अध्यायः 197

जापकोपाख्याने कालयमधर्मविप्रेक्ष्वाक्वादीनां संवादः ॥ युधिष्ठिर उवाच 001
कालमृत्युयमानां ते इक्ष्वाकोर्ब्राह्मणस्य च । 001a
विवादो व्याहृतः पूर्वं तद्भवान्वक्तुमर्हति ॥ 001c
भीष्म उवाच 002
अत्राप्युदाहरन्तीममितिहासं पुरातनम् । 002a
इक्ष्वाकोः सूर्यपुत्रस्य यद्वृत्तं ब्राह्मणस्य च ॥ 002c
कालस्य मृत्योश्च तथा यद्वृत्तं तन्निबोध मे । 003a
यथा स तेषां संवादो यस्मिन्स्थानेऽपि चाभवत् । 003c
'येनैव कारणेनात्र धर्मवादसमन्वितः ॥' 003e
ब्राह्मणो जापकः कश्चिद्धर्मवृत्तो महायशाः । 004a
षडङ्गविन्महाप्राज्ञः पैप्पलादिः स कौशिकः ॥ 004c
तस्यापरोक्षं विज्ञानं षडङ्गेषु बभूव ह । 005a
वेदेषु चैव निष्णातो हिमवत्पादसंश्रयः ॥ 005c
सोयं ब्राह्मं तपस्तेपे संहितां संयतो जपन् । 006a
तस्य वर्षसहस्रं तु नियमेन तथा गतम् ॥ 006c
स देव्या दर्शितः साक्षात्प्रीतास्मीति तदा किल । 007a
जप्यमावर्तयंस्तूष्णीं न स तां किञ्चिदब्रवीत् ॥ 007c
तस्यानुकम्पया देवी प्रीता समभवत्तदा । 008a
वेदमाता ततस्तस्य तज्जप्यं समपूजयत् ॥ 008c
'चतुर्भिरक्षरैर्युक्ता सोमपानेऽक्षराष्टका । 009a
जगद्बीजसमायुक्ता चतुर्विंशाक्षरात्मिका ॥' 009c
समाप्य जप्यं तूत्थाय शिरसा पादयोस्तदा । 010a
पपात देव्या धर्मात्मा वचनं चेदमब्रवीत् ॥ 010c
दिष्ट्या देवि प्रसन्ना त्वं दर्शनं चागता मम । 011a
यदि चापि प्रसन्नासि जप्ये मे रमतां मनः ॥ 011c
सावित्र्युवाच 012
किं प्रार्थयसि विप्रर्षे किं चेष्टं करवाणि ते । 012a
प्रब्रूहि जपतां श्रेष्ठ सर्वं तत्ते भविष्यति ॥ 012c
इत्युक्तः स तदा देव्या विप्रः प्रोवाच धर्मवित् । 013a
जप्यं प्रति ममेच्छेयं वर्धत्विति पुनः पुनः ॥ 013c
मनसश्च समाधिर्मे वर्धेताहरहः शुभे । 014a
तत्तथेति ततो देवी मधुरं प्रत्यभाषत ॥ 014c
इदं चैवापरं प्राह देवी तत्प्रियकाम्यया । 015a
निरयं नैव याता त्वं यत्र याता द्विजर्षभाः ॥ 015c
यास्यसि ब्रह्मणः स्थानमनिमित्तमतन्द्रितः । 016a
साधु ते भविता चैतद्यत्त्वयाऽहमिहार्थिता ॥ 016c
नियतो जप चैकाग्रो धर्मस्त्वां समुपैष्यति । 017a
कालो मृत्युर्यमश्चैव समायास्यन्ति तेऽन्तिकम् । 017c
भविता च विवादोऽत्र तव तेषां च धर्मतः ॥ 017e
भीष्म उवाच 018
एवमुक्त्वा भगवती जगाम भवनं स्वकम् ॥ 018ac
ब्राह्मणोऽपि जपन्नास्ते दिव्यं वर्षशतं तथा । 019a
सदा दान्तो जितक्रोधः सत्यसन्धोऽनसूयकः ॥ 019c
समाप्ते नियमे तस्मिन्नथ विप्रस्य धीमतः । 020a
साक्षात्प्रीतस्तदा धर्मो दर्शयामास तं द्विजम् ॥ 020c
धर्म उवाच 021
द्विजाते पश्य मां धर्ममहं त्वां द्रष्टुमागतः । 021a
जप्यस्यास्य फलं यत्तत्सम्प्राप्तं तच्च मे शृणु ॥ 021c
जिता लोकास्त्वया सर्वे ये दिव्या ये च मानुषाः । 022a
देवानां निलयान्साधो सर्वानुत्क्रम्य यास्यसि ॥ 022c
प्राणत्यागं कुरु मुने गच्छ लोकान्यथेप्सितान् । 023a
त्यक्त्वाऽऽत्मनः शरीरं च ततो लोकानवाप्स्यसि ॥ 023c
ब्राह्मण उवाच 024
कृतं लोकेन मे धर्म गच्छ त्वं च यथासुखम् । 024a
बहुदुःखमहं देहं नोत्सृजेयमहं विभो ॥ 024c
धर्म उवाच 025
'अचलं ते मनः कृत्वा त्यज देहं महामते । 025a
अनेन किं ते संयोगः कथं मोहं गमिष्यसि ॥' 025c
अवश्यं भोः शरीरं ते त्यक्तव्यं मुनिपुङ्गव । 026a
स्वर्गमारोह भो विप्र किं वा वै रोचतेऽनघ ॥ 026c
ब्राह्मण उवाच 027
किमुक्तं धर्म किं नेति कस्मान्मां प्रोक्तवानसि । 027a
त्यज देहं द्विजेति त्वं ससम्बुध्यात्र मे यदि ॥ 027c
न रोचये स्वर्गवासं विना देहमहं विभो । 028a
गच्छ धर्म न मे श्रद्धा स्वर्गं गन्तुं विनाऽऽत्मना ॥ 028c
धर्म उवाच 029
अलं देहे मनः कृत्वा त्यक्त्वा देहं सुखी भव । 029a
गच्छ लोकानरजसो यत्र गत्वा न शोचसि ॥ 029c
ब्राह्मण उवाच 030
रमे जपन्महाभाग कृतं लोकैः सनातनैः । 030a
सशरीरेण गन्तव्यं मया स्वर्गं न चान्यथा ॥ 030c
धर्म उवाच 031
'एवं ते कायसम्प्रीतिर्वर्तते मुनिसत्तम ।' 031a
यदि त्वं नेच्छसि त्यक्तुं शरीरं पश्य वै द्विज । 031c
एष कालस्तथा मृत्युर्यमश्च त्वामुपागताः ॥ 031e
भीष्म उवाच 032
अथ वैवस्वतः कालो मृत्युश्च त्रितयं विभो । 032a
ब्राह्मणं तं महाभागमुपगम्येदमब्रुवन् ॥ 032c
यम उवाच 033
तपसोऽस्य सुतप्तस्य तथा सुचरितस्य च । 033a
फलप्राप्तिस्तव श्रेष्ठा यमोऽहं त्वामुपब्रुवे ॥ 033c
काल उवाच 034
यथा वदस्य जप्यस्य फलं प्राप्तस्त्वमुत्तमम् । 034a
कालस्ते स्वर्गमारोहुं कालोऽहं त्वामुपागतः ॥ 034c
मृत्युरुवाच 035
मृत्युं मां विद्धि धर्मज्ञ रूपिणं स्वयमागतम् । 035a
कालेन चोदितो विप्र त्वामितो नेतुमद्य वै ॥ 035c
ब्राह्मण उवाच 036
स्वागतं सूर्यपुत्राय कालाय च महात्मने । 036a
मृत्यवे चाथ धर्माय किं कार्यं करवाणि वः ॥ 036c
भीष्म उवाच 037
अर्घ्यं पाद्यं च दत्त्वा स तेभ्यस्तत्र समागमे । 037a
अब्रवीत्परमप्रीतः स्वशक्त्या किं करोमि वः ॥ 037c
'स्वकार्यनिर्भरा यूयं परोपद्रवहेतवः । 038a
भवन्तो लोकसामान्याः किमर्थं ब्रूत सत्तमाः ॥ 038c
यम उवाच 039
वयमप्येवमत्युग्रा धातुराज्ञापुरःसराः । 039a
चोदिता धावमाना वै कर्मभावमनुव्रताः ॥ 039c
भीष्म उवाच ' 040
तस्मिन्नेवाथ काले तु तीर्थयात्रामुपागतः । 040a
इक्ष्वाकुरगमत्तत्र समेता यत्र ते विभो ॥ 040c
सर्वानेव तु राजर्षिः सम्पूज्याथ प्रणम्य च । 041a
कुशलप्रश्नमकरोत्सर्वेषां राजसत्तमः ॥ 041c
तस्मै सोऽथासनं दत्त्वा पाद्यमर्घ्यं तथैव च । 042a
अब्रवीद्ब्राह्मणो वाक्यं कृत्वा कुशलसंविदम् ॥ 042c
स्वागतं ते महाराज ब्रूहि यद्यदिहेच्छसि । 043a
स्वशक्त्या किं करोमीह तद्भवान्प्रब्रवीतु माम् ॥ 043c
राजोवाच 044
राजाऽहं ब्राह्मणश्च त्वं यदा षट्कर्मसंस्थितः । 044a
ददानि वसु किञ्चित्ते प्रार्थितं तद्वदस्व मे ॥ 044c
ब्राह्मण उवाच 045
द्विविधो ब्राह्मणो राजन्धर्मश्च द्विविधः स्मृतः । 045a
प्रवृत्तश्च निवृत्तश्च निवृत्तोऽहं प्रतिग्रहात् ॥ 045c
तेभ्यः प्रयच्छ दानानि ये प्रवृत्ता नराधिप । 046a
अहं न प्रतिगृह्णामि किमिष्टं किं ददामि ते । 046c
ब्रूहि त्वं नृपतिश्रेष्ठ तपसा साधयामि किम् ॥ 046e
राजोवाच 047
क्षत्रियोऽहं न जानामि देहीति वचनं क्वचित् । 047a
प्रयच्छ युद्धमित्येवंवादी चास्मि द्विजोत्तम ॥ 047c
ब्राह्मण उवाच 048
तुष्यसि त्वं स्वधर्मेण तथा तुष्टा वयं नृप । 048a
अन्योन्यस्योत्तरं नास्ति यदिष्टं तत्समाचर ॥ 048c
राजोवाच 049
स्वशक्त्याऽहं ददानीति त्वया पूर्वमुदाहृतम् । 049a
याचे त्वां दीयतां मह्यं जप्यस्यास्य फलं द्विज ॥ 049c
ब्राह्मण उवाच 050
युद्धं मम सदा वाणी याचतीति विकत्थसे । 050a
न च युद्धं मया सार्धं किमर्थं याचसे पुनः ॥ 050c
राजोवाच 051
वाग्वज्रा ब्राह्मणाः प्रोक्ताः क्षत्रिया बाहुजीविनः । 051a
वाग्युद्धं तदिदं तीव्रं मम विप्र त्वया सह ॥ 051c
ब्राह्मण उवाच 052
सेयमद्य प्रतिज्ञा मे स्वशक्त्या किं प्रदीयताम् । 052a
ब्रूहि दास्यामि राजेन्द्र विभवे सति माचिरम् ॥ 052c
राजोवाच 053
यत्तद्वर्षशतं पूर्णं जप्यं वै जपता त्वया । 053a
फलं प्राप्तं तत्प्रयच्छ मम दित्सुर्भवान्यदि ॥ 053c
ब्राह्मण उवाच 054
परमं गृह्यतां तस्य फलं यज्जपितं मया । 054a
अर्धं त्वमविचारेण फलं तस्य ह्यवाप्नुहि ॥ 054c
अथवा सर्वमेवेह मामकं जापकं फलम् । 055a
राजन्प्राप्नुहि कामं त्वं यदि सर्वमिहेच्छसि ॥ 055c
राजोवाच 056
कृतं सर्वेण भद्रं ते जप्यं यद्याचितं मया । 056a
स्वस्ति तेऽस्तु गमिष्यामि किञ्च तस्य फलं वद ॥ 056c
ब्राह्मण उवाच 057
फलप्राप्तिं न जानामि दत्तं यज्जपितं मया । 057a
अयं धर्मश्च कालश्च यमो मृत्युश्च साक्षिणः ॥ 057c
राजोवाच 058
अज्ञातमस्य धर्मस्य फलं किं मे करिष्यति । 058a
फलं ब्रवीषि धर्मस्य न चेज्जप्यकृतस्य माम् । 058c
प्राप्नोतु तत्फलं विप्रो नाहमिच्छे ससंशयम् ॥ 058e
ब्राह्मण उवाच 059
नाददेऽपरदत्तं वै दत्तं वा चाफलं मया । 059a
वाक्यं प्रमाणं राजर्षे ममाद्य तव चैव हि ॥ 059c
सकृदंशो निपतति सकृत्कन्या प्रदीतये । 060a
सकृदेव ददानीति त्रीण्येतानि सकृत्सकृत् ॥ 060c
नाभिसन्धिर्मया जप्ये कृतपूर्वः कदाचन । 061a
जप्यस्य राजशार्दूल कथं वेत्स्याम्यहं फलम् ॥ 061c
ददस्वेति त्वया चोक्तं दत्तं वाचा फलं मया । 062a
न वाचं दूषयिष्यामि सत्यं रक्ष स्थिरो भव ॥ 062c
अथैवं वदतो मेऽद्य वचनं न करिष्यसि । 063a
महानधर्मो भविता तव राजन्मृषा कृतः ॥ 063c
न युक्ता तु मृषावाणी त्वया वक्तुमरिन्दम । 064a
तथा मयाऽप्यभिहितं मिथ्या कर्तुं न शक्यते ॥ 064c
संश्रुतं च मया पूर्वं ददानीत्यविचारितम् । 065a
तद्गृह्णीष्वाविचारेण यदि सत्ये स्थितो भवान् ॥ 065c
इहागम्य हि मां राजञ्जाप्यं फलमयाचथाः । 066a
तन्मे निसृष्टं गृह्णीष्व भव सत्ये स्थितोपि च ॥ 066c
नायं लोकोऽस्ति न परो न च पूर्वान्स तारयेत् । 067a
कुत एवापरान्राजन्मृषावादपरायणः ॥ 067c
न यज्ञाध्ययने दानं नियमास्तारयन्ति हि । 068a
यथा सत्यं परे लोके तथेह पुरुषर्षभ ॥ 068c
तपांसि यानि चीर्णानि चरिष्यन्ति च यत्तपः । 069a
समाशतैः सहस्रैश्च तत्सत्यान्न विशिष्यते ॥ 069c
सत्यमेकं परं ब्रह्म सत्यमेकं परं तपः । 070a
सत्यमेकं परो यज्ञः सत्यमेकं परं श्रुतम् ॥ 070c
सत्यं वेदेषु जागर्ति फलं सत्ये परं स्मृतम् । 071a
तपो धर्मो दमश्चैव सर्वं सत्ये प्रतिष्ठितम् ॥ 071c
सत्यं वेदास्तथाङ्गानि सत्यं यज्ञास्तथा विधिः । 072a
व्रतचर्या तथा सत्यमोङ्कारः सत्यमेव च ॥ 072c
प्राणिनां जननं सत्यं सत्यं सन्ततिरेव च । 073a
सत्येन वायुरभ्येति सत्येन तपते रविः ॥ 073c
सत्येन चाग्निर्दहति स्वर्गः सत्ये प्रतिष्ठितः । 074a
सत्यं यज्ञस्तपो वेदाः स्तोभा मन्त्राः सरस्वती ॥ 074c
तुलामारोपितो धर्मः सत्यं चैवेति नः श्रुतम् । 075a
समां कक्षां धारयतो यः सत्यं ततोऽधिकम् ॥ 075c
यतो धर्मस्ततः सत्यं सर्वं सत्येन वर्धते । 076a
किमर्थमनृतं कर्म कर्तुं राजंस्त्वमिच्छसि ॥ 076c
सत्ये कुरु स्थिरं भावं मा राजन्ननृतं कृथाः । 077a
कस्मात्त्वमनृतं वाक्यं देहीति कुरुषेऽशुभम् ॥ 077c
यदि जप्यफलं दत्तं मया नेच्छसि वै नृप । 078a
स्वधर्मेभ्यः परिभ्रष्टो लोकाननुचरिष्यसि ॥ 078c
संश्रुत्य यो न दित्सेत याचित्वा यश्च नेच्छति । 079a
उभावानृतिकावेतो न मृषा कर्तुमर्हसि ॥ 079c
राजोवाच 080
योद्धव्यं रक्षितव्यं च क्षत्रधर्मः किल द्विज । 080a
दातारः क्षत्रियाः प्रोक्ता गृह्णीयां भवतः कथम् ॥ 080c
ब्राह्मण उवाच 081
न च्छन्दयामि ते राजन्नापि ते गृहमाव्रजम् । 081a
इहागम्य तु याचित्वा न गृह्णीषे पुनः कथम् ॥ 081c
धर्म उवाच 082
अविवादोऽस्तु युवयोर्वित्तं मां धर्ममागतम् । 082a
द्विजो दानफलैर्युक्तो राजा सत्यफलेन च ॥ 082c
स्वर्ग उवाच 083
स्वर्गं मां विद्धि राजेन्द्र रूपिणं स्वयमागतम् । 083a
अविवादोऽस्तु युवयोरुभौ तुल्यफलौ युवाम् ॥ 083c
राजोवाच 084
कृतं स्वर्गेण मे कार्यं गच्छ स्वर्ग यथागतम् । 084a
विप्रो यदीच्छते दातुं चीर्णं गृह्णातु मे फलम् ॥ 084c
ब्राह्मण उवाच 085
बाल्ये यदि स्मादज्ञानान्मया हस्तः प्रसारितः । 085a
निवृत्तलक्षणं धर्ममुपासे संहितां जपन् ॥ 085c
निवृत्तं मां चिराद्राजन्विप्रलोभयसे कथम् । 086a
स्वेन कार्यं करिष्यामि त्वत्तो नेच्छे फलं नृप । 086c
तपःस्वाध्यायशीलोऽहं निवृत्तश्च प्रतिग्रहात् ॥ 086e
राजोवाच 087
यदि विप्र विसृष्टं ते जप्यस्य फलमुत्तमम् । 087a
आवयोर्यत्फलं किञ्चित्सहितं नौ तदस्त्विह ॥ 087c
द्विजाः प्रतिग्रहे युक्ता दातारो राजवंशजाः । 088a
यदि धर्मः श्रुतो विप्र सहैव फलमस्तु नौ ॥ 088c
मा वा भूत्सह भोज्यं नौ मदीयं फलमाप्नुहि । 089a
प्रतीच्छ मत्कृतं धर्मं यदि ते मय्यनुग्रहः ॥ 089c
भीष्म उवाच 090
ततो विकृतवेषौ द्वौ पुरुषौ समुपस्थितौ । 090a
गृहीत्वाऽन्योन्यमावेष्ट्य कुचेलावूचतुर्वचः ॥ 090c
न मे धारयसीत्येको धारयामीति चापरः । 091a
इहास्ति नौ विवादोऽयमयं राजाऽनुशासकः ॥ 091c
सत्यं ब्रवीम्यहमिदं न मे धारयते भवान् । 092a
अनृतं वदसीह त्वमृणं ते धारयाम्यहम् || 092c
तावुभौ सुभृशं तप्तौ राजानमिदमूचतुः । 093a
परीक्ष्यौ तु यथा स्याव नावामिह विगर्हितौ ॥ 093c
विरूप उवाच 094
धारयामि नरव्याघ्र विकृतस्येह गोः फलम् । 094a
ददतश्च न गृह्णाति विकृतो मे महीपते ॥ 094c
विकृत उवाच 095
न मे धारयते किञ्चिद्विरूपोऽयं नराधिप । 095a
मिथ्या ब्रवीत्ययं हि त्वां सत्याभासं नराधिप ॥ 095c
राजोवाच 096
विरूप किं धारयते भवानस्य ब्रवीतु मे । 096a
श्रुत्वा तथा करिष्येऽहमिति मे धीयते मनः ॥ 096c
विरूप उवाच 097
शृणुष्वावहितो राजन्यथैतद्धारयाम्यहम् । 097a
विकृतस्यास्य राजर्षे निखिलेन नराधिप ॥ 097c
अनेन धर्मप्राप्त्यर्थं शुभा दत्ता पुराऽनघ । 098a
धेनुर्विप्राय राजर्षे तपःस्वाध्यायशीलिने ॥ 098c
तस्याश्चायं मया राजन्फलमभ्येत्य याचितः । 099a
विकृतेन च मे दत्तं विशुद्धेनान्तरात्मना ॥ 099c
ततो मे सुकृतं कर्म कृतमात्मविशुद्धये । 100a
गावौ च कपिले क्रीत्वा वत्सले बहुदोहने ॥ 100c
ते चोञ्छवृत्तये राजन्मया समुपवर्जिते । 101a
यथाविधि यथाश्रद्धं तदस्याहं पुनः प्रभो ॥ 101c
इहाद्यैव प्रयच्छामि गृहीत्वा द्विगुणां फलम् । 102a
एवं स्यात्पुरुषव्याघ्र कःशुद्धः कोऽत्र दोषवान् ॥ 102c
एवं विवदमानौ स्वस्त्वामिहाभ्यागतौ नृप । 103a
कुरु धर्ममधर्मं वा विनये नौ समादध ॥ 103c
यदि नेच्छति मे दानं यथा दत्तमनेन वै । 104a
भवानत्र स्थिरो भूत्वा मार्गे स्थापयिताऽद्य नौ ॥ 104c
राजोवाच 105
दीयमानं न गृह्णासि ऋणं कस्मात्त्वमद्य वै । 105a
यथैव तेऽभ्यनुज्ञातं यथा गृह्णीष्व माचिरम् ॥ 105c
विकृत उवाच 106
दीयतामित्यनेनोक्तं ददानीति तथा मया । 106a
नायं मे धारयत्यत्र गच्छतां यत्र वाञ्छति ॥ 106c
राजोवाच 107
ददतोऽस्य न गृह्णासि विषमं प्रतिभाति मे । 107a
दण्ड्यो हि त्वं मम मतो नास्त्यत्र खलु संशयः ॥ 107c
विकृत उवाच 108
मयाऽस्य दत्तं राजर्षे गृह्णीयां तत्कथं पुनः । 108a
को ममात्रापराधो मे दण्डमाज्ञापय प्रभो ॥ 108c
विरूप उवाच 109
दीयमानं यदि मया न गृह्णासि कथञ्चन । 109a
नियच्छति त्वां नृपतिरयं धर्मानुशासकः ॥ 109c
विकृत उवाच 110
स्वयं मया याचितेन दत्तं कथमिहाद्य तत् । 110a
गृह्णीयां गच्छतु भवानभ्यनुज्ञां ददानि ते ॥ 110c
ब्राह्मण उवाच 111
श्रुतमेतत्त्वया राजन्ननयोः कथितं द्वयोः । 111a
प्रतिज्ञातं मया यत्ते तद्गृहाणाविचारितम् ॥ 111c
राजोवाच 112
प्रस्तुतं सुमहत्कार्यमनयोर्गह्वरं यथा । 112a
जापकस्य दृढीकारः कथमेतद्भविष्यति ॥ 112c
यदि तावन्न गृह्णामि जापकेनापवर्जितम् । 113a
कथं न लिप्येयमहं पापेन महताऽद्य वै ॥ 113c
तौ चोवाच स राजर्षिः कृतकार्यौ गमिष्यथः । 114a
नेदानीं मामिहासाद्य राजधर्मो भवेन्मृषा ॥ 114c
स्वधर्मः परिपाल्यस्तु राज्ञामिति विनिश्चयः । 115a
विप्रधर्मश्च गहनो मामनात्मानमाविशत् ॥ 115c
ब्राह्मण उवाच 116
गृहाण धारयेऽहं च याचितं संश्रुतं मया । 116a
न चेद्ग्रहीष्यसे राजञ्शपिष्ये त्वां न संशयः ॥ 116c
राजोवाच 117
धिग्राजधर्मं यस्यायं कार्यस्येह विनिश्चयः । 117a
इत्यर्थं मे ग्रहीतव्यं कथं तुल्यं भवेदिति ॥ 117c
एष पाणिरपूर्वं मे निक्षेपार्थं प्रसारितः । 118a
यन्मे धारयसे विप्र तदिदानीं प्रदीयताम् ॥ 118c
ब्राह्मण उवाच 119
संहितां जपता यावान्गुणः कश्चित्कृतो मया । 119a
तत्सर्वं प्रतिगृह्णीष्व यदि किञ्चिदिहास्ति मे ॥ 119c
राजोवाच 120
जलमेतन्निपतितं मम पाणौ द्विजोत्तम । 120a
सममस्तु सहैवास्तु प्रतिगृह्णातु वै भवान् ॥ 120c
विरूप उवाच 121
कामक्रोधौ विद्धि नौ त्वमावाभ्यां कारितो भवान् । 121a
'जिज्ञासमानौ युवयोर्मनोत्थं तु द्विजोत्तम ॥' 121c
सहेति च यदुक्तं ते समा लोकास्तवास्य च । 122a
नायं धारयते किञ्चिज्जिज्ञासा त्वत्कृते कृता ॥ 122c
कालो धर्मस्तथा मृत्युः कामक्रोधौ तथा युवाम् । 123a
सर्वमन्योन्यनिष्कर्षे निकृष्टं पश्यतस्तव ॥ 123c
'सर्वेषामुपरिस्थानं ब्रह्मणो व्यक्तजन्मनः । 124a
युवयोः स्थानमूलं निर्द्वन्द्वममलात्मकम् ॥ 124c
सर्वे गच्छाम यत्र स्वान्स्वाल्ँलोकांश्च तथा वयम् ।' 125a
गच्छ लोकाञ्जितान्स्वेन कर्मणा यत्र वाञ्छसि ॥ 125c
' ततो धर्मयमाद्यास्ते वाक्यमूचुर्नृपद्विजौ । 126a
अस्माकं यः स्मृतो मूर्धा ब्रह्मलोकमिति स्मृतम् ॥ 126c
तत्रस्थौ हि भवन्तौ हि युवाभ्यां निर्जिता वयम् । 127a
युवयोः काम आपन्नस्तत्काम्यमविशङ्कया ॥' 127c
भीष्म उवाच 128
जापकानां फलावाप्तिर्मया ते सम्प्रदर्शिता । 128a
गतिः स्थानं च लोकाश्च जापकेन यथा जिताः ॥ 128c
प्रयाति संहिताध्यायी ब्रह्माणं परमेष्ठिनम् । 129a
अथवाऽग्निं समायाति सूर्यमाविशतेऽपि वा ॥ 129c
स तैजसेन भावेन यदि तत्र रमत्युत । 130a
गुणांस्तेषां समाधत्ते रागेण प्रतिमोहितः ॥ 130c
एवं सोमे तथा वायौ भूम्याकाशशरीरगः । 131a
सरागस्तत्र वसति गुणांस्तेषां समाचरन् ॥ 131c
अथ तत्र विरागी स परं गच्छत्यसंशयम् । 132a
परमव्ययमिच्छन्स तमेवाविशते पुनः ॥ 132c
अमृताच्चामृतं प्राप्तः शान्तीभूतो निरात्मवान् । 133a
ब्रह्मभूतः स निर्द्वन्द्वः सुखी शान्तो निरामयः ॥ 133c
ब्रह्मस्थानमनावर्तमेकमक्षरसञ्ज्ञकम् । 134a
अदुःखमजरं शान्तं स्थानं तत्प्रतिपद्यते ॥ 134c
चतुर्भिर्लक्षणैर्हीनं तथा षड्भिः सषोडशैः । 135a
पुरुषं तमतिक्रम्य आकाशं प्रतिपद्यते ॥ 135c
अथ नेच्छति रागात्मा सर्वं तदधितिष्ठति । 136a
यच्च प्रार्थयते तच्च मनसा प्रतिपद्यते ॥ 136c
अथवा चेक्षते लोकान्सर्वान्निरयसञ्ज्ञितान् । 137a
निस्पृहः सर्वतो मुक्तस्तत्र वै रमते सुखम् ॥ 137c
एवमेषा महाराज जापकस्य गतिर्यथा । 138a
एतत्ते सर्वमाख्यातं किं भूयः श्रोतुमर्हसि ॥ 138c

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि सप्तनवत्यधिकशततमोऽध्यायः ॥ 197 ॥

12-197-1 आयुःपरिच्छेदिका देवता कालः । प्राणवियोजिका मृत्युः । पुण्यापुण्यफलदायिका यमः । तत् तम् ॥ 12-197-2 सूर्यपुत्रस्य यमस्य ॥ 12-197-4 जापको मन्त्राध्ययनपरः । पैप्पलाद इति ड. पाठः ॥ 12-197-7 देव्या सावित्र्या दर्शितो दर्शनदानेनानुगृहीतः ॥ 12-197-14 समाधिर्नियमः ॥ 12-197-15 निरयं स्वर्गं क्षयिणम् । याता यास्यसि । याता गताः ॥ 12-197-16 अनिमित्तमजन्यम् । यज्जप्ये मे रमतां मन इति ॥ 12-197-20 दर्शयामास आत्मानं दर्शितवान् ॥ 12-197-24 बहुदुःखसुखमिति झ. ध. पाठः ॥ 12-197-56 कृतमलं सर्वेण जपफलेन ॥ 12-197-57 यज्जपितं जप्यं तस्येति शेषः ॥ 12-197-61 अभिसन्धिः कामः । निष्कामस्य जपस्यानन्तं फलमिति भावः ॥ 12-197-62 दूषयिष्यामि अन्यथाकरिष्यामि ॥ 12-197-66 मे मया निसृष्टं दत्तम् ॥ 12-197-77 देहीति उक्त्वेति शेषः ॥ 12-197-81 न च्छन्दयामि प्रतिगृह्णीष्वेति न प्रार्थितवानस्मि ॥ 12-197-84 तत्प्रतीच्छतु मे फलमिति ध. पाठः । बहु गृह्णातु मे फलमिति ट. पाठः ॥ 12-197-90 द्वौ पुरुषौ कामक्रोधौ ॥ 12-197-93 परीक्ष्य त्वं यथा स्यावो नावामिति झ. पाठः ॥ 12-197-94 प्रार्थना हि राज्ञोऽननुरूपेति तस्य कामो विकृतसञ्ज्ञः । शान्तिस्वभावस्यापि जापकस्य याचित्वापि दीयमानं न गृह्णातीति राजानं प्रति यः क्रोधः स विरूपसञ्ज्ञः । गोः फलं वाचं धेनुमुपासीतेति श्रुतेर्धेनुसरूपायाः वाचः । जपस्य फलमित्यर्थः ॥ 12-197-98 धेनुर्वाक् । विप्राय परमेश्वराय ॥ 12-197-106 धारयामीति झ. ट. पाठः ॥ 12-197-118 निक्षेपार्थं प्रतिगृह्य प्रदानार्थम् ॥ 12-197-131 तेषां सूर्यादिलोकपालानां गुणान् प्रकाशकत्वादीन् ॥