अध्यायः 178

भीष्मेण युधिष्ठिरम् प्रति इतरनिषेधपूर्वकम् प्रज्ञायाः सुखसाधनतायाम् प्रमाणतया सृगालकाश्यपसंवादानुवादः ॥ 1 ॥ युधिष्ठिर उवाच 001
बान्धवाः कर्म वित्तं वा प्रज्ञा वेह पितामह । 001a
नरस्य का प्रतिष्ठा स्यादेतत्पृष्टो वदस्व मे ॥ 001c
भीष्म उवाच 002
प्रज्ञा प्रतिष्ठा भूतानां प्रज्ञा लाभः परो मतः । 002a
प्रज्ञा निःश्रेयसी लोके प्रज्ञा स्वर्गो मतः सताम् ॥ 002c
प्रज्ञया प्रापितार्थो हि बलिरैश्वर्यसङ्क्षये । 003a
प्रह्लादो नमुचिर्मङ्किस्तस्याः किं विद्यते परम् ॥ 003c
अत्राप्युदाहरन्तीममितिहासं पुरातनम् । 004a
इन्द्रकाश्यपसंवादं तन्निबोध युधिष्ठिर ॥ 004c
वैश्यः कश्चिदृषिसुतं काश्यपं संशितव्रतम् । 005a
रथेन पातयामास श्रीमान्दृप्तस्तपस्विनम् ॥ 005c
आर्तः स पतितः क्रुद्धस्त्यक्त्वाऽऽत्मानमथाब्रवीत् । 006a
मरिष्याम्यधनस्येह जीवितार्थो न विद्यते ॥ 006c
तथा मुमूर्षुमासीनमकूजन्तमचेतसम् । 007a
इन्द्रः सृगालरूपेण बभाषे क्षुब्धमानसम् ॥ 007c
मनुष्ययोनिमिच्छन्ति सर्वभूतानि सर्वशः । 008a
मनुष्यत्वे च विप्रत्वं सर्व एवाभिनन्दति ॥ 008c
मनुष्यो ब्राह्मणश्चासि श्रोत्रियश्चासि काश्यप । 009a
सुदुर्लभमवाप्यैतन्न दोषान्मर्तुमर्हसि ॥ 009c
सर्वे लाभाः साभिमाना इति सत्यवती श्रुतिः । 010a
सन्तोषणीयरूपोऽसि लोभाद्यदभिमन्यसे ॥ 010c
अहो सिद्धार्थता तेषां येषां सन्तीह पाणयः । 011a
[अतीव स्पृहये तेषां येषां सन्तीह पाणयः ॥] 011c
पाणिमद्भ्यः स्पृहाऽस्माकं यथा तव धनस्य वै । 012a
न पाणिलाभादधिको लाभः कश्चन विद्यते ॥ 012c
अपाणित्वाद्वयं ब्रह्मन्कण्टकं नोद्धरामहे । 013a
जन्तूनुच्चावचानङ्गे दशतो न कषाम वा ॥ 013c
अथ येषां पुनः पाणी देवदत्तौ दशाङ्गुली । 014a
उद्धरन्ति कृमीनङ्गाद्दशतो निकषन्ति च ॥ 014c
वर्षाहिमातपानां च परित्राणानि कुर्वते । 015a
चेलमन्नं सुखं शय्यां निवातं चोपभुञ्जते ॥ 015c
अधिष्ठाय च गां लोके भुञ्जते वाहयन्ति च । 016a
उपायैर्बहुभिश्चैव वश्यानात्मनि कुर्वते ॥ 016c
ये खल्वजिह्वाः कृपणा अल्पप्राणा अपाणयः । 017a
सहन्ते तानि दुःखानि दिष्ट्या त्वं न तथा मुने ॥ 017c
दिष्ट्या त्वं न शृगालो वै न कृमिर्न च मूषकः । 018a
न सर्पो न च मण्डूको न चान्यः पापयोनिजः ॥ 018c
एतावताऽपि लाभेन तोष्टुमर्हसि काश्यप । 019a
किं पुनर्योसि सत्वानां सर्वेषां ब्राह्मणोत्तमः ॥ 019c
इमे मां कृमयोऽदन्ति येषामुद्धरणाय वै । 020a
नास्ति शक्तिरपाणित्वात्पश्यावस्थामिमां मम ॥ 020c
अकार्यमिति चैवेमं नात्मानं सन्त्यजाम्यहम् । 021a
नातः पापीयसीं योनिं पतेयमपरामिति ॥ 021c
मध्ये वै पापयोनीनां सृगालीयामहं गतः । 022a
पापीयस्यो बहुतरा इतोऽन्याः पापयोनयः ॥ 022c
जात्यैवैके सुखितराः सन्त्यन्ये भृशदुःखिताः । 023a
नैकान्तं सुखमेवेह क्वचित्पश्यामि कस्यचित् ॥ 023c
मनुष्या ह्याढ्यतां प्राप्य राज्यमिच्छन्त्यनन्तरम् । 024a
राज्याद्देवत्वमिच्छन्ति देवत्वादिन्द्रतामपि ॥ 024c
भवेस्त्वं यद्यपि त्वाढ्यो न राजा न च दैवतम् । 025a
देवत्वं प्राप्य चेन्द्रत्वं नैव तुष्येस्तथा सति ॥ 025c
न तृप्तिः प्रियलाभेऽस्ति तृष्णा नाद्भिः प्रशाम्यति । 026a
सम्प्रज्वलति सा भूयः समिद्भिरिव पावकः ॥ 026c
अस्त्येव त्वयि शोकोऽपि हर्षश्चापि तथा त्वयि । 027a
सुखदुःखे तथा चोभे तत्र का परिदेवना ॥ 027c
परिच्छिद्यैव कामानां सर्वेषां चैव कर्मणाम् । 028a
मूलं बुद्धीन्द्रियग्रामं शकुन्तानिव पञ्जरे ॥ 028c
न द्वितीयस्य शिरसश्छेदनं विद्यते क्वचित् । 029a
न च पाणेस्तृतीयस्य यन्नास्ति न ततो भयम् ॥ 029c
न खल्वप्यरसज्ञस्य कामः क्वचन जायते । 030a
संस्पर्शाद्दर्शनाद्वापि श्रवणाद्वापि जायते ॥ 030c
न त्वं स्मरसि वारुण्या लट्वाकानां च पक्षिणाम् । 031a
ताभ्यां चाभ्यधिको भक्ष्यो न कश्चिद्विद्यते क्वचित् ॥ 031c
यानि चान्यानि भूतेषु भक्ष्यभोज्यानि काश्यप । 032a
येषामभुक्तपूर्वाणि तेषामस्मृतिरेव ते ॥ 032c
अप्राशनमसंस्पर्शमसन्दर्शनमेव च । 033a
पुरुषस्यैष नियमो मन्ये श्रेयो न संशयः ॥ 033c
पाणिमन्तो बलवन्तो धनवन्तो न संशयः । 034a
मनुष्या मानुषैरेव दासत्वमुपपादिताः ॥ 034c
वधबन्धपरिक्लेशैः क्लिश्यन्ते च पुनः पुनः । 035a
ते खल्वपि रमन्ते च मोदन्ते च हसन्ति च ॥ 035c
अपरे बाहुबलिनः कृतविद्या मनस्विनः । 036a
जुगुप्सितां च कृपणां पापवृत्तिमुपासते ॥ 036c
उत्सहन्ते च ते वृत्तिमन्यामप्युपसेवितुम् । 037a
स्वकर्मणा तु नियतं भवितव्यं तु तत्तथा ॥ 037c
न पुल्कसो न चण्डाल आत्मानं त्यक्तुमिच्छति । 038a
तया तुष्टः स्वया योन्या मायां पश्यस्व यादृशीम् ॥ 038c
दृष्ट्वा कुणीन्पक्षहतान्मनुष्यानामयाविनः । 039a
सुसम्पूर्णः स्वया योन्या लब्धलाभोसि काश्यप ॥ 039c
यदि ब्राह्मणदेहस्ते निरातङ्को निरामयः । 040a
अङ्गानि च समग्राणि न च लोकेषु धिक्कृतः ॥ 040c
न केनचित्प्रवादेन सत्येनैवापहारिणा । 041a
धर्मायोत्तिष्ठ विप्रर्षे नात्मानं त्यक्तुमर्हसि ॥ 041c
यदि ब्रह्मञ्शृणोष्येतच्छ्रद्दधासि च मे वचः । 042a
वेदोक्तस्यैव धर्मस्य फलं मुख्यमवाप्स्यसि ॥ 042c
स्वाध्यायमग्निसंस्कारमप्रमत्तोऽनुपालय । 043a
सत्यं दमं च दानं च स्पर्धिष्ठा मा च केनचित् ॥ 043c
ये केचन स्वध्ययनाः प्राप्ता यजनयाजनम् । 044a
कथं ते चानुशोचेयुर्ध्यायेयुर्वाऽप्यशोभनम् ॥ 044c
इच्छन्तस्ते विहाराय सुखं महदवाप्नुयुः । 045a
येऽनुजाताः सुनक्षत्रे सुतिथौ सुमुहूर्तके । 045c
यज्ञदानप्रजेहायां यतन्ते शक्तिपूर्वकम् ॥ 045e
नक्षत्रेष्वासुरेष्वन्ये दुस्तिथौ दुर्मुहूर्तजाः । 046a
सम्पतन्त्यासुरीं योनिं यज्ञप्रसववर्जिताः ॥ 046c
अहमासं पण्डितको हैतुको वेदनिन्दकः । 047a
आन्वीक्षिकीं तर्कविद्यामनुरक्तो निरर्थिकाम् ॥ 047c
हेतुवादान्प्रवदिता वक्ता संसत्सु हेतुमत् । 048a
आक्रोष्टा चातिवक्ता च ब्रह्मवाक्येषु च द्विजान् ॥ 048c
नास्तिकः सर्वशङ्की च मूर्खः पण्डितमानिकः । 049a
तस्येयं फलनिर्वृत्तिः सृगालत्वं मम द्विज ॥ 049c
अपि जातु तथा तत्स्यादहोरात्रशतैरपि । 050a
यदहं मानुषीं योनिं सृगालः प्राप्नुयां पुनः ॥ 050c
सन्तुष्टश्चाप्रमत्तश्च यज्ञदानतपोरतः । 051a
ज्ञेयं ज्ञाता भवेयं वै वर्ज्यं वर्जयिता तथा ॥ 051c
भीष्म उवाच 052
ततः स मुनिरुत्थाय काश्यपस्तमुवाच ह । 052a
अहो बतासि कुशलो बुद्धिमांश्चेति विस्मितः ॥ 052c
समवैक्षत तं विप्रो ज्ञानदीर्घेण चक्षुषा । 053a
ददर्श चैनं देवानां देवमिन्द्रं शचीपतिम् ॥ 053c
ततः सम्पूजयामास काश्यपो हरिवाहनम् । 054a
अनुज्ञातस्तु तेनाथ प्रविवेश स्वमालयम् ॥ 054c

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि अष्टसप्तत्यधिकशततमोऽध्यायः ॥ 178 ॥

12-178-5 रथेन रथघातेन । वैश्यः कश्चिदृषिं दान्तम् इति ट. पाठः ॥ 12-178-6 आत्मानं धैर्यं त्यक्त्वा ॥ 12-178-7 अकूजन्तं मूर्च्छया निःशब्दम् ॥ 12-178-9 श्रोत्रियोऽधीतदेवः । दोषात् मौढ्यात् ॥ 12-178-10 यत्सन्तोषणीयं रूपं त्वं स्वस्याऽभिमन्यसेऽवमन्यसे ॥ 12-178-13 न कषाम न नाशयाम् । 12-178-14 निकषन्ति कण्डूयनेन ॥ 12-178-16 अधिष्ठायाध्यास्य । गां पृथिवीम् । बलीवर्दादि वा । आत्मनि आत्मभोगनिमित्तम् ॥ 12-178-17 अल्पप्राणा अल्पबलाः ॥ 12-178-20 अदन्ति दशन्ति ॥ 12-178-23 एके देवाद्याः । अन्ये पश्वाद्याः ॥ 12-178-25 यदि कदाचिद्भवेस्तथापि न तुष्येरिति योज्यम् ॥ 12-178-28 कामादीनां मूलं बुद्धीन्द्रियग्रामं शकुन्तानिव शरीरपञ्जरे परिच्छिद्य निरुध्य स्थितस्य भयं नास्तीत्युत्तरेण सम्बन्धः ॥ 12-178-31 वारुण्या मद्यस्य लट्वाख्यपक्षिमासस्य च । कर्मणि षष्ठ्यौ । त्वं न स्मरसि ब्राह्मणत्वेन तव तद्रसग्रहाभावात् ॥ 12-178-32 येषां यान्यभुक्तपूर्वाणि ॥ 12-178-38 असन्तुष्टः स्वया वृत्त्या मायां प्रेक्षस्व यादृशीम् । इति ट. ड. थ. पाठः ॥ 12-178-39 पक्षहतानर्धाङ्गवातादिना नष्टान् । आमयाविनोरोगाक्रान्तान् ॥ 12-178-41 प्रवादेन कलङ्केन । अपहारिणा जातिभ्रंशकरेण ॥ 12-178-45 विहाराय यथोचितेन यज्ञादिना विहर्तुम् ॥ 12-178-48 पण्डितकः कुत्सितः पण्डितः हेतुमदेव वक्ता न श्रुतिमत् । आक्रोष्टा परुषवाक् ॥ 12-178-49 सर्वशङ्की स्वर्गादृष्टादिसद्भावेऽपि शङ्कावान् ॥ 12-178-54 हरिवाहनमिन्द्रम् ॥