अध्यायः 185

भृगुणा भरद्वाजम् प्रति सङ्घातातिरिक्तजीवसमर्थनपूर्वकं तन्निरूपणम् ॥ 1 ॥ भृगुरुवाच 001
न प्रणाशोऽस्ति जीवानां दत्तस्य च कृतस्य च । 001a
याति देहान्तरं प्राणी शरीरं तु विशीर्यते ॥ 001c
न शरीराश्रितो जीवस्तस्मिन्नष्टे प्रणश्यति । 002a
यथा समित्सु दग्धासु न प्रणश्यति पावकः ॥ 002c
भरद्वाज उवाच 003
अग्नेर्यथा समिद्धस्य यदि नाशो न विद्यते । 003a
इन्धनस्योपयोगान्ते स चाग्निर्नोपलभ्यते ॥ 003c
नश्यतीत्येव जानामि शान्तमग्निमनिन्धनम् । 004a
मतिर्यस्य प्रमाणं वा संस्थानं वा न दृश्यते ॥ 004c
भृगुरुवाच 005
'जीवस्य चेन्धनाग्नेश्च सदा नाशो न विद्यते ।' 005a
समिधामुपयोगान्ते सन्नेवाग्निर्न दृश्यते । 005c
आकाशानुगतत्वाद्धि दुर्ग्रहः स निराश्रयः ॥ 005e
तथा शरीरसन्त्यागे जीवो ह्याकाशमाश्रितः । 006a
न गृह्यते तु सूक्ष्मत्वाद्यथा ज्योतिरनिन्धनम् ॥ 006c
प्राणान्धारयते योऽग्निः स जीव उपधार्यताम् । 007a
वायुसन्धारणो ह्यग्निर्नश्यत्युच्छ्वासनिग्रहात् ॥ 007c
तस्मिन्नष्टे शरीराग्नौ शरीरं तदचेतनम् । 008a
पतितं याति भूमित्वमयनं तस्य हि क्षितिः ॥ 008c
जङ्गमानां हि सर्वेषां स्थावराणां तथैव च । 009a
आकाशं पवनोऽन्वेति ज्योतिस्तमनुगच्छति । 009c
तेषां त्रयाणामेकत्वं द्वयं भूमौ प्रतिष्ठितम् ॥ 009e
यत्र खं तत्र पवनस्तत्राग्निर्यत्र मारुतः । 010a
अमूर्तयस्ते विज्ञेया आपो मूर्तास्तथा क्षितिः ॥ 010c
भरद्वाज उवाच 011
यद्यग्निमारुतौ भूमिः खमापश्च शरीरिषु । 011a
जीवः किंलक्षणस्तत्रेत्येतदाचक्ष्व मेऽनघ ॥ 011c
पञ्चात्मके पञ्चरतौ पञ्चविज्ञानसंयुते । 012a
शरीरे प्राणिनां जीवं वेत्तुमिच्छामि यादृशम् ॥ 012c
मांसशोणितसङ्घाते मेदःस्नाय्वस्थिसञ्चये । 013a
भिद्यमाने शरीरे तु जीवो नैवोपलभ्यते ॥ 013c
यद्यजीवं शरीरं तु पञ्चभूतसमन्वितम् । 014a
शारीरे मानसे दुःखे कस्तां वेदयते रुजम् ॥ 014c
शृणोति कथितं जीवः कर्णाभ्यां न शृणोति तत् । 015a
महर्षे मनसि व्यग्रे तस्माज्जीवो निरर्थकः ॥ 015c
सर्वं पश्यति यद्दृश्यं मनोयुक्तेन चक्षुषा । 016a
मनसि व्याकुले तस्मिन्पश्यन्नपि न पश्यति ॥ 016c
न पश्यति न चाघ्राति न शृणोति न भाषते । 017a
न च स्पर्शरसौ वेत्ति निद्रावशगतः पुनः ॥ 017c
हृष्यति क्रुध्यते कोऽत्र शोचत्युद्विजते च कः । 018a
इच्छति ध्यायति द्वेष्टि वाचमीरयते च कः ॥ 018c
भृगुरुवाच 019
न पञ्चसाधारणमत्र किञ्चिच्छरीरमेकी वहतेऽन्तरात्मा । 019a
स वेत्ति गन्धांश्च रसाञ्श्रुतीश्च स्पर्शं च रूपं च गुणाश्च येऽन्ये ॥ 019c
पञ्चात्मके पञ्चगुणप्रदर्शी स सर्वगात्रानुगतोऽन्तरात्मा । 020a
स वेत्ति दुःखानि सुखानि चात्र तद्विप्रयोगात्तु न वेत्ति देही ॥ 020c
यदा न रूपं न स्पर्शो नोष्मभावश्च पञ्चके । 021a
तदा शान्ते शरीराग्नौ देहं त्यक्त्वा न नश्यति ॥ 021c
अम्मयं सर्वमेवेदमापो मूर्तिः शरीरिणाम् । 022a
तत्रात्मा मानसो ब्रह्मा सर्व भूतेषु लोककृत् ॥ 022c
[आत्मा क्षेत्रज्ञ इत्युक्तः संयुक्तः प्राकृतैर्गुणैः । 023a
तैरेव तु विनिर्मुक्तः परमात्मेत्युदाहृतः ॥] 023c
आत्मानं तं विजानीहि सर्वलोकविपाचकम् । 024a
स तस्मिन्संश्रितो देहे ह्यब्बिन्दुरिव पुष्करे ॥ 024c
क्षेत्रज्ञं तं विजानीहि नित्यं लोकहितात्मकम् । 025a
तमो रजश्च सत्त्वं च विद्धि जीवगुणानिमान् ॥ 025c
सचेतनं जीवगुणं वदन्ति स चेष्टते चेष्टयते च सर्वम् । 026a
ततः परं क्षेत्रविदो वदन्ति प्रावर्तयद्यो भुवनानि सप्त ॥ 026c
न जीवनाशोऽस्ति हि देहभेदे मिथ्यैतदाहुर्मृत इत्यबुद्धाः । 027a
जीवस्तु देहान्तरितः प्रयाति दशार्धतैवास्य शरीरभेदः ॥ 027c
एवं सर्वेषु भूतेषु गूढश्चरति संवृतः । 028a
दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया तत्त्वदर्शिभिः ॥ 028c
तं पूर्वापररात्रेषु युञ्जानः सततं बुधः । 029a
लघ्वाहारो विशुद्धात्मा पश्यत्यात्मानमात्मनि ॥ 029c
चित्तस्य हि प्रसादेन हित्वा कर्म शुभाशुभम् । 030a
प्रसन्नात्माऽत्मनि स्थित्वा सुखमव्ययमश्नुते ॥ 030c
मानसोऽग्निः शरीरेषु जीव इत्यभिधीयते । 031a
सृष्टिः प्रजापतेरेषा भूताध्यात्मविनिश्चया ॥ 031c

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि पञ्चाशीत्यधिकशततमोऽध्यायः ॥ 185 ॥

12-185-1 एतद्दूषयति न प्रणाश इति ॥ 12-185-3 अनुपलब्धेरग्नेरपि नाश एवेत्यर्थः ॥ 12-185-5 दग्धेन्धनाग्निवत्सन्नेवात्मा देहनाशे सति सौक्ष्म्यान्नोपलभ्यत इत्यर्थः ॥ 12-185-6 जीवो ह्याकाशवत्स्थित इति झ. ड. पाठः ॥ 12-185-10 अमूर्तयः अदृश्याः । अतस्तेषामप्यभावावधारणं दुःशकं किमुत सूक्ष्मस्य जीवस्येति भावः ॥ 12-185-11 शरीरिषु शरीराकारपरिणामवत्सु सङ्घातेषु ॥ 12-185-12 पञ्चभूतात्मके पञ्चविषयरतौ । पञ्चविज्ञानानि ज्ञानकारणानि ॥ 12-185-15 मास्तु देहेन्द्रियसङ्घातश्चेतनो यस्मिन्व्यग्रे सति सङ्घातः सन्निकृष्टोऽपि शब्दादीन्न गृह्णाति तन्मन एव आत्मास्त्वित्याह चतुर्भिः शृणोतीत्यादिभिः ॥ 12-185-19 पञ्चसाधारणं पञ्चेन्द्रियाधारं किञ्चिन्मनो न श्रूयते किन्तु अन्तरात्मा जीव एव वहते धारयति ॥ 12-185-20 तद्विप्रयोगात् ते न मनसा वियोगे ॥ 12-185-21 देहं त्यक्त्वा स गच्छति इति ट. पाठः ॥ 12-185-24 सर्वलोकविधायकमिति ध. ड. थ. पाठः ॥ 12-185-26 क्षेत्रविदं वदन्तीति ट. पाठः ॥ 12-185-27 दशार्धता पञ्चत्वम् । शरीरनाश एव जीवस्य मरणमित्युच्यते ॥