अध्यायः 179

भीष्मेण युधिष्ठिरम् प्रति तपोदानादिसत्कर्मणामपि परम्परया सुखसाधनताकथनम् ॥ 1 ॥ युधिष्ठिर उवाच 001
यद्यस्ति दत्तमिष्टं वा तपस्तप्तं तथैव च । 001a
गुरूणां वाऽपि शुश्रूषा तन्मे ब्रूहि पितामह ॥ 001c
भीष्म उवाच 002
'यथाऽस्मिंश्च तथा तत्र जानीयां नृपसत्तम । 002a
दुष्कर्तारो यथा लोके यत्कुर्वन्ति तथा शृणु ॥' 002c
आत्मनाऽनर्थयुक्तेन पापे निविशते मनः । 003a
स्वकर्म कलुषं कृत्वा दुःखे महति धीयते ॥ 003c
दुर्भिक्षादेव दुर्भिक्षं क्लेशात्क्लेशं भयाद्भयम् । 004a
मृतेभ्यः प्रमृता यान्ति दरिद्राः पापकारिणः ॥ 004c
उत्सवादुत्सवं यान्ति स्वर्गात्स्वर्गं सुखात्सुखम् । 005a
श्रद्दधानाश्च दान्ताश्च सत्वस्थाः शुभकारिणः ॥ 005c
व्यालकुञ्जरदुर्गेषु सर्पचोरभयेषु च । 006a
हस्तावापेन गच्छन्ति नास्तिकाः किमतःपरम् ॥ 006c
प्रियदेवातिथेयाश्च वदान्याः प्रियसाधवः । 007a
क्षेम्यमात्मवतां मार्गमास्थिता हस्तदक्षिणम् ॥ 007c
पुलाका इव धान्येषु पुत्तिका इव पक्षिषु । 008a
तद्विधास्ते मनुष्येषु येषां धर्मो न कारणम् ॥ 008c
सुशीघ्रमपि धावन्तं विधानमनुधावति । 009a
शेते सह शयानेन येनयेन यथाकृतम् ॥ 009c
उपतिष्ठति तिष्ठन्तं गच्छन्तमनुगच्छति । 010a
करोति कुर्वतः कर्म छायेवाऽनुविधीयते ॥ 010c
येनयेन यथा यद्यत्पुरा कर्म समार्जितम् । 011a
तत्तदेव नरो भुङ्क्ते नित्यं विहितमात्मना ॥ 011c
स्वकर्मफलनिक्षेपं विधानपरिरक्षितम् । 012a
भूतग्राममिमं कालः समन्तात्परिकर्षति ॥ 012c
अचोद्यमानानि यथा पुष्पाणि च फलानि च । 013a
स्वं कालं नातिवर्तन्ते तथा कर्म पुराकृतम् ॥ 013c
सम्मानश्चावमानश्च लाभालाभौ क्षयोदयौ । 014a
प्रवृत्तानि विवर्तन्ते विधानान्ते पुनःपुनः ॥ 014c
आत्मना विहितं दुःखमात्मना विहितं सुखम् । 015a
गर्भशय्यामुपादाय भुज्यते पौर्वदेहिकम् ॥ 015c
बालो युवा च वृद्धश्च यत्करोति शुभाशुभम् । 016a
तस्यान्तस्यामवस्थायां भुङ्क्ते जन्मनिजन्मनि ॥ 016c
यथा धेनुसहस्रेषु वत्सो विन्दति मातरम् । 017a
तथा पूर्वकृतं कर्म कर्तारमनुगच्छति ॥ 017c
सङ्क्लिन्नमग्रतो वस्त्रं पश्चाच्छुध्यति वारिणा । 018a
'दुष्कर्मापि तथा पश्चात्पूयते पुण्यकर्मणा ॥ 018c
तपसा तप्यते देहस्तपसा विन्दते महत् | 019a
उपवासैः प्रतप्तानां दीर्घं सुखमनन्तरम् ॥ 019c
दीर्घकालेन तपसा सेवितेन तपोवने । 020a
धर्मनिर्धूतपापानां संसिद्ध्यन्ते मनोरथाः ॥ 020c
शकुनीनामिवाकाशे मत्स्यानामिव चोदके । 021a
पदं यथा न दृश्येत तथा धर्मविदां गतिः ॥ 021c
अलमन्यैरुपालम्भैः कीर्तितैश्च व्यतिक्रमैः । 022a
पेशलं चानुरूपं च कर्तव्यं हितमात्मनः ॥ 022c

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि एकोनाशीत्यधिकशततमोऽध्यायः ॥ 179 ॥

12-179-1 यद्यस्ति सफलमित्यध्याहारः । दत्तेष्टे गृहस्थस्य धर्मः । तपो वानप्रस्थस्य । गुरुशुश्रूषा ब्रह्मचारिणः ॥ 12-179-3 नास्तिक्यमनर्थः तेन युक्तेनात्मना कुशास्त्रजिताध्यावसयेन । कलुषं पापम् ॥ 12-179-4 मृतेभ्यः प्रमृतं यान्तीति झ. पाठः । तत्र मृतेभ्यो मरणेभ्यः । प्रमृतं मरणान्तरम् । अविलम्बेन पुनःपुनर्म्रियन्त इत्यर्थः ॥ 12-179-5 धनाढ्याः शुभकारिण इति झ. पाठः ॥ 12-179-6 हस्ताववाप्येते प्रवेश्येते यस्मिन्निति हस्तावापो हस्तनिगडस्तेन निगडिताः सन्तो नास्तिका राष्ट्राद्दूरीकृता व्यालादिमत्सु वनेषु गच्छन्तीत्यर्थः ॥ 12-179-7 आतिथेयमतिथिहितं मृष्टान्नदानादि । आत्मवतां जितचित्तानाम् । हस्तदक्षिणं हस्तोपलक्षितेन तत्कर्तव्येन दानादिना कर्मणा दक्षिणमनुकूलम् ॥ 12-179-8 पुलाका गर्तोष्मणा भक्तसिक्थवन्नष्ठवीजभावाः । पुत्तिका मशकाः । कारणं सुखादिहेतुः ॥ 12-179-9 विधानं प्राक्कर्म धावन्तं यतमानमनुधावति फलप्रदानेनानुसरति । येन येन यथा कृतं तं तं प्रति तथा प्राक्कर्म फलदमफलदं च भवति ॥ 12-179-10 कर्म प्राचीनं छायेवानुविधीयते पुरुषेण स्वस्यानुकूलं क्रियते ॥ 12-179-11 नित्यमपरिहार्यम् ॥ 12-179-12 स्वकर्मणः फलं स्वर्गपश्वादि तदेव निक्षेपरूपं विधानेन कर्मजन्यादृष्टेन रक्षितं भूतग्रामं प्रति कालः समनुकर्षति ॥ 12-179-18 सङ्क्लिन्नं मलेनेति शेषः ॥ 12-179-22 उपालम्भैराक्षेपवाक्यैः । व्यतिक्रमैरपराधैः । अलमुक्तैः पर्याप्तम् । पेशलं कौशलयुक्तं यथास्यात्तथा ॥