अध्यायः 186

भृगुणा भरद्वाजम् प्रति सर्वेषाम् ब्राह्मणत्वाविशेषेपि क्षत्रियादिवर्णविभागस्य तत्तत्स्वैराचारनिबन्धनत्वोक्तिः ॥ 1 ॥ भृगुरुवाच 001
असृजद्ब्राह्मणानेव पूर्वं ब्रह्मा प्रजापतीन् । 001a
आत्मतेजोभिनिर्वृत्तान्भास्कराग्निसमप्रभान् ॥ 001c
ततः सत्यं च धर्मं च तपो ब्रह्म च शाश्वतम् । 002a
आचारं चैव शौचं च सर्गादौ विदधे प्रभुः ॥ 002c
देवदानवगन्धर्वा दैत्यासुरमहोरगाः । 003a
यक्षराक्षसनागाश्च पिशाचा मनुजास्तथा ॥ 003c
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्च द्विजसत्तम । 004a
ये चान्ये भूतसङ्घानां सङ्घातास्तांश्च निर्ममे ॥ 004c
ब्राह्मणानां सितो वर्णः क्षत्रियाणां तु लोहितः । 005a
वैश्यानां पीतको वर्णः शूद्राणामसितस्तथा ॥ 005c
भरद्वाज उवाच 006
चातुर्वर्ण्यस्य वर्णेन यदि वर्णो विभज्यते । 006a
सर्वेषां खलु वर्णानां दृश्यते वर्णसङ्करः ॥ 006c
कामः क्रोधो भयं लोभः शोकश्चिन्ता क्षुधा श्रमः । 007a
सर्वेषां नः प्रभवति कस्माद्वर्णो विभज्यते ॥ 007c
स्वेदमूत्रपुरीषाणि श्लेष्मा पित्तं सशोणितम् । 008a
तनुः क्षरति सर्वेषां कस्माद्वर्णो विभज्यते ॥ 008c
जङ्गमानामसङ्ख्येयाः स्थावराणां च जातयः । 009a
तेषां विविधवर्णानां कुतो वर्णविनिश्चयः ॥ 009c
भृगुरुवाच 010
न विशेषोऽस्ति वर्णानां सर्वं ब्राह्ममिदं जगत् । 010a
ब्राह्मणाः पूर्वसृष्टा हि कर्मभिर्वर्णतां गताः ॥ 010c
कामभोगप्रियास्तीक्ष्णाः क्रोधनाः प्रियसाहसाः । 011a
त्यक्तस्वधर्मा रक्ताङ्गास्ते द्विजाः क्षत्रतां गताः ॥ 011c
गोषु वृत्तिं समाधाय पीताः कृष्युपजीविनः । 012a
स्वधर्मान्नानुतिष्ठन्ति ते द्विजा वैश्यतां गताः ॥ 012c
हिंसानृतप्रिया लुब्धाः सर्वकर्मोपजीविनः । 013a
कृष्णाः शौचपरिभ्रष्टास्ते द्विजाः शूद्रतां गताः ॥ 013c
इत्येतैः कर्मभिर्व्यस्ता द्विजा वर्णान्तरं गताः । 014a
धर्मो यज्ञक्रिया चैषां नित्यं न प्रतिषिध्यते ॥ 014c
इत्येते चतुरो वर्णा येषां ब्राह्मी सरस्वती । 015a
विहिता ब्रह्मणा पूर्वं लोभात्त्वज्ञानतां गताः ॥ 015c
ब्राह्मणा ब्रह्मतन्त्रस्थास्तपस्तेषां न नश्यति । 016a
ब्रह्म धारयतां नित्यं व्रतानि नियमांस्तथा ॥ 016c
ब्रह्म वैव परं सृष्टं ये तु जानन्ति ते द्विजाः । 017a
तेषां बहुविधास्त्वन्ये तत्रतत्र द्विजातयः ॥ 017c
पिशाचा राक्षसाः प्रेता विविधा म्लेच्छजातयः । 018a
प्रनष्टज्ञानविज्ञानाः स्वच्छन्दाचारचेष्टिताः ॥ 018c
प्रजा ब्राह्मणसंस्काराः स्वकर्मकृतनिश्चयाः । 019a
ऋषिभिः स्वेन तपसा सृज्यन्ते चापरे परैः ॥ 019c
आदिदेवसमुद्भूता ब्रह्ममूलाक्षयाव्यया । 020a
सा सृष्टिर्मानसी नाम धर्मतन्त्रपरायणा ॥ 020c

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि षडशीत्यधिकशततमोऽध्यायः ॥ 186 ॥

12-186-2 स्वर्गाय विदधे इति घ. झ. पाठः ॥ 12-186-5 सितः स्वच्छः सत्वगुणः । लोहितो रजोगुणः । पीतकः रजस्तमोव्यामिश्रः । असितः कृष्णः ॥ 12-186-6 इदमाक्षिपति चातुर्वर्ण्यस्येति । वर्णेन जात्या वर्णः सात्विकत्वादिर्यदि विभज्यते तन्नेति शेषः । तत्र हेतुः सर्वेषामिति ॥ 12-186-7 नोऽस्माकं ब्राह्मणानामपि ॥ 12-186-9 जङ्गमानां पश्वादीनाम् ॥ 12-186-10 ब्राह्मं ब्राह्मणत्वजातिमत् । वर्णतां क्षत्रियादिभावम् ॥ 12-186-11 रक्ताङ्गा रजोगुणमयाः ॥ 12-186-14 व्यस्ताः पृथक्कृताः ॥ 12-186-15 चतुरश्चत्वारः । ब्राह्मी वेदमयी ॥ 12-186-16 ब्रह्मतन्त्रं वेदोक्तानुष्ठानम् ॥ 12-186-17 ये न जानन्ति तेऽद्विजाः इति घ. झ. ट. पाठः ॥ 12-186-19 ब्रह्मणि वेदे विहितो ब्राह्मणः संस्कारो यासां ता वेदोक्तसंस्कारवत्यः । अपरेऽर्वाचीना ऋषयः परैः प्राचीनैः सृज्यन्ते ॥ 12-186-20 अक्षया नाशहीना । अव्यया अपचयहीना ॥