अध्यायः 189

भृगुणा भरद्वाजम् प्रति चतुराश्रमधर्मनिरूपणम् ॥ 1 ॥ भरद्वाज उवाच 001
दानस्य किं फलं प्रोक्तं धर्मस्य चरितस्य च । 001a
तपसश्च सुतप्तस्य स्वाध्यायस्य हुतस्य वा ॥ 001c
भृगुरुवाच 002
हुतेन शाम्यते पापं स्वाध्यायैः शान्तिरुत्तमा । 002a
दानेन भोग इत्याहुस्तपसा सर्वमाप्नुयात् ॥ 002c
दानं तु द्विविधं प्राहुः परत्रार्थमिहैव च । 003a
सद्भ्यो यद्दीयते किञ्चित्तत्परत्रोपतिष्ठते ॥ 003c
असद्भ्यो दीयते यत्तु तद्दानमिह भुज्यते । 004a
यादृशं दीयते दानं तादृशं फलमुच्यते ॥ 004c
भरद्वाज उवाच 005
किं कस्य धर्माचरणं किं वा धर्मस्य लक्षणम् । 005a
धर्मः कतिविधो वाऽपि तद्भवान्वक्तुमर्हति ॥ 005c
भृगुरुवाच 006
स्वधर्माचरणे युक्ता ये भवन्ति मनीषिणः । 006a
तेषां स्वर्गफलावाप्तिर्योऽन्यथा स विमुह्यते ॥ 006c
भरद्वाज उवाच 007
यदेतच्चातुराश्रम्यं ब्रह्मर्षिविहितं पुरा । 007a
तस्य स्वंस्वं समाचारं यथावद्वक्तुमर्हसि ॥ 007c
भृगुरुवाच 008
पूर्वमेव भगवता ब्रह्मणा लोकहितमनुतिष्ठता धर्मसंरक्षणार्थमाश्रमाश्चत्वारोऽभिनिर्दिष्टाः । तत्र गुरुकुलवासमेव प्रथममाश्रममुदाहरन्ति । सम्यग्यत्र शौचसंस्कारनियमव्रतविनियतात्मा उभे सन्ध्ये भास्कराग्निदैवतान्युपस्थाय विहाय निद्रालस्ये गुरोरभिवादनवेदाभ्यासश्रवणपवित्रीकृतान्तरात्मा [त्रिषवणमुपस्पृश्य ब्रह्मचर्याग्निपरिचरणगुरुशुश्रूषानित्यभिक्ष्याभैक्ष्यादिसर्वनिवेदितान्तरात्मा] गुरुवचनिर्देशानुष्ठानाप्रतिकूलो गुरुप्रसादलब्धस्वाध्यायतत्परः स्यात् ॥ 008AB
भवति चात्र श्लोकः । 009
गुरुं यस्तु समाराध्य द्विजो वेदमवाप्नुयात् । 009a
तस्य स्वर्गफलावाप्तिः शुध्यते चास्य मानसमिति ॥ 009c
गार्हस्थ्यं खलु द्वितीयमाश्रमं वदन्ति । तस्य समुदाचारलक्षणं सर्वमनुव्याख्यास्यामः । समावृत्तानां सदाचाराणां सहधर्मचर्याफलार्थिनां गृहाश्रमो विधीयते । धर्मार्थकामावाप्त्यर्थं त्रिवर्गसाधनमपेक्ष्यागर्हितेन कर्मणा धनान्यादाय स्वाध्यायोपलब्धप्रकर्षेण वा ब्रह्मर्षिनिर्मितेन वा । हव्यकव्यनियमाभ्यां दैवतपूजासमाधिप्रसादविध्युपलब्धेन धनेन गृहस्थो गार्हस्थ्यं वर्तयेत् । तद्धि सर्वाश्रमाणां मूलमुदाहरन्ति । गुरुकुलनिवासिनः परिव्राजका ये चान्ये सङ्कल्पितव्रतनियमधर्मानुष्ठायिनस्तेषामप्यत एव भिक्षाबलिसंविभागाः प्रवर्तन्ते ॥ 010AB
वानप्रस्थानां च द्रव्योपस्कार इति प्रायशः खल्वेते साधवः साधुपथ्याशिनः स्वाध्यायप्रसङ्गिनस्तीर्थाभिगमनदेशदर्शनार्थं पृथिवीं पर्यटन्ति तेषां प्रत्युत्थानाभिगमनाभिवादनानसूयवाक्प्रदानसुखशक्त्यासनसुखशयनाभ्यवहारसत्क्रिया चेति ॥ 011AB
भवति चात्र श्लोकः । 012
अतिथिर्यस्य भग्नाशो गृहात्प्रतिनिवर्तते । 012a
स तस्य दुष्कृतं दत्त्वा पुण्यमादाय गच्छति ॥ 012c
अपि चात्र यज्ञक्रियाभिर्देवताः प्रीयन्ते निवापेन पितरो वेदविद्याभ्यासश्रवणधारणेन ऋषय अपत्योत्पादनेन प्रजापतिरिति ॥ 013AB
श्लोकौ चात्र भवतः । 014
वत्सलाः सर्वभूतानां वाच्याः श्रोत्रसुखा गिरः । 014a
परिवादापवादौ च पारुष्यं चात्र गर्हितम् ॥ 014c
अवज्ञानमहङ्कारो दम्भश्चैव विगर्हितः । 015a
अहिंसा सत्यमक्रोधः सर्वाश्रमगतं तपः ॥ 015c
अपि चात्र माल्याभरणवस्त्राभ्यङ्गनित्योपभोगनृत्तगीतवादित्रश्रुतिसुखनयनाभिरामदर्शनानां प्राप्तिर्भक्ष्यभोज्यलेह्यपेयचोष्याणामभ्यवहार्याणां विविधानामुपभोगः स्वविहारसन्तोषः कामसुखावाप्तिरिति ॥ 016AB
श्लोकौ चात्र भवतः । 017
त्रिवर्गगुणनिर्वृत्तिर्यस्य नित्यं गृहाश्रमे । 017a
स सुखान्यनुभूयेह शिष्टानां गतिमाप्नुयात् ॥ 017c
उञ्छवृत्तिर्गृहस्थो यः स्वधर्माचरणे रतः । 018a
त्यक्तकामसुखारम्भः स्वर्गस्तस्य न दुर्लभः ॥ 018c

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि एकोननवत्यधिकशततमोऽध्यायः ॥ 189 ॥

12-189-2 शान्तिरुपरतिः ॥ 12-189-7 चतुर्णामाश्रमाणां धर्मश्चातुराश्रम्यम् ॥ 12-189-9 सिध्यते चास्य मानसम् इति झ. पाठः ॥ 12-189-10 समावृत्तानां समापितगुरुकुलवासानां स्नातकानाम् । सहोभौ चरतां धर्ममिति दम्पत्योः सहाधिकारिकं धर्मं तच्चर्याफलं पुत्रजन्म ॥ 12-189-11 द्रव्योपस्कारो धनवर्जनम् । सुखशक्त्या सुखवत्या शक्त्या नतु देहपीडया । सत्क्रिया च कर्तव्येति शेषः ॥ 12-189-13 निवापने पितृतर्पणेन ॥ 12-189-14 वात्सल्यात्सर्वभूतेभ्यः इति परितापोपतापश्चेति च. झ. पाठः ॥ 12-189-18 उञ्छः कणश आदानं तेन वृत्तिर्जीवनमस्य । कामसुखमारम्भाश्चेतिद्वन्द्वः ॥