अध्यायः 194

भीष्मेण युधिष्ठिरम् प्रति जपफलप्रकारादिकथनम् ॥ 1 ॥ युधिष्ठिर उवाच 001
चातुराश्रम्यमुक्तं ते राजधर्मास्तथैव च । 001a
नानाश्रयाश्च भगवन्नितिहासाः पृथग्विधाः ॥ 001c
श्रुतास्त्वत्तः कथाश्चैव धर्मयुक्ता महामते । 002a
सन्देहोऽस्ति तु कश्चिन्मे तद्भवान्वक्तुमर्हति ॥ 002c
जापकानां फलावाप्तिं श्रोतुमिच्छामि भारत । 003a
किं फलं जपतामुक्तं क्व वा तिष्ठन्ति जापकाः ॥ 003c
जपस्य च विधिं कृत्स्नं वक्तुमर्हसि मेऽनघ । 004a
जापका इति किञ्चैतत्साङ्ख्ययोगक्रियाविधिः ॥ 004c
किं यज्ञविधिरेवैष किमेतज्जप्यमुच्यते । 005a
एतन्मे सर्वमाचक्ष्व सर्वज्ञो ह्यसि मे मतः ॥ 005c
भीष्म उवाच 006
अत्राप्युदाहरन्तीममितिहासं पुरातनम् । 006a
यमस्य यत्पुरा वृत्तं कालस्य ब्राह्मणस्य च ॥ 006c
'इक्ष्वाकोश्चैव मृत्योश्च विवादे धर्मकारणात् ।' 007a
सन्न्यास एव वेदान्ते वर्तते जपनं प्रति । 007c
वेदवादाङ्गनिर्वृत्ताः शान्ता ब्रह्मण्यवस्थिताः ॥ 007e
साङ्ख्ययोगौ तु यावुक्तौ मुनिभिः समदर्शिभिः । 008a
मार्गौ तावप्युभावेतौ संश्रितौ न च संश्रितौ ॥ 008c
यथा संश्रूयते राजन्कारणं चात्र वक्ष्यते । 009a
'क्रमेण चैष विहितो जपयज्ञविधिर्नृप ॥ 009c
सालम्बनमिति ज्ञेयं जपयज्ञात्मकं शुभम् ।' 010a
मनःसमाधिरेवात्र तथेन्द्रियजयः स्मृतः ॥ 010c
सत्यमग्निपरीचारो विविक्तानां च सेवनम् । 011a
ध्यानं तपो दमः क्षान्तिरनसूया मिताशनम् ॥ 011c
विषयप्रतिसंहारो मितजल्पस्तथा शमः । 012a
एष प्रवर्तको धर्मो निवर्तकमथो शृणु ॥ 012c
यथा निवर्तते धर्मो जपतो ब्रह्मचारिणः । 013a
'न जपो न च वै ध्यानं नेच्छा न द्वेषहर्षणौ । 013c
युज्यते नृपशार्दूल सुसंवेद्यं हि तत्किल ॥ 013e
जपमावर्तयन्नित्यं जपन्वै ब्रह्मचारिकम् । 014a
तदर्थबुद्ध्या संयाति मनसा जापकः परम् ॥ 014c
यथा संश्रूयते जापो येन वै जापको भवेत् । 015a
संहिताप्रणवेनैव सावित्री च परा मता ॥ 015c
यदन्यदुचितं शुद्धं वेदस्मृत्युपपादितम् ।' 016a
एतत्सर्वमशेषेण यथोक्तं परिवर्तयेत् ॥ 016c
द्विविदं मार्गमासाद्य व्यक्ताव्यक्तमनामयम् । 017a
कुशोच्चयनिषष्णः सन्कुशहस्तः कुशैः शिखी । 017c
कुशैः परिवृतस्तस्मिन्मध्ये छन्नः कुशैस्तथा ॥ 017e
विषयेभ्यो नमस्कुर्याद्विषयान्न च भावयेत् । 018a
साम्यमुत्पाद्य मनसा मनस्येव मनो दधत् ॥ 018c
तद्धिया ध्यायति ब्रह्म जपन्वै संहितां हिताम् । 019a
सन्न्यस्यत्यथवा तां वै समाधौ पर्यवस्थितः ॥ 019c
ध्यानमुत्पादयत्यत्र संहिताबलसंश्रयात् । 020a
'अथाभिमतमन्त्रेण प्रणवाद्यं जपेत्कृती ॥ 020c
यस्मिन्नेवाभिपतितं मनस्तत्र निवेशयेत् । 021a
समाधौ स हि मन्त्रे तु संहितां वा यथाविधि ।' 021c
शुद्धात्मा तपसा दान्तो निवृत्तद्वेषकामवान् ॥ 021e
अरागमोहो निर्द्वन्द्वो न शोचति न सज्जते । 022a
न कर्ता करणीयानां नाकार्याणामिति स्थितिः ॥ 022c
न चाहङ्कारयोगेन मनः प्रस्थापयेत्क्वचित् । 023a
न चार्थग्रहणे युक्तो नावमानी न चाक्रियः ॥ 023c
ध्यानक्रियापरो युक्तो ध्यानवान्ध्याननिश्चयः । 024a
ध्याने समाधिमुत्पाद्य तदपि त्यजति क्रमात् ॥ 024c
स वै तस्यामवस्थायां सर्वत्यागकृतः सुखी । 025a
निरिच्छस्त्यजति प्राणान्ब्राह्मीं संश्रयते तनुम् ॥ 025c
'निरालम्बो भवेत्स्मृत्वा मरणाय समाधिमान् । 026a
सर्वाल्लोँकान्समाक्रम्य क्रमात्प्राप्नोति वै परम् ॥' 026c
अथवा नेच्छते तत्र ब्रह्मकायनिषेवणम् । 027a
उत्क्रामति च मार्गस्थो नैव क्वचन जायते ॥ 027c
आत्मबुद्धिं समास्थाय शान्तीभूतो निरामयः । 028a
अमृतं विरजाः शुद्धमात्मानं प्रतिपद्यते ॥ 028c

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि चतुर्नवत्यधिकशततमोऽध्यायः ॥ 194 ॥

12-194-2 ब्रह्मयुक्ता महामते इति ड. थ. पाठः ॥ 12-194-7 शान्तिर्ब्रह्मण्यवस्थिता इति ट. ड. थ. पाठः ॥ 12-194-13 यथा निवर्तते कर्मेति झ. ध. पाठः ॥ 12-194-17 कुशहस्तः कुशस्थलीति ट. ड. थ. पाठः ॥ 12-194-18 विषयेभ्यो मनो रुन्ध्यादिति ट. पाठः ॥ 12-194-19 ब्रह्म च ध्यायते योगी जपन्वै वेदसंहितामिति ड. थ. पाठः ॥