अध्यायः 196

भीष्मेण युधिष्ठिरम् प्रति जापकोपाख्यानम् ॥ 1 ॥ युधिष्ठिर उवाच 001
कीदृशं निरयं याति जापको वर्णयस्व मे । 001a
कौतूहलं हि राजन्मे तद्भवान्वक्तुमर्हति ॥ 001c
भीष्म उवाच 002
धर्मस्यांशप्रसूतोऽसि धर्मज्ञोऽसि स्वभावतः । 002a
धर्ममूलाश्रयं वाक्यं शृणुष्वावहितोऽनघ ॥ 002c
अमूनि यानि स्थानानि देवानाममरात्मनाम् । 003a
नानासंस्थानवर्णानि नानारूपफलानि च ॥ 003c
दिव्यानि कामचारीणि विमानानि सभास्तथा । 004a
आक्रीडा विविधा राजन्पद्मिन्यश्चामलोदकाः ॥ 004c
चतुर्णां लोकपालानां शुक्रस्याथ बृहस्पतेः । 005a
मरुतां विश्वदेवानां साध्यानामश्विनोरपि ॥ 005c
रुद्रादित्यवसूनां च तथाऽन्येषां दिवौकसाम् । 006a
एते वै निरयास्तात स्थानस्य परमात्मनः ॥ 006c
अभयं चानिमित्तं च न च क्लेशभयावृतम् । 007a
द्वाभ्यां मुक्तं त्रिभिर्मुक्तमष्टाभिस्त्रिभिरेव च ॥ 007c
चतुर्लक्षणवर्जं तु चतुष्कारणवर्जितम् । 008a
अप्रहर्षमनानन्दमशोकं विगतक्लमम् ॥ 008c
कालः सम्पच्यते तत्र कालस्तत्र न वै प्रभुः । 009a
स कालस्य प्रभू राजन्सर्वस्यापि तथेश्वरः ॥ 009c
'एतद्वै ब्रह्मणः स्थाने जापकस्य महात्मनः । 010a
तत्रस्थं परमात्मानं ध्यायन्वै सुसमाहितः । 010c
हिरण्यगर्भः सायुज्यं प्राप्नुयाद्वा नृपोत्तम ॥' 010e
आत्मकेवलतां प्राप्तस्तत्र गत्वा न शोचति । 011a
ईदृशं परमं स्थानं निरयास्ते च तादृशाः ॥ 011c
एते ते निरयाः प्रोक्ताः सर्व एव यथातथम् । 012a
तस्य स्थानवरस्येह सर्वे निरयसञ्ज्ञिताः ॥ 012c

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि षण्णवत्यधिकशततमोऽध्यायः ॥ 196 ॥

12-196-2 धर्ममूलं वेदः परमात्मा च तावाश्रयौ यस्य ॥ 12-196-3 अमूनि वक्ष्यमाणानि देवानां दिव्यदेहानाम् । संस्थानान्याकृतयः । वर्णाः श्वेतपीताद्याः । नानारूपाण्यनेकविधानि ॥ 12-196-4 आक्रीडाः उद्यानानि ॥ 12-196-7 अभयं नाशभयशून्यम् । अनिमित्तं स्वभावसिद्धम् । त्रिभिर्गुणैः द्वाभ्यां युक्तं त्रिभिर्युक्तमिति ट. पाठः ॥ 12-196-8 अप्रतर्क्यमनाद्यनन्तमशोकमिति ट. ड. थ. पाठः ॥ 12-196-9 कालं संवहते तत्रेति ध. पाठः ॥