अध्यायः 198

भीष्मेण युधिष्ठिरम् प्रति जपस्य फलकथनपूर्वकं जापकोपाख्यानसमापनम् ॥ 1 ॥ युधिष्ठिर उवाच 001
किमुत्तरं तदा तौ स्म चक्रतुस्तस्य भाषिते । 001a
ब्राह्मणो वाऽथवा राजा तन्मे ब्रूहि पितामह ॥ 001c
अथवा तौ गतौ तत्र यदेतत्कीर्तितं त्वया । 002a
संवादो वा तयोः कोऽभूत्किं वा तौ तत्र चक्रतुः ॥ 002c
भीष्म उवाच 003
तथेत्येवं प्रतिश्रुत्य धर्मं सम्पूज्य जापकः । 003a
यमं कालं च मृत्युं च स्वर्गं सम्पूज्य चार्हतः ॥ 003c
पूर्वं ये चापरे तत्र समेता ब्राह्मणर्षभाः । 004a
सर्वान्सम्पूज्य शिरसा राजानं सोऽब्रवीद्द्विजः ॥ 004c
फलेनानेन संयुक्तो राजर्षे गच्छ मुख्यताम् । 005a
भवता चाभ्यनुज्ञातो जपेयं भूय एव ह ॥ 005c
वरश्च मम पूर्वं हि दत्तो देव्या महाबल । 006a
श्रद्धा ते जपतो नित्यं भवत्विति विशाम्पते ॥ 006c
राजोवाच 007
यद्येवं सफला सिद्धिः श्रद्धा च जपितुं तव । 007a
गच्छ विप्र मया सार्धं जापकं फलमाप्नुहि ॥ 007c
ब्राह्मण उवाच 008
कृतः प्रयत्नः सुमहान्सर्वेषां सन्निधाविह । 008a
सह तुल्यफलावावां गच्छावो यत्र नौ गतिः ॥ 008c
भीष्म उवाच 009
व्यवसायं तयोस्तत्र विदित्वा त्रिदशेश्वरः । 009a
सह देवैरुपययौ लोकपालैस्तथैव च ॥ 009c
साध्याश्च विश्वे मरुतो वाक्यानि सुमहान्ति च । 010a
नद्यः शैलाः समुद्राश्च तीर्थानि विविधानि च ॥ 010c
तपांसि संयोगविधिर्वेदास्तोभाः सरस्वती । 011a
नारदः पर्वतश्चैव विश्वावसुर्हहाहुहूः ॥ 011c
गन्धर्वश्चित्रसेनश्च परिवारगणैर्युतः । 012a
नागाः सिद्धाश्च मुनयो देवदेवः प्रजापतिः ॥ 012c
'आजगाम च देवेशो ब्रह्मा वेदमयोऽव्ययः ।' 013a
विष्णुः सहस्रशीर्षश्च देवोऽचिन्त्यः समागमत् । 013c
अवाद्यन्तान्तरिक्षे च भेर्यस्तूर्याणि वा विभो ॥ 013e
पुष्पवर्षाणि दिव्यानि तत्र तेषां महात्मनाम् । 014a
ननृतुश्चाप्सरःसङ्घास्तत्रतत्र समन्ततः ॥ 014c
अथ स्वर्गस्तथा रूपी ब्राह्मणं वाक्यमब्रवीत् । 015a
संसिद्धस्त्वं महाभाग त्वं च सिद्धस्तथा नृप ॥ 015c
भीष्म उवाच 016
अथ तौ सहितौ राजन्नन्योन्यस्य विधानतः । 016a
विषयप्रतिसंहारमुभावेव प्रचक्रतुः ॥ 016c
प्राणापानौ तथोदानं समानं व्यानमेव च । 017a
एवं तौ मनसि स्थाप्य दधतुः प्राणयोर्मनः ॥ 017c
उपस्थितकृतौ तौ च नासिकाग्रमधो भ्रुवोः । 018a
भ्रुकुट्याक्ष्णोश्च मनसा शनैर्धारयतस्तदा ॥ 018c
निश्चेष्टाभ्यां शरीराभ्यां स्थिरदृष्टी समाहितौ । 019a
जितासनौ समाधाय मूर्धन्यात्मानमेव च ॥ 019c
तालुदेशमथोद्दाल्य ब्राह्मणस्य महात्मनः । 020a
ज्योतिर्ज्वाला सुमहती जगाम त्रिदिवं तदा ॥ 020c
हाहाकारस्तथा दिक्षु सर्वासु सुमहानभूत् । 021a
तज्ज्योतिः स्तूयमानं स्म ब्रह्माणं प्राविशत्तदा ॥ 021c
ततः स्वागतमित्याह तत्तेजः प्रपितामहः । 022a
प्रादेशमात्रं पुरुषं प्रत्युद्गम्य विशाम्पते ॥ 022c
भूयश्चैवापरं प्राह वचनं मधुरं स्मयन् । 023a
जापकैस्तुल्यफलता योगानां नात्र संशयः ॥ 023c
योगस्य तावदेतेभ्यः प्रत्यक्षं फलदर्शनम् । 024a
जापकानां विशिष्टं तु प्रत्युत्थानं समाहितम् ॥ 024c
उष्यतां मयि चेत्युक्त्वा व्याददे स ततो मुखम् । 025a
अथास्यं प्रविवेशास्य ब्राह्मणो विगतज्वरः ॥ 025c
राजाऽप्येतेन विधिना भगवन्तं पितामहम् । 026a
यथैव द्विजशार्दूलस्तथैव प्राविशत्तदा ॥ 026c
स्वयम्भुवमथो देवा अभिवाद्य ततोऽब्रुवन् ॥ 027ac
जापकार्थमयं यत्नो यदर्थं वयमागताः । 028a
कृतपूजाविमौ तुल्यौ त्वया तुल्यफलान्वितौ ॥ 028c
योगजापकयोस्तुल्यं फलं सुमहदद्य वै । 029a
सर्वांल्लोकानतिक्रम्य गच्छेतां यत्र वाञ्छितम् ॥ 029c
ब्रह्मोवाच 030
महास्मृतिं पठेद्यस्तु तथैवानुस्मृतिं शुभाम् । 030a
तावप्येतेन विधिना गच्छेतां मत्सलोकताम् ॥ 030c
यश्च योगे भवेद्भक्तः सोऽपि नास्त्यत्र संशयः । 031a
विधिनानेन देहान्ते मम लोकानवाप्नुयात् । 031c
साधये गम्यतां चैव यथा स्थानानि सिद्धये ॥ 031e
भीष्म उवाच 032
इत्युक्त्वा स तदा देवस्तत्रैवान्तरधीयत । 032a
आमन्त्र्य च ततो देवा ययुः स्वंस्वं निवेशनम् ॥ 032c
ते च सर्वे महात्मानो धर्मं सत्कृत्य तत्र वै । 033a
पृष्ठतोऽनुययू राजन्सर्वे सुप्रीतचेतसः ॥ 033c
एतत्फलं जापकानां गतिश्चैषा प्रकीर्तिता । 034a
यथाश्रुतं महाराज किं भूयः श्रोतुमिच्छसि ॥ 034c

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि अष्टनवत्यधिकशततमोऽध्यायः ॥ 198 ॥

12-198-1 तौ इक्ष्वाकुपैप्पलादी । तस्य विरूपस्य भाषिते वचने विषये ॥ 12-198-3 अर्हतः पूज्यान् ॥ 12-198-9 व्यवसायं निश्चयम् ॥ 12-198-11 स्तोभाः सामगीतिपूरणार्थनि अक्षराणि हायि हावु इत्यादीनि ॥ 12-198-18 नेत्राग्रैश्चैव मनसेति ट. पाठः ॥ 12-198-20 तालुदेशं ब्रह्मरन्ध्रम् ॥ 12-198-23 योगानां योगिनाम् ॥ 12-198-24 एतेभ्य एतेषां सभ्यानाम् । समाहितं विहितम् ॥ 12-198-30 संहिताध्यायिनां फलमुक्त्वा षडङ्गाध्यायिनां मन्वादिस्मृत्यध्यायिनां च फलमाह महास्मृतिमिति ॥