अध्यायः 195
भीष्मेण युधिष्ठिरम् प्रति जापकोपाख्यानकथनम् ॥ 1 ॥
युधिष्ठिर उवाच 001
गतीनामुत्तमा प्राप्तिः कथिता जापकेष्विह । 001a
एकैवैषा गतिस्तेषामुत यान्त्यपरामपि ॥ 001c
भीष्म उवाच 002
शृणुष्वावहितो राजञ्जापकानां गतिं विभो । 002a
यथा गच्छन्ति निरयमनेकं पुरुषर्षभ ॥ 002c
यथोक्तमेतत्पूर्वं यो नानुतिष्ठति जापकः ॥ 003a
एकदेशक्रियश्चात्र निरयं स निगच्छति ॥ 003c
अवमानेन कुरुते न तुष्यति न शोचति । 004a
ईदृशो जापको याति निरयं नात्र संशयः ॥ 004c
अहङ्कारकृतश्चैव सर्वे निरयगामिनः । 005a
परावमानी पुरुषो भविता निरयोपगः ॥ 005c
अभिध्यापूर्वकं जप्यं कुरुते यश्च मोहितः । 006a
यत्रास्य रागः पतति तत्रतत्रोपपद्यते ॥ 006c
अथैश्वर्यप्रसक्तः सञ्जापको यत्र रज्यते । 007a
स एव निरयस्तस्य नासौ तस्मात्प्रमुच्यते ॥ 007c
रागेण जापको जप्यं कुरुते यश्च मोहितः । 008a
यत्रास्य रागः पतति तत्र तत्रोपजायते ॥ 008c
दुर्बुद्धिरकृतप्रज्ञश्चले मनसि तिष्ठति । 009a
फलस्यापचितिं याति निरयं चाधिगच्छति ॥ 009c
अकृतप्रज्ञको बालो मोहं गच्छति जापकः । 010a
स मोहान्निरयं याति यत्र गत्वाऽनुशोचति ॥ 010c
दृढग्राही करोमीति जाप्यं जपति जापकः । 011a
न सम्पूर्णो न वा युक्तो निरयं सोऽधिगच्छति ॥ 011c
अनिमित्तं परं यत्तदव्यक्तं ब्रह्मणि स्थितम् । 012a
तद्भूतो जापकः कस्मात्सशरीरमिहाविशेत् ॥ 012c
दुष्प्रज्ञानेन निरया बहवः समुदाहृताः । 013a
प्रशस्तं जापकत्वं च दोषाश्चैते तदात्मकाः ॥ 013c
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि पञ्चनवत्यधिकशततमोऽध्यायः ॥ 195 ॥
12-195-1 यतीनामिति ध. पाठः ॥ 12-195-2 एतत्सर्वं य इति ट. पाठः ॥ 12-195-3 अपूर्णाङ्गजपपर इत्यर्थः ॥ 12-195-4 अवमानेनाश्रद्धया । जपे प्रीत्यादिरहितः ॥ 12-195-5 अहङ्कारकृतो दर्पवन्तः । पुरुषो जापकः ॥ 12-195-6 अभिध्याफलाभिसन्धिः । यत्र फले रागः प्रीतिस्तत्र तत्फलभोगनिमित्तमुपपद्यते योग्यं देहं प्राप्नोति ॥ 12-195-7 स एव तत्र रागएव ॥