अध्यायः 193
भीष्मेण युधिष्ठिरम् प्रति ध्यानयोगकथनम् ॥ 1 ॥
भीष्म उवाच 001
हन्त वक्ष्यामि ते पार्थ ध्यानयोगं चतुर्विधम् । 001a
यं ज्ञात्वा शाश्वतीं सिद्धिं गच्छन्तीह महर्षयः ॥ 001c
यथा स्वनुष्ठितं ध्यानं तथा कुर्वन्ति योगिनः । 002a
महर्षयो ज्ञानतृप्ता निर्वाणगतमानसाः ॥ 002c
नावर्तन्ते पुनः पार्थ मुक्ताः संसारदोषतः । 003a
जन्मदोषपरिक्षीणाः स्वभावे पर्युपस्थिताः ॥ 003c
निर्द्वन्द्वा नित्यसत्वस्था विमुक्तिं नित्यमाश्रिताः । 004a
असङ्गीन्यविवादीनि मनःशान्तिकराणि च ॥ 004c
तत्र ध्यानेन संश्लिष्टमेकाग्रे धारयेन्मनः । 005a
तत्र च ध्यानसंरोधादथ ज्ञानी भवत्युत ॥ 005c
चतुर्विधेषु भावेषु योऽर्थसक्तः सदैव हि । 006a
तज्ज्ञात्वा वास्तवं तेषामर्थेषु परिवर्तते । 006c
पिण्डीकृत्येन्द्रियग्राममासीनः काष्ठवन्मुनिः ॥ 006e
शब्दं न विन्देच्छ्रोत्रेण त्वचा स्पर्शं न वेदयेत् । 007a
रूपं न चक्षुषा विद्याज्जिह्वया न रसांस्तथा ॥ 007c
घ्रेयाण्यपि च सर्वाणि जह्याद्घ्राणेन योगवित् । 008a
पञ्चवर्गप्रमाथीनि नेच्छेच्चैतानि वीर्यवान् ॥ 008c
ततो मनसि संसृज्य पञ्चवर्गं विचक्षणः । 009a
समादध्यान्मनो भ्रान्तमिन्द्रियैः सह पञ्चमिः ॥ 009c
विसञ्चारि निरालम्बं पञ्चद्वारं चलाचलम् । 010a
पूर्वं ध्यानपदे धीरः समादध्यान्मनो नरः ॥ 010c
इन्द्रियाणि मनश्चैव यदा पिण्डीकरोत्ययम् । 011a
एष ध्यानपथः पूर्वो मया समनुवर्णितः ॥ 011c
तस्य तत्पूर्वसंरुद्धमात्मषष्ठं मनोऽन्तरा । 012a
स्फुरिष्यति समुद्भ्रान्तं विद्युदम्बुधरे यथा ॥ 012c
जलबिन्दुर्यथा लोलः पर्णस्थः सर्वतश्चलः । 013a
एवमेवास्य तच्चित्तं भ्रमति ध्यानवर्त्मनि ॥ 013c
समाहितं क्षणं किञ्चिद्ध्यानवर्त्मनि तिष्ठति । 014a
पुनर्वायुपथं प्राप्तं मनो भवति वायुवत् ॥ 014c
अनिर्वेदो गतक्लेशो गततन्द्रीरमत्सरः । 015a
समादध्यात्पुनश्चेतो ध्यानेन ध्यानयोगवित् ॥ 015c
विचारश्च विवेकश्च वितर्कश्चोपजायते । 016a
मुनेः समादधानस्य प्रथमं ध्यानमादितः ॥ 016c
मनसा क्लिश्यमानस्तु समाधानं च कारयेत् । 017a
न निर्वेदं मुनिर्गच्छेत्कुर्यादेवात्मनो हितम् ॥ 017c
पांसुभस्मकरीषाणां यथा वै राशयश्चिताः । 018a
सहसा वारिणा सिक्ता न यान्ति परिभावनम् ॥ 018c
किञ्चित्स्निग्धं यथा च स्याच्छुष्कचूर्णमभावितम् । 019a
क्रमशस्तु शनैर्गच्छेत्सर्वं तत्परिभावनम् ॥ 019c
एवमेवेन्द्रियग्रामं शनैः सम्परिभावयेत् । 020a
संहरेत्क्रमशश्चैनं स सम्यक्प्रशमिष्यति ॥ 020c
स्वयमेव मनश्चैवं पञ्चवर्गं च भारत । 021a
पूर्वं ध्यानपथे स्थाप्य नित्ययोगेन शाम्यति ॥ 021c
न तत्पुरुषकारेण न च दैवेन केनचित् । 022a
सुखमेष्यति तत्तस्य न भवन्ति विपत्तयः ॥ 022c
सुखेन तेन संयुक्तो रस्यते ध्यानकर्मणि । 023a
गच्छन्ति योगिनो ह्येवं निर्वाणं तन्निरामयम् ॥ 023c
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि त्रिनवत्यधिकशततमोऽध्यायः ॥ 193 ॥
12-193-3 स्वभावे पर्यवस्थिता इति झ. ध. पाठः ॥ 12-193-10 ध्यानपथे इति ट. पाठः ॥ 12-193-14 भ्रमति ज्ञानवर्त्मनीति ट. ड. पाठः ॥