अध्यायः 182

भरद्वाजम् प्रति भृगुणा वृक्षादीनामपि भौतिकत्वचैतन्यादिसमर्थनम् ॥ 1 ॥ भरद्वाज उवाच 001
त एते धातवः पञ्च ब्रह्मा यानसृजत्पुरा । 001a
आवृता यैरिमे लोका महाभूताभिसञ्ज्ञिताः ॥ 001c
यदाऽसृजत्सहस्राणि भूतानां स महामतिः । 002a
पञ्चानामेव भूतत्वं कथं समुपपद्यते ॥ 002c
भृगुरुवाच 003
अमितानां महाशब्दो भूतानां याति सम्भवम् । 003a
ततस्तेषां महाभूतशब्दोऽयमुपपद्यते ॥ 003c
चेष्टा वायुः खमाकाशमूष्माऽग्निः सलिलं द्रवः । 004a
पृथिवी चात्र सङ्घातः शरीरं पाञ्चभौतिकम् ॥ 004c
इत्येतैः पञ्चभिर्भूतैर्युक्तं स्थावरजङ्गमम् । 005a
श्रोत्रं घ्राणं रसः स्पर्शो दृष्टिश्चेन्द्रियसञ्ज्ञिताः ॥ 005c
भरद्वाज उवाच 006
पञ्चभिर्यदि भूतैस्तु यक्ताः स्थावरजङ्गमाः । 006a
स्थावराणां न दृश्यन्ते शरीरे पञ्च धातवः ॥ 006c
अनूष्मणामचेष्टानां घनानां चैव तत्त्वतः । 007a
वृक्षाणां नोपलभ्यन्ते शरीरे पञ्च धातवः ॥ 007c
न शृणुन्ति न पश्यन्ति न गन्धरसवेदिनः । 008a
न च स्पर्शं विजानन्ति ते कथं पाञ्चभौतिकाः ॥ 008c
अद्रवत्वादनग्नित्वादभूतित्वादवायुतः । 009a
आकाशस्याप्रमेयत्वाद्वृक्षाणां नास्ति भौतिकम् ॥ 009c
भृगुरुवाच 010
घनानामपि वृक्षाणामाकाशोऽस्ति न संशयः । 010a
तेषां पुष्पफलव्यक्तिर्नित्यं समुपपद्यते ॥ 010c
ऊष्मतो म्लायते वर्णं त्वक्फलं पुष्पमेव च । 011a
म्लायते शीर्यते चापि स्पर्शस्तेनात्र विद्यते ॥ 011c
वाय्वग्न्यशनिनिष्पेषैः फलं पुष्पं विशीर्यते । 012a
श्रोत्रेण गृह्यते शब्दस्तस्माच्छृण्वन्ति पादपाः ॥ 012c
वल्ली वेष्टयते वृक्षं सर्वतश्चैव गच्छति । 013a
न ह्यदृष्टेश्च मार्गोऽस्ति तस्मात्पश्यन्ति पादपाः ॥ 013c
पुण्यापुण्यैस्तथा गन्धैर्धूपैश्च विविधैरपि । 014a
अरोगाः पुष्पिताः सन्ति तस्माज्जिघ्रन्ति पादपाः ॥ 014c
पादैः सलिलपानाच्च व्याधीनां चापि दर्शनात् । 015a
व्याधिप्रतिक्रियत्वाच्च विद्यते रसनं द्रुमे ॥ 015c
वक्त्रेणोत्पलनालेन यथोर्ध्वं जलमाददेत् । 016a
तथा पवनसंयुक्तः पादैः पिबति पादपः ॥ 016c
सुखदुःखयोश्च ग्रहणाच्छिन्नस्य च विरोहणात् । 017a
जीवं पश्यामि वृक्षाणामचैतन्यं न विद्यते ॥ 017c
तेन तज्जलमादत्तं जरयत्यग्निमारुतौ । 018a
आहारपरिणामाच्च स्नेहो वृद्धिश्च जायते ॥ 018c
जङ्गमानां च सर्वेषां शरीरे पञ्च धातवः । 019a
प्रत्येकशः प्रभिद्यन्ते यैः शरीरं विचेष्टते ॥ 019c
त्वक्च मांसं तथाऽस्थीनि मज्जा स्नायुश्च पञ्चमम् । 020a
इत्येतदिह सङ्घातं शरीरे पृथिवीमयम् ॥ 020c
तेजो ह्यग्निस्तथा क्रोधश्चक्षुरूष्मा तथैव च । 021a
अग्निर्जरयते यच्च पञ्चाग्नेयाः शरीरिणः ॥ 021c
श्रोत्रं घ्राणं तथाऽऽस्यं च हृदयं कोष्ठमेव च । 022a
आकाशात्प्राणिनामेते शरीरे पञ्च धातवः ॥ 022c
श्लेष्मा पित्तमथ स्वेदो वसा शोणितमेव च । 023a
इत्यापः पञ्चधा देहे भवन्ति प्राणिनां सदा ॥ 023c
प्राणात्प्राणयते प्राणी व्यानाद्व्यायच्छते तथा । 024a
गच्छत्यपाने वाक्चैव समानने समः स्थितः ॥ 024c
उदानादुच्छ्वसिति च प्रतिभेदाच्च भाषते । 025a
इत्येते वायवः पञ्च चेष्टयन्तीह देहिनम् ॥ 025c
भूमेर्गन्धगुणान्वेत्ति रसं चाद्भ्यः शरीरवान् । 026a
ज्योतेः पश्यति रूपाणि स्पर्शं वेत्ति च वायुतः । 026c
'शब्दं शृणोति च तदैवाकाशात्तु शरीरवान् ॥ 026e
गन्धः स्पर्शो रसो रूपं शब्दश्चात्र गुणाः स्मृताः । 027a
तस्य गन्धस्य वक्ष्यामि विस्तराभिहितान्गुणान् ॥ 027c
इष्टश्चानिष्टगन्धश्च मधुरः कटुरेव च । 028a
निर्हारी संहतः स्निग्धो रूक्षो विशद एव च । 028c
एवं नवविधो ज्ञेयः पार्थिवो गन्धविस्तरः ॥ 028e
ज्योतिः पश्यति चक्षुर्भ्यां स्पर्शं वेत्ति च वायुना । 029a
शब्दः स्पर्शश्च रूपं च रसश्चापि गुणाः स्मृताः ॥ 029c
रसज्ञानं तु वक्ष्यामि तन्मे निगदतः शृणु । 030a
रसो बहुविधः प्रोक्तः सूरिभिः प्रथितात्मभिः ॥ 030c
मधुरो लवणस्तिक्तः कषायोऽम्लः कटुस्तथा । 031a
एवं षड्विधविस्तारो रसो वारिमयः स्मृतः ॥ 031c
शब्दः स्पर्शश्च रूपं च त्रिगुणं ज्योतिरुच्यते । 032a
ज्योतिः पश्यति रूपाणि रूपं च बहुधा स्मृतम् । 032c
ह्रस्वो दीर्घस्तथा स्थूलश्चतुरस्रोऽणुवृत्तवान् ॥ 032e
शुक्लः कृष्णस्तथा रक्तः पीतो नीलारुणस्तथा । 033a
कठिनश्चिक्कणः श्लक्ष्णः पिच्छिलो मृदुदारुणः । 033c
एवं द्वादशविस्तारो ज्योतीरूपगुणः स्मृतः ॥ 033e
शब्दस्पर्शौ च विज्ञेयौ द्विगुणो वायुरित्युत । 034a
वायव्यस्तु गुणः स्पर्शः स्पर्शश्च बहुधा स्मृतः ॥ 034c
उष्णः शीतः सुखो दुःखः स्निग्धो विशद एव च । 035a
तथा खरो मृदू रूक्षो लघुर्गुरुतरोऽपि च । 035c
एवं द्वादशधा स्पर्शो वायव्यो गुण उच्यते ॥ 035e
तत्रैकगुणमाकाशं शब्द इत्येव तत्स्मृतम् । 036a
तस्य शब्दस्य वक्ष्यामि विस्तरं विविधात्मकम् ॥ 036c
षड्ज ऋषभगान्धारौ मध्यमो धैवतस्तथा । 037a
पञ्चमश्चापि विज्ञेयस्तथा चापि निषादवान् ॥ 037c
एष सप्तविधः प्रोक्तः शब्द आकाशसम्भवः । 038a
त्र्यैस्वर्येण तु सर्वत्र स्थितोऽपि पटहादिषु ॥ 038c
[मृदङ्गभेरीशङ्खानां स्तनयित्नो रथस्य च । 039a
यः कश्चिच्छ्रूयते शब्दः प्राणिनो प्राणिनोऽपि वा । 039c
एतेषामेव सर्वेषां विषये सम्प्रकीर्तितः ॥ 039e
एवं बहुविधाकारः शब्द आकाशसम्भवः । 040a
आकाशजं शब्दमाहुरेभिर्वायुगुणैः सह ॥] 040c
अव्याहतैश्चेतयते न वेत्ति विषमस्थितैः । 041a
आप्याय्यन्ते च ते नित्यं धातवस्तैस्तु धातुभिः ॥ 041c
आपोऽग्निर्मारुतश्चैव नित्यं जाग्रति देहिषु । 042a
मूलमेते शरीरस्य व्याप्य प्राणानिह स्थिताः ॥ 042c

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि द्व्यशीत्यधिकशततमोऽध्यायः ॥ 182 ॥

12-182-1 पञ्चधातव आकाशादयः ये महाभूतसञ्ज्ञाः यैश्च लोका आवृता इति योजना ॥ 12-182-2 भूतानां प्राणिनाम् ॥ 12-182-4 खं सुषिरम् । अत्र शरीरे द्रवो लोहितादिसङ्घातः । कठिनं मांसास्थ्यादि ॥ 12-182-5 श्रोत्रं खं घ्राणं पृथिवी रसो रसनेन्द्रियं जलं स्पर्शः स्पर्शनेन्द्रियं त्वग्वायुः दृष्टिश्चक्षुरिन्द्रियं तेजः ॥ 12-182-9 अप्रमेयत्वादप्रतीयमानत्वात् । 12-182-16 नालेन नलिकया ॥ 12-182-18 तेन वृक्षेण । जरयति जरयतः ॥ 12-182-21 शरीरिणोऽन्तर्गतोऽग्निस्तेजः क्रोधचक्षुरूष्मजाठररूप इति पञ्चाग्नेयाः ॥ 12-182-22 श्रोत्रमिन्द्रियम् । घ्राणं नासारन्ध्रे । कोष्ठमन्नादिस्थानम् ॥ 12-182-24 व्यायच्छते बलसाध्यमुद्यमं करोति ॥ 12-182-25 प्रतिभेदादुरःकण्ठशिरःस्थानभेदात् ॥ 12-182-26 भूमेर्भूम्या घ्राणरूपया । अद्भ्य इति रसनेन ॥ 12-182-28 पार्थिवः पृथिव्याश्रितो मुख्यो गुणः ॥ 12-182-29 ज्योतिः पृथिव्यादिरूपम् । वायुना त्वगिन्द्रियेण । गुणा अप्रधानभूताः एवं जलादावप्येकैको मुख्य इतरेऽप्रधाना इति द्रष्टव्यम् ॥