अध्यायः 190

भृगुणा भरद्वाजम् प्रति वानप्रस्थयत्याश्रमयोर्लक्षणकथनम् ॥ 1 ॥ तथा हिमवदुत्तरलोकस्य स्वर्गतुल्यत्वप्रतिपादनपूर्वकं सुकृतिप्राप्यत्वकथनञ्च ॥ 2 ॥ भृगुरुवाच 001
वानप्रस्थाः खल्वृषिधर्ममनुवर्तन्ते पुण्यानि तीर्थानि नदीप्रस्रवणान्यनुचरन्ति सुविभक्तेष्यरण्येषु मृगमहिषवराहशार्दूलसृमरगजाकीर्णेषु तपस्यन्तोऽनुसञ्चरन्ति त्यक्तग्राम्यवस्त्राभ्यवहारोपभोगा वन्यौषधिफलमूलपर्णपरिमितविचित्रनियताहाराः स्थानासनिनो भूमिपाषाणसिकताशर्करावालुकाभस्मशायिनः काशकुशचर्मवल्कलसंवृताङ्गाः केशश्मश्रुनखरोमधारिणो नियतकालोपस्पर्शना अस्कन्नकालबलिहोमानुष्ठायिनः समित्कुशकुसुमापहारार्चनसम्मार्जनहोमान्तलब्धविश्रामाः शीतोष्ण [वर्ष]पवनविनिष्टप्तविभिन्नसर्वत्वचो विविधनियमयोगचर्यानुष्ठानहृत [परिशुष्क] मांसशोणितत्वगस्थिभूता धृतिपराः सत्वयोगाच्छरीराण्युद्वहन्ति ॥ 001AB
भवति चात्र श्लोकः 002
यश्चैतां नियतश्चर्यां ब्रह्मर्षिविहितां चरेत् । 002a
स दहेदग्निवद्दोषाञ्जयेल्लोकांश्च दुर्जयान् ॥ 002c
परिव्राजकानां पुनराचारः । तद्यथा विमुच्यधनकलत्रपरिबर्हणं सङ्गेष्वात्मनः स्नेहपाशानवधूय परिव्रजन्ति समलोष्टाश्मकाञ्चनास्त्रिवर्गप्रवृत्तेष्वारम्भेष्वसक्तबुद्धयोऽरिमित्रोदासीनानां तुल्यदर्शनाः स्थावरजङ्गमानां जरायुजाण्डजस्वेदजोद्भिज्जानां भूतानां वाङ्मनः कर्मभिरभिद्रोहिणोऽनिकेताः पर्वतपुलिनवृक्षमूलदेवतायतनान्यनुचरन्तो वासार्थमुपेयुर्नगरं ग्रामं वा नगरे पञ्चरात्रिका ग्रामे चैकरात्रिकाः प्रविश्य च प्राणधारणार्थं द्विजातीनां भवनान्यसङ्कीर्णकर्मणामुपतिष्ठेयुः पात्रपतिताऽयाचितभैक्ष्याः कामक्रोधदर्पलोभमोहकार्पण्यदम्भपरिवादाभिमानहिंसानिवृत्ता इति ॥ 003AB
भवन्ति चात्र श्लोकाः 004
अभयं सर्वभूतेभ्यो दत्त्वा यश्चरते मुनिः । 004a
न तस्य सर्वभूतेभ्यो भयमुत्पद्यते क्वचित् ॥ 004c
कृत्वाऽग्निहोत्रं स्वशरीरसंस्थं शारीरमग्निं स्वमुखे जुहोति । 005a
यो भैक्षचर्योपगतैर्हविर्भिश्चिताग्निना प्राप्य स याति लोकान् ॥ 005c
मोक्षाश्रमं यः कुरुते यथोक्तं शुचिः सुसङ्कल्पितबुद्धियुक्तः । 006a
अनिन्धनं ज्योतिरिव प्रशान्तं स ब्रह्मलोकं श्रयते द्विजातिः ॥ 006c
भरद्वाज उवाच 007
अस्माल्लोकात्परो लोकः श्रूयते नोपलभ्यते । 007a
तमहं ज्ञातुमिच्छामि तद्भवान्वक्तुमर्हति ॥ 007c
भृगुरुवाच 008
उत्तरे हिमवत्पार्श्वे पुण्ये सर्वगुणान्विते । 008a
पुण्यः क्षेम्यश्च काम्यश्च स परो लोक उच्यते ॥ 008c
तत्र ह्यपापकर्माणः शुचयोऽत्यन्तनिर्मलाः । 009a
लोभमोहपरित्यक्ता मानवा निरुपद्रवाः ॥ 009c
स स्वर्गसदृशो लोकस्तत्र ह्युक्ताः शुभा गुणाः । 010a
नात्र मृत्युः प्रभवति स्पृशन्ति व्याधयो न च ॥ 010c
न लोभः परदारेषु स्वदारनिरतो जनः । 011a
न चान्योन्यवधस्तत्र द्रव्येषु च न विस्मयः ॥ 011c
परोक्षधर्मो नैवास्ति सन्देहो नापि जायते । 012a
कृतस्य तु फलं व्यक्तं प्रत्यक्षमुपलभ्यते ॥ 012c
यानासनाशनोपेताः प्रासादभवनाश्रयाः । 013a
सर्वकामैर्वृताः केचिद्धेमाभरणभूषिताः ॥ 013c
प्राणधारणमात्रं तु केषाञ्चिदुपलभ्यते । 014a
श्रमेण महता केचित्कुर्वन्ति प्राणधारणम् ॥ 014c
इह धर्मपराः केचित्केचिन्नैकृतिका नराः । 015a
सुखिताः दुःखिताः केचिन्निर्धना धनिनोऽपरे ॥ 015c
इह श्रमो भयं मोहः क्षुधा निद्रा च जायते । 016a
लोभश्चार्थकृतो नॄणां येन मुह्यन्त्यपण्डिताः ॥ 016c
इह वार्ता बहुविधा धर्माधर्मस्य कर्मणः । 017a
यस्तद्वेदोभयं प्राज्ञः पाप्मना न स लिप्यते ॥ 017c
सोपधं निकृतिः स्तेयं परिवादो ह्यसूयिता । 018a
परोपघातो हिंसा च पैशुन्यमनृतं तथा ॥ 018c
एतानि सेवते यस्तु तपस्तस्य मितायते । 019a
यस्त्वेतान्नाचरेद्विद्वांस्तपस्तस्य प्रवर्धते ॥ 019c
इह चिन्ता बहुविधा धर्माधर्मस्य कर्मणः । 020a
कर्मभूमिरियं लोके इह कृत्वा शुभाशुभम् । 020c
शुभैः शुभमवाप्नोति कर्ताऽशुभमथान्यथा ॥ 020e
इह प्रजापतिः पूर्वं देवाः सर्षिगणास्तथा । 021a
इष्टेन तपसा पूता ब्रह्मलोकमुपाश्रिताः ॥ 021c
उत्तरः पृथिवीभागः सर्वपुण्यतमः शुभः । 022a
इहत्यास्तत्र जायन्ते ये वै पुण्यकृतो जनाः ॥ 022c
असत्कर्माणि कुर्वाणास्तिर्यग्योनिषु चापरे । 023a
क्षीणायुषस्तथा चान्ये नश्यन्ति पृथिवीतले ॥ 023c
अन्योन्यभक्षणासक्ता लोभमोहसमन्विताः । 024a
इहैव परिवर्न्तते न ते यान्त्युत्तरां दिशम् ॥ 024c
ये गुरून्पर्युपासन्ते नियता ब्रह्मचारिणः । 025a
पन्थानं सर्वलोकानां ते जानन्ति मनीषिणः ॥ 025c
इत्युक्तोऽयं मया धर्मः सङ्क्षेपाद्ब्रह्मनिर्मितः । 026a
धर्माधर्मौ हि लोकस्य यो वै वेत्ति स बुद्धिमान् ॥ 026c
भीष्म उवाच 027
इत्युक्तो भृगुणा राजन्भरद्वाजः प्रतापवान् । 027a
भृगुं परमधर्मात्मा विस्मितः प्रत्यपूजयत् ॥ 027c
एष ते प्रभवो राजञ्जगतः सम्प्रकीर्तितः । 028a
निखिलेन महाप्राज्ञ किं भूयः श्रोतुमिच्छसि ॥ 028c

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि नवत्यधिकशततमोऽध्यायः ॥ 190 ॥

12-190-1 सुविविक्तेष्वरण्येषु इति झ. ड. थ. पाठः ॥ 12-190-3 परिबर्हणं शठ्यादिभोगसामग्री । परिव्राजकानां पुनराचारं प्रवदामः इति ड. थ. पाठः । सङ्गेष्वात्मानमवधूय स्नेहपाशान्परित्यजन्ति । इति ट. पाठः । असङ्कीर्णस्थानान्युपतिष्ठेयुरिति ड. थ. पाठः ॥ 12-190-5 विप्रस्तु भैक्ष्योपगतैर्हविर्भिश्चिताग्निनां स व्रजते हि लोकमिति झ. पाठः ॥ 12-190-6 सुसङ्कल्पितमुक्तबुद्धिः इति झ. पाठः ॥ 12-190-10 स स्वर्गसदृशो देश इति झ. पाठः । काले मृत्युः इति ध. झ. पाठः ॥ 12-190-12 परोक्षधर्मः परोक्षफलो धर्मः । परो ह्यधर्मो नैवास्तीति झ. पाठः । कृतस्य तु फलं तत्र इति ध. झ. पाठः ॥ 12-190-16 क्षुधा तीव्रा च इति झ. पाठः ॥ 12-190-17 वार्ताः कुशलाः ॥ 12-190-18 सोपधं सदम्भम् ॥ 12-190-19 तपो योगजधर्मः । तपस्तस्य प्रहीयते इति झ. पाठः ॥ 12-190-20 चिन्ता विचारः ॥ 12-190-21 ब्रह्मलोकं हिमवत्पार्श्वम् ॥ 12-190-23 यदि सत्कारमृच्छन्ति इति ध. झ. पाठः ॥ 12-190-24 उत्तरां दिशं हिमवत्पार्श्वम् ॥