अध्यायः 180

युधिष्ठिरेण जगत्सृष्टिप्रकारम् पृष्टेन भीष्मेण भरद्वाजाय भृगूदितसृष्टिप्रकारकथनारम्भः ॥ 1 ॥ भृगुणा भरद्वाजम् प्रति महत्तत्त्वादिपद्मपर्यन्तसृष्टिप्रकारकथनम् ॥ 2 ॥ तथा पद्मकर्णिकाभूतमेरुस्थेन ब्रह्मणा लोकसृष्टिकथनम् ॥ 3 ॥ युधिष्ठिर उवाच 001
कुतः सृष्टमिदं सर्वं जगत्स्थावरजङ्गमम् । 001a
प्रलये च किमभ्येति तन्मे ब्रूहि पितामह ॥ 001c
ससागरः सगगनः सशैलः सबलाहकः । 002a
सभूमिः साग्निपवनो लोकोऽयं केन निर्मितः ॥ 002c
कथं सृष्टानि भूतानि कथं वर्णविभक्तयः । 003a
शोचाशौचं कथं तेषां धर्माधर्मावथो कथम् ॥ 003c
कीदृशो जीवतां जीवः क्व वा गच्छन्ति ये मृताः । 004a
अस्माल्लोकादमुं लोकं सर्वं शंसतु नो भवान् ॥ 004c
भीष्म उवाच 005
अत्राप्युदाहरन्तीममितिहासं पुरातनम् । 005a
भृगुणाऽभिहितं श्रेष्ठं भरद्वाजाय पृच्छते ॥ 005c
कैलासशिखरे दृष्ट्वा दीप्यमानमिवौजसा । 006a
भृगुं महर्षिमासीनं भरद्वाजोऽन्वपृच्छत ॥ 006c
ससागरः सगगनः सशैलः सबलाहकः । 007a
सभूमिः साग्निपवनो लोकोऽयं केन निर्मितः ॥ 007c
कथं सृष्टानि भूतानि कथं वर्णविभक्तयः । 008a
शौचाशौचं कथं तेषां धर्माधर्मावथो कथम् ।| 008c
कीदृशो जीवतां जीवः क्व वा गच्छन्ति ये मृताः । 009a
परलोकमिमं चापि सर्वं शंसितुमर्हसि ॥ 009c
एवं स भगवान्पृष्टो भरद्वाजेन संशयम् । 010a
ब्रह्मर्षिर्ब्रह्मसङ्काशः सर्वं तस्मै ततोऽब्रवीत् ॥ 010c
भृगुरुवाच 011
'नारायणो जगन्मूर्तिरन्तरात्मा सनातनः । 011a
कूटस्थोऽक्षर अव्यक्तो निर्लेपो व्यापकः प्रभुः ॥ 011c
प्रकृतेः परतो नित्यमिन्द्रियैरप्यगोचरः । 012a
स सिसृक्षुः सहस्रांशादसृजत्पुरुषं प्रभुः ॥' 012c
मानसो नाम यः पूर्वो विश्रुतो वै महर्षिभिः । 013a
अनादिनिधनो देवस्तथाऽभेद्योऽजरामरः ॥ 013c
अव्यक्त इति विख्यातः शाश्वतोऽथाक्षयोऽव्ययः । 014a
यतः सृष्टानि भूतानि तिष्ठन्ति च म्रियन्ति च ॥ 014c
सोऽसृजत्प्रथमं देवो महान्तं नाम नामतः । 015a
महान्ससर्जाहङ्कारं स चापि भगवानथ । 015c
आकाशमिति विख्यातं सर्वभूतधरः प्रभुः ॥ 015e
आकाशादभवद्वारि सलिलादग्निमारुतौ । 016a
अग्निमारुतसंयोगात्ततः समभवन्मही ॥ 016c
ततस्तेजोमयं दिव्यं पद्मं सृष्टं स्वयम्भुवा । 017a
तस्मात्पद्मात्समभवद्ब्रह्मा वेदमयो निधिः ॥ 017c
अहङ्कार इति ख्यातः सर्वभूतात्मभूतकृत् । 018a
ब्रह्मा वै स महातेजा य एते पञ्चधातवः ॥ 018c
शैलास्तस्यास्थिसञ्ज्ञास्तु मेदो मांसं च मेदिनी । 019a
समुद्रास्तस्य रुधिरमाकाशमुदरं तथा ॥ 019c
पवनश्चैव निःश्वासस्तेजोऽग्निर्निम्नगाः सिराः । 020a
दिवाकरश्च सोमश्च नयने तस्य विश्रुते ॥ 020c
नभश्चोर्ध्वं शिरस्तस्य क्षितिः पादौ भुजौ दिशः । 021a
दुर्विज्ञेयो ह्यनन्तात्मा सिद्धैरपि न संशयः ॥ 021c
स एष भगवान्विष्णुरनन्त इति विश्रुतः । 022a
सर्वभूतात्मभूतस्थो दुर्विज्ञेयोऽकृतात्मभिः ॥ 022c
अहङ्कारस्य यः स्रष्टा सर्वभूतोद्भवाय वै । 023a
यतः समभवद्विश्वं पृष्टोऽहं यदिह त्वया ॥ 023c
भरद्वाज उवाच 024
गगनस्य दिशां चैव भूतलस्यानिलस्य च । 024a
कान्यत्र परिमाणानि संशयं छिन्धि मेऽर्थितः ॥ 024c
भृगुरुवाच 025
अनन्तमेतदाकाशं सिद्धचारणसेवितम् । 025a
रम्यं नानाश्रयाकीर्णं यस्यान्तो नाधिगम्यते ॥ 025c
ऊर्ध्वं गतेरधस्तात्तु चन्द्रादित्यौ न दृश्यतः । 026a
तत्र देवाः स्वयं दीप्ताः सूर्यभासोऽग्निवर्चसः ॥ 026c
ते चाप्यन्तं न पश्यन्ति नभसः प्रथितौजसः । 027a
दुर्गमत्वादनन्तत्वादिति वै विद्धि मानद ॥ 027c
उपर्युपरि तैर्देवैः प्रज्वलद्भिः स्वयम्प्रभैः । 028a
निरुद्धमेतदाकाशमप्रमेयं सुरैरपि ॥ 028c
पृथिव्यन्ते समुद्रास्तु समुद्रान्ते तमः स्मृतम् । 029a
तपसोऽन्ते जलं प्राहुर्जलस्यान्तेऽग्निरेव च ॥ 029c
रसातलान्ते सलिलं जलान्ते पन्नगाधिपाः । 030a
तदन्ते पुनराकाशमाकाशान्ते पुनर्जलम् ॥ 030c
एवमन्तं हि नभसः प्रमाणं सलिलस्य च । 031a
अग्निमारुतयोश्चैव दुर्ज्ञेयं दैवतैरपि ॥ 031c
अग्निमारुततोयानां वर्णाः क्षितितलस्य च । 032a
आकाशसदृशा ह्येते भिद्यन्तेऽतत्वदर्शनात् ॥ 032c
पठन्ति चैव मुनयः शास्त्रेषु विविधेषु च । 033a
त्रैलोक्यसागरे चैव प्रमाणं विहितं यथा ॥ 033c
अदृश्यत्वादगम्यत्वात्कः प्रमाणमुदाहरेत् । 034a
सिद्धानां देवतानां च यदा परिमिता गतिः । 034c
तदा गौणमनन्तस्य नामानन्तेति विश्रुतम् ॥ 034e
नामधेयानुरूपस्य मानसस्य महात्मनः । 035a
यदा तु र्दिव्यं यद्रूपं ह्रसते वर्धते पुनः । 035c
कोऽन्यस्तद्वेदितुं शक्तो योपि स्यात्तद्विधोऽपरः ॥ 035e
ततः पुष्करतः सृष्टः सर्वज्ञो मूर्तिमान्प्रभुः । 036a
ब्रह्मा धर्ममयः पूर्वः प्रजापतिरनुत्तमः ॥ 036c
भरद्वाज उवाच 037
पुष्कराद्यदि सम्भूतो ज्येष्ठं भवति पुष्करम् । 037a
ब्रह्माणं पूर्वजं चाह भवान्सन्देह एव मे ॥ 037c
भृगुरुवाच 038
मानसस्येह या मूर्तिर्ब्रह्मत्वं समुपागता । 038a
तस्यासनविधानार्थं पृथिवी पद्ममुच्यते ॥ 038c
कर्णिकां तस्य पद्मस्य मेरुर्गगनमुच्छ्रितः । 039a
तस्य मध्ये स्थितो लोकान्सृजते जगतः प्रभुः । 039c
मानसांश्च तथा देवान्भूतानि विविधानि च ॥ 039e

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि अशीत्यधिकशततमोऽध्यायः ॥ 180 ॥

12-180-3 कथमिति सृष्टिप्रकारप्रश्नः । विभक्तयो विभागाः ॥ 12-180-4 जीवतां प्राणिनाम् ॥ 12-180-20 अग्नीषोमौ तु चन्द्रार्कौ नयने इति झ. पाठः । तत्र अग्नीषोमावेव चन्द्रार्कावित्यन्वयः ॥ 12-180-23 भूतोद्भवाय भूतोत्पत्तये । स्रष्टाहङ्कारस्येति सम्बन्धः । यतो विश्वं समभवद्यच्च त्वयाहं पृष्टस्तत्तुभ्यमुक्तमिति शेषः ॥ 12-180-24 छिन्धि तत्वत इति झ. पाठः ॥ 12-180-25 आश्रयाश्चतुर्दशभुवनानि ॥ 12-180-26 गतेः सूर्यरश्मिगतेरपि ऊर्ध्वमधस्ताच्च चन्द्रादित्यौ न दृश्येते ॥ 12-180-27 तेऽपि सूर्यादिगतेरूर्ध्वाधस्था अपि ॥ 12-180-32 वर्णाः स्वरूपाणि आकाशसदृशाः आकाशवदनन्ताः । अतत्वदर्शनात् पृथिव्यादीनां तत्वानवगमात् । भिद्यन्ते परिच्छिन्नवदाभान्ति ॥ 12-180-33 कथन्तर्हि पञ्चाशत्कोटियोजनविस्तारायामादिरूपं परिमाणं पठन्तीत्यत आह पठन्तीति ॥ 12-180-34 अदृश्याय त्वगम्याय इति झ. पाठः ॥ 12-180-36 ब्रह्मा चतुर्मुखः ॥