्मनुष्यः शुभाशुभं प्राप्नुते चाविरोधात् । 008a
एवं शरीरेषु शुभाशुभेषु स्वकर्मभिर्ज्ञानमिदं निबद्धम् ॥ 008c
यथा प्रदीप्तः पुरतः प्रदीपः प्रकाशमन्यस्य करोति दीप्यन् । 009a
तथेह पञ्चेन्द्रियदीपवृक्षा ज्ञानप्रदीप्ताः परवन्त एव ॥ 009c
यथा च राज्ञो बहवो ह्यमात्याः पृथक् प्रमाणं प्रवदन्ति युक्ताः । 010a
तद्वच्छरीरेषु भवन्ति पञ्च ज्ञानैकदेशाः परमः स तेभ्यः ॥ 010c
यथार्चिषोऽग्नेः पवनस्य वेगा मरीचयोऽर्कस्य नदीषु चापः । 011a
गच्छन्ति चायान्ति च संयताश्च तद्वच्छरीराणि शरीरिणां तु ॥ 011c
यथा च कश्चित्परशुं गृहीत्वा धूमं न पश्येज्ज्वलनं च काष्ठे । 012a
तद्वच्छरीरोदरपाणिपादं छित्त्वा न पश्यन्ति ततो यदन्यत् ॥ 012c
तान्येव काष्ठानि यथा विमथ्य धूमं च पश्येज्ज्वलनं च योगात् । 013a
तद्वत्सुबुद्धिः सममिन्द्रियार्थैर्बुद्धः परं पश्यति तत्स्वभावम् ॥ 013c
यथात्मनोऽङ्गं पतितं पृथिव्यां स्वप्नान्तरे पश्यति चात्मनोऽन्यत् । 014a
श्रोत्रादियुक्तः सुमनाः सुबुद्धिर्लिङ्गात्तथा गच्छति लिङ्गमन्यत् ॥ 014c
उत्पत्तिवृद्धिक्षयसन्निपातैर्न युज्यतेऽसौ परमः शरीरी । 015a
अनेन लिङ्गेन तु लिङ्गमन्यद्गच्छत्यदृष्टः प्रतिसन्धियोगात् ॥ 015c
न चक्षुषा पश्यति रूपमात्मनो न चापि संस्पर्शमुपैति किञ्चित् । 016a
न चापि तैः साधयते स्वकार्यं ते तं न पश्यन्ति स पश्यते तान् ॥ 016c
यथा समीपे ज्वलतोऽनलस्य सन्तापजं रूपमुपैति कश्चित् । 017a
न चान्तरा रूपगुणं बिभर्ति तथैव तद्दृश्यते रूपमस्य ॥ 017c
तथा मनुष्यः परिमुच्य कायमदृश्यमन्यद्विशते शरीरम् । 018a
विसृज्य भूतेषु महत्सु देहं तदाश्रयं चैव बिभर्ति रूपम् ॥ 018c
खं वायुमग्निं सलिलं तथोर्वीं समन्ततोऽभ्याविशते शरीरी । 019a
नान्याश्रयाः कर्मसु वर्तमानाः श्रोत्रादयः पञ्चगुणाञ्श्रयन्ते ॥ 019c
श्रोत्रं नभो घ्राणमथो पृथिव्यास्तेजोमयं रूपमथो विपाकः । 020a
जलाश्रयं तेज उक्तं रसं च वाय्वात्मकः स्पर्शकृतो गुणश्च ॥ 020c
महत्सु भूतेषु च सन्ति पञ्च पञ्चेन्द्रियार्थेषु तथेन्द्रियाणि । 021a
सर्वाणि चैतानि मनोनुगानि बुद्धिं मनोऽन्वेति मतिः स्वभावम् ॥ 021c
शुभाशुभं कर्म कृतं यदस्य तदेव प्रेत्याददतेऽन्यदेहे । 022a
मनोऽनुवर्तन्ति परावराणि जलौकसः स्रोत इवानुकूलम् ॥ 022c
चलं यथा दृष्टिपथं परैति सूक्ष्मं महद्रूपमिवावभाति । 023a
तातप्यमानो न पतेच्च धीरः परं तथा बुद्धिपथं परैति ॥ 023c
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि द्विशततमोऽध्यायः ॥ 200 ॥
12-200-13 पृथक्परं पश्यति तत्स्वभावमिति ड. पाठः ॥ 12-200-20 श्रोत्रं खत इति झ. पाठः । जलाश्रयः स्वेद उक्तो रसश्चेति ध. पाठः । जलाश्रयं ज्ञानमुक्तमिति ट. ड. थ. पाठः ॥ 12-200-23 स्वरूपमालोचयते च रूपमिति झ. पाठः ॥