अध्यायः 199
ज्ञानयोगादेः फलम् भगवद्वेदनप्रकारञ्च पृष्टेन भीष्मेण युधिष्ठिरम् प्रति तत्कथनाय मनुबृहस्पतिसंवादानुवादः ॥ 1 ॥
युधिष्ठिर उवाच 001
किं फलं ज्ञानयोगस्य वेदानां नियमस्य च । 001a
भूतात्मा च कथं ज्ञेयस्तन्मे ब्रूहि पितामह ॥ 001c
भीष्म उवाच 002
अत्राप्युदाहरन्तीममितिहासं पुरातनम् । 002a
मनोः प्रजापतेर्वादं महर्षेश्च बृहस्पतेः ॥ 002c
प्रजापतिं श्रेष्ठतमं प्रजानां देवर्षिसङ्घप्रवरो महर्षिः । 003a
बृहस्पतिः प्रश्नमिमं पुराणं प्रपच्छ शिष्योऽथ गुरुं प्रणम्य ॥ 003c
यत्कारणं मन्त्रविधिः प्रवृत्तो ज्ञाने फलं यत्प्रवदन्ति विप्राः । 004a
यन्मन्त्रशब्दैरकृतप्रकाशं तदुच्यतां मे भगवन्यथावत् ॥ 004c
यत्स्तोत्रशास्त्रागममन्त्रविद्भिर्यज्ञैरनेकैरथ गोप्रदानैः । 005a
फलं महद्भिर्यदुपास्यते च किं तत्कथं वा भविता क्व वा तत् ॥ 005c
मही महीजाः पवनोऽन्तरिक्षं जलौकसश्चैव जलं तथा द्यौः । 006a
दिवौकसश्चापि यतः प्रसूतास्तदुच्यतां मे भगवन्पुराणम् ॥ 006c
ज्ञानं यतः प्रार्थयते नरो वै ततस्तदर्था भवति प्रवृत्तिः । 007a
न चाप्यहं वेद परं पुराणं मिथ्याप्रवृत्तिं च कथं नु कुर्याम् ॥ 007c
ऋक्सामसङ्घांश्च यजूंषि चाहं छन्दांसि नक्षत्रगतिं निरुक्तम् । 008a
अधीत्य च व्याकरणं सकल्पं शिक्षां च भूतप्रकृतिं न वेद्मि ॥ 008c
स मे भवाञ्शंसतु सर्वमेतत्सामान्यशब्दैश्च विशेषणैश्च । 009a
स मे भवाञ्शंसतु तावदेतज्ज्ञाने फलं कर्मणि वा यदस्ति ॥ 009c
यथा च देहाच्च्यवते शरीरी पुनः शरीरं च यथाऽभ्युपैति । 010a
मनुरुवाच 010
यद्यत्प्रियं यस्य सुखं तदाहुस्तदेव दुःखं प्रवदन्त्यनिष्टम् ॥ 010c
इष्टं च मे स्यादितरच्च न स्यादेतत्कृते कर्मविधिः प्रवृत्तः । 011a
इष्टं त्वनिष्टं च न मां भजेतेत्येतत्कृते ज्ञानविधिः प्रवृत्तः ॥ 011c
[कामात्मकाश्छन्दसि कर्मयोगा एभिर्विमुक्तः परमश्नुवीत । 012a
नानाविधे कर्मपथे सुखार्थी नरः प्रवृत्तो निरयं प्रयाति ।] 012c
बृहस्पतिरुवाच 012
इष्टं त्वनिष्टं च सुखासुखे च साशीस्तपश्छन्दति कर्मभिश्च ॥ 012e
मनुरुवाच 013
एभिर्विमुक्तः परमाविवेश एतत्कृते कर्मविधिः प्रवृत्तः । 013a
[कामात्मकांश्छन्दति कर्मयोग एभिर्विमुक्तः परमाददीत ॥] 013c
आत्मादिभिः कर्मभिरिध्यमानो धर्मे प्रवृत्तो द्युतिमान्सुखार्थी । 014a
परं हि तत्कर्मफलादपेतं निराशिषो यत्पदमाप्नुवन्ति ॥ 014c
प्रजाः सृष्टा मनसा कर्मणा च द्वावेवैतौ सत्पथौ लोकजुष्टौ । 015a
दृष्टं कर्माशाश्वतं चान्तवच्च मनस्त्यागे कारणं नान्यदस्ति ॥ 015c
'कामात्मकौ छन्दसि कामभोगावेभिर्वियुक्तः परमश्नुवीत । 016a
नानाविधे कर्मफले सुखार्थी नरः प्रमत्तो न परं प्रयाति । 016c
फलं हि तत्कर्मफलादपेतं निराशिषो ब्रह्म परं ह्युपेतम् ॥' 016e
स्वेनात्मना चक्षुरिव प्रणेता निशात्यये तमसा संवृतात्मा । 017a
ज्ञानं तु विज्ञानगुणेन युक्तं कर्माशुभं पश्यति वर्जनीयम् ॥ 017c
सर्पान्कृशाग्राणि तथोदपानं ज्ञात्वा मनुष्याः परिवर्जयन्ति । 018a
अज्ञानतस्तत्र पतन्ति मूढा ज्ञाने फलं पश्य यथा विशिष्टम् ॥ 018c
कृत्स्नस्तु मन्त्रो विधिवत्प्रयुक्तो यज्ञा यथोक्तास्त्विह दक्षिणाश्च । 019a
अन्नप्रदानं मनसः समाधिः पञ्चात्मकं कर्मफलं वदन्ति ॥ 019c
गुणात्मकं कर्म वदन्ति वेदास्तस्मान्मन्त्रो मन्त्रपूर्वं हि कर्म । 020a
विधिर्विधेयं मनसोपपत्तिः फलस्य भोक्ता तु तथा शरीरी ॥ 020c
शब्दाश्च रूपाणि रसाश्च पुण्याः स्पर्शाश्च गन्धाश्च शुभास्तथैव । 021a
नरोऽत्र हि स्थानगतः प्रभुः स्यादेतत्फलं सिद्ध्यति कर्मणोऽस्य ॥ 021c
यद्यच्छरीरेण करोति कर्म शरीरयुक्तः समुपाश्नुते तत् । 022a
शरीरमेवायतनं सुखस्य दुःखस्य चाप्यायतनं शरीरम् ॥ 022c
वाचा तु यत्कर्म करोति किञ्चिद्वाचैव सर्वं समुपाश्नुते तत् । 023a
मनस्तु यत्कर्म करोति किञ्चिन्मनःस्थ एवायमुपाश्नुते तत् ॥ 023c
यथायथा कर्मगुणां फलार्थी करोत्ययं कर्मफले निविष्टः । 024a
तथातथाऽयं गुणसम्प्रयुक्तः शुभाशुभं कर्मफलं भुनस्ति ॥ 024c
मत्स्यो यथा स्रोत इवाभिपाती तथा कृतं पूर्वमुपैति कर्म । 025a
शुभे त्वसौ तुष्यति दुष्कृते तु न तुष्यते वै परमः शरीरी ॥ 025c
यतो जगत्सर्वमिदं प्रसूतं ज्ञात्वाऽऽत्मवन्तो ह्युपयान्ति शान्तिम् । 026a
यन्मन्त्रशब्देरकृतप्रकाशं तदुच्यमानं शणु मे परं यत् ॥ 026c
रसैर्विमुक्तं विविधैश्च गन्धैरशब्दमस्पर्शमरूपवच्च । 027a
अग्राह्यमव्यक्तमवर्णमेकं पञ्चप्रकारान्ससृजे प्रजानाम् ॥ 027c
न स्त्री पुमान्नापि नपुंसकं च न सन्न चासत्सदसच्च तन्न । 028a
पश्यन्ति तद्ब्रह्मविदो मनुष्यास्तदक्षरं न क्षरतीति विद्धि ॥ 028c
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि एकोनद्विशततमोऽध्यायः ॥ 199 ॥