अध्यायः 183

भरद्वाजम् प्रति भृगुणा शरीरे प्राणापानादीनां कार्यविशेषरूपणम् ॥ 1 ॥ भरद्वाज उवाच 001
पार्थिवं धातुमाश्रित्य शारीरोऽग्निः कथं भवेत् । 001a
अवकाशविशेषेण कथं वर्तयतेऽनिलः ॥ 001c
भृगुरुवाच 002
वायोर्गतिमहं ब्रह्मन्कीर्तयिष्यामि तेऽनघ । 002a
प्राणिनामनिलो देहान्यथा चेष्टयते बली ॥ 002c
श्रितो मूर्धानमग्निस्तु शरीरं परिपालयन् । 003a
प्राणो मूर्धनि चाग्नौ च वर्तमानो विचेष्टने ॥ 003c
स जन्तुः सर्वभूतात्मा पुरुषः स सनातनः । 004a
मनो बुद्धिरहङ्कारो भूतानि विषयाश्च सः ॥ 004c
एवं त्विह स सर्वत्र प्राणेन परिपाल्यते । 005a
कोष्ठतस्तु समानेन स्वां स्वां गतिमुपाश्रितः ॥ 005c
बस्तिमूलं गुदं चैव पावकं समुपाश्रितः । 006a
वहन्मूत्रं पुरीषं चाप्यपानः परिवर्तते ॥ 006c
प्रयत्ने कर्मणि बले य एकस्त्रिषु वर्तते । 007a
उदान इति तं प्राहुरध्यात्मकुशला जनाः ॥ 007c
सन्धिष्वपि च सर्वेषु सन्निविष्टस्तथाऽनिलः । 008a
शरीरेषु मनुष्याणां व्यान इत्युपदिश्यते ॥ 008c
धातुष्वग्निस्तु विततः समानोऽग्निः समीरितः । 009a
रसान्धातूंश्च दोषांश्च वर्तयन्नवतिष्ठते ॥ 009c
अपानप्राणयोर्मध्ये प्राणापानसमाहितः । 010a
समन्वितस्त्वधिष्ठानं सम्यक्पचति पावकः ॥ 010c
आस्यं हि पायुसंयुक्तमन्ते स्याद्गुदसञ्ज्ञितम् । 011a
स्रोतस्तस्मात्प्रजायन्ते सर्वस्रोतांसि देहिनाम् ॥ 011c
प्राणानां सन्निपाताच्च सन्निपातः प्रजायते । 012a
ऊष्मा सोग्निरिति ज्ञेयो योऽन्नं पचति देहिनाम् ॥ 012c
अग्निवेगवहः प्राणो गुदान्ते प्रतिहन्यते । 013a
स ऊर्ध्वमागम्य पुनः समुत्क्षिपति पावकम् ॥ 013c
पक्वाशयस्त्वधो नाभ्या ऊर्ध्वमामाशयः स्मृतः । 014a
नाभिमध्ये शरीरस्य सर्वे प्राणाः समाश्रिताः ॥ 014c
प्रसृता हृदयात्सर्वास्तिर्यगूर्ध्वमधस्तथा । 015a
वहन्त्यन्नरसान्नाड्यो दशप्राणप्रचोदिताः ॥ 015c
एष मार्गोऽथ योगानां येन गच्छन्ति तत्पदम् । 016a
जितक्लमासना धीरा मूर्धन्यात्मानमादधन् ॥ 016c
एवं सर्वेषु विहितः प्राणापानेषु देहिनाम् । 017a
तस्मिन्योऽवस्थितो नित्यमग्निः स्थाल्यामिवाहितः ॥ 017c

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि त्र्यशीत्यधिकशततमोऽध्यायः ॥ 183 ॥

12-183-5 पृष्ठतस्तु समानेनेति ट. थ. पाठः ॥ 12-183-10 समन्वितः समानेनेति ट. ड. थ. पाठः ॥ 12-183-11 पायुपर्यन्तमिति झ. पाठः ॥ 12-183-15 हृदयात्सर्वे इति झ. ट. पाठः ॥ 12-183-16 एष मार्गोऽथ युक्तानामिति ट. पाठः ॥ 12-183-17 तस्मिन्समिध्यते नित्यमिति घ. झ. पाठः । यो व्यज्यत इति ट. पाठः ॥