अध्यायः 184
भरद्वाजेन भृगुम् प्रति सयुक्तिकं सङ्घातान्यजीवपक्षाक्षेपः ॥ 1 ॥
भरद्वाज उवाच 001
यदि प्राणयते वायुर्वायुरेव विचेष्टते । 001a
श्वसित्याभाषते चैव तस्माज्जीवो निरर्थकः ॥ 001c
यदूष्मभाव आग्नेयो वह्निना पच्यते यदि । 002a
अग्निर्जरयते चैतत्तस्माज्जीवो निरर्थकः ॥ 002c
जन्तोः प्रमीयमाणस्य जीवो नैवोपलभ्यते । 003a
वायुरेव जहात्येनमूष्मभावश्च नश्यति ॥ 003c
यदि वायुमयो जीवः संश्लेषो यदि वायुना । 004a
वायुमण्डलवद्दृश्येद्गच्छन्सह मरुद्गणैः ॥ 004c
श्लेष्मं वा यदि वा जीवः सह तेन प्रणश्यति । 005a
महार्णववियुक्तत्वादन्यत्सलिलभाजनम् ॥ 005c
यत्क्षिपेत्सलिलं कूपे प्रदीपं वा हुताशने । 006a
तन्नश्यत्युभयं तद्वज्जीवो वातानलात्मकः ॥ 006c
पञ्च साधारणे ह्यस्मिञ्शरीरे जीवितं कुतः । 007a
तेषामन्यतरत्यागाच्चतुर्णां नास्ति सङ्ग्रहः ॥ 007c
नश्यन्त्यापो ह्यनाधाराद्वायुरुच्छ्वासनिग्रहात् । 008a
नश्यते कोष्ठभेदात्खमग्निर्नश्यत्यभोजनात् ॥ 008c
व्याधिप्राणपरिक्लेशैर्मेदिनी चैव शीर्यते । 009a
पीडितेऽन्यतमे ह्येषां सङ्घातो याति पञ्चताम् ॥ 009c
तस्मिन्पञ्चत्वमापन्ने जीवः किमनुधावति । 010a
किं वेदयति वा जीवः किं शृणोति ब्रवीति च ॥ 010c
एषा गौः परलोकस्थं तारयिष्यति मामिति । 011a
यो दत्त्वा म्रियते जन्तुः सा गौः कं तारयिष्यति ॥ 011c
गौश्च प्रतिग्रहीता च दाता चैव समं यदा । 012a
इहैव विलयं यान्ति कुतस्तेषां समागमः ॥ 012c
विहगैरुपभुक्तस्य शैलाग्नात्पतितस्य च । 013a
अग्निना चोपयुक्तस्य कुतः सञ्जीवनं पुनः ॥ 013c
छिन्नस्य यदि वृक्षस्य न मूलं प्रतिरोहति । 014a
बीजान्यस्य प्ररोहन्ति मृतः क्व पुनरेष्यति ॥ 014c
बीजमात्रं पुरा सृष्टं यदेतत्परिवर्तते । 015a
मृतामृताः प्रणश्यन्ति बीजाद्बीजं प्रवर्तते ॥ 015c
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि चतुरशीत्यधिकशततमोऽध्यायः ॥ 184 ॥
12-184-3 जन्तोर्देहेन्द्रियबुद्धिसङ्घातस्य । प्रमीयमाणस्य नश्यमानस्य । नैवोपलभ्यते पलालपृथक्करणे बीजमिव । तस्माद्वायुवियोग एव मरणम् । जन्तोः प्रकीर्यमाणस्येति थ. पाठः ॥ 12-184-4 वायुमयो वायुप्रधानो वायोरन्यः । वायुमण्डलवद्वात्याचक्रवद्वायुना सह दृश्यः स्यादित्यर्थः । यदि वातोपमो जीव इति ट. पाठः ॥ 12-184-5 संश्लेषो यदि वातेन यदि तस्मात्प्रणश्यतीति झ. पाठः । तत्र यदि वातेन जीवस्य संश्लेषोऽस्ति तस्माच्च जीवादन्यो वातः पञ्चत्वदशायां यदि प्रणश्यति तर्हि यथा महार्णवे क्षिप्तं जलभाजनं सलिलापगमे दृश्यते तद्वद्वायुसंश्लिष्टो जीवो वायोरपगमे दृश्येतेत्यर्थः ॥ 12-184-6 क्षिप्रं प्रविश्य नश्येत यथा नश्यत्यसौ तथेति घ. पाठः ॥ 12-184-7 पञ्चधारणके इति । तेषामन्यतराभावाच्चतुर्णां नास्ति संशयः । इति च. झ. पाठः ॥ 12-184-14 मृतस्य पुनरागमनाभावेऽपि संसारप्रवाहस्याविच्छेदे दृष्टान्तमाह छिन्नस्येति ॥ 12-184-15 दार्ष्टान्तिकमाह बीजमात्रमिति । शरीरमूलं तु बीजमात्रं प्रत्यक्षदृष्टं रेतएव नत्वदृष्टमक्लृप्तत्वात् । प्रवर्तते देहरूपेण परिणमते । तथाच बीजरुहतरुवन्नष्टानां नाश एवेतरेषामुद्भव इति । तस्मान्नित्यं समिध्यते इत्यनुपपन्नम् ॥