अध्यायः 181

भरद्वाजम् प्रति भृगुणा मेरुस्थब्रह्मणा जलादिभूम्यन्तसृष्टिप्रकारकथनम् ॥ 1 ॥ भरद्वाज उवाच 001
मेरुमध्ये स्थितो ब्रह्मा कथं स ससृजे प्रजाः । 001a
एतन्मे सर्वमाचक्ष्व याथातथ्येन पृच्छतः ॥ 001c
भृगुरुवाच 002
प्रजाविसर्गं पूर्वं स मानसो मनसाऽसृजत् । 002a
संरक्षणार्थं भूतानां सृष्टं प्रथमतो जलम् ॥ 002c
यत्प्राणः सर्वभूतानां वर्धन्ते येन च प्रजाः । 003a
परित्यक्ताश्च नश्यन्ति तेनेदं सर्वमावृतम् ॥ 003c
पृथिवी पर्वता मेघा मूर्तिमन्तश्च ये परे । 004a
सर्वं तद्वारुणं ज्ञेयमापस्तस्तम्भिरे हि ताः ॥ 004c
भरद्वाज उवाच 005
कथं सलिलमुत्पन्नं कथं चैवाग्निमारुतौ । 005a
कथं वा मेदिनी सृष्टेत्यत्र मे संशयो महान् ॥ 005c
भृगुरुवाच 006
ब्रह्मकल्पे पुरा ब्रह्मन्ब्रह्मर्षीणां समागमे । 006a
लोकसम्भवसन्देहः समुत्पन्नो महात्मनाम् ॥ 006c
तेऽतिष्ठन्ध्यानमालम्ब्य मौनमास्थाय निश्चलाः । 007a
त्यक्ताहाराः पवनपा दिव्यं वर्षशतं द्विजाः ॥ 007c
तेषां ब्रह्ममयी वाणी सर्वेषां श्रोत्रमागमत् । 008a
दिव्या सरस्वती तत्र सम्बभूव नभस्तलात् ॥ 008c
पुराऽस्तमितनिःशब्दमाकाशमचलोपमम् । 009a
नष्टचन्द्रार्कपवनं प्रसुप्तमिव सम्बभौ ॥ 009c
ततः सलिलमुत्पन्नं तमसीवापरं तमः । 010a
तस्माच्च सलिलोत्पीडात्समजायत मारुतः ॥ 010c
यथा भाजनमच्छिद्रं निःशब्दमिह लक्ष्यते । 011a
तच्चाम्भसा पूर्यमाणं सशब्दं कुरुतेऽनिलः ॥ 011c
तथा सलिलसंरुद्धे नभसोन्ते निरन्तरे । 012a
भित्त्वाऽर्णवतलं वायुः समुत्पतति घोषवान् ॥ 012c
स एष चरते वायुरर्णवोत्पीडसम्भवः । 013a
आकाशस्थानमासाद्य प्रशान्तिं नाधिगच्छति ॥ 013c
तस्मिन्वाय्वम्बुसङ्घर्षे दीप्ततेजा महाबलः । 014a
प्रादुर्बभूवोर्ध्वशिखः कृत्वा निस्तिमिरं नभः ॥ 014c
अग्निः पवनसंयुक्तः खात्समुत्क्षिपते जलम् । 015a
सोऽग्निमारुतसंयोगाद्घनत्वमुपपद्यते ॥ 015c
तस्याकाशान्निपतितः स्नेहस्तिष्ठति योऽपरः । 016a
स सङ्घातत्वमापन्नो भूमित्वमनुगच्छति ॥ 016c
रसानां सर्वगन्धानां स्नेहानां प्राणिनां तथा । 017a
भूमिर्योनिरिह ज्ञेया यस्यां सर्वं प्रसूयते ॥ 017c

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि एकाशीत्यधिकशततमोऽध्यायः ॥ 181 ॥

12-181-3 यत् जलम् । तेन जलेन ॥ 12-181-4 वारुणं वरुणदेवतासम्बन्धादाप्यमित्यर्थः । मूर्तिमत् मनुष्यपश्वादिविग्रहवत् । आप्यत्वे हेतुः । आपस्तस्तम्भिरे यत आपस्तम्भं घनीभावं पृथिव्यादिरूपं प्राप्ताः ॥ 12-181-6 ब्रह्मकल्पे ब्रह्मप्रथमदिने । लोकानां सम्भव उत्पत्तिस्तत्र विषये सन्देहः ॥ 12-181-8 तेषां धर्ममयीति ट. ड. पाठः ॥ 12-181-9 सरस्वतीमेवाह पुरेति । स्तिमितमाकाशमनन्तमिति झ. पाठः ॥