अध्यायः 177
भीष्मेण युधिष्ठिरम् प्रति प्रपञ्चस्यानित्यत्वादिज्ञानपूर्वकविरक्तेः सुखहेतुतायाम् प्रमाणतया प्रह्लादाजगरमुनिसंवादानुवादः ॥ 1 ॥
युधिष्ठिर उवाच 001
केन वृत्तेन वृत्तज्ञ वीतशोकश्चरेन्महीम् । 001a
किञ्च कुर्वन्नरो लोके प्राप्नोति गतिमुत्तमाम् ॥ 001c
भीष्म उवाच 002
अत्राप्युदाहरन्तीममितिहासं पुरातनम् । 002a
प्रह्लादस्य च संवादं मुनेराजगरस्य च ॥ 002c
चरन्तं ब्राह्मणं कञ्चित्कल्यचित्तमनामयम् । 003a
पप्रच्छ राजा प्रह्लादो बुद्धिमान्प्राज्ञसत्तमः ॥ 003c
प्रह्लाद उवाच 004
स्वस्थः शक्तो मृदुर्दान्तो निर्विधित्सोऽनसूयकः । 004a
सुवाग्बहुमतो लोके प्राज्ञश्चरसि बालवत् ॥ 004c
नैव प्रार्थयसे लाभं नालाभेष्वनुशोचसि । 005a
नित्यतृप्त इव ब्रह्मन्न किञ्चिदिव मन्यसे ॥ 005c
स्रोतसा ह्रियमाणासु प्रजासु विमना इव । 006a
धर्मकामार्थकार्येषु कूटस्थ इव लक्ष्यसे ॥ 006c
नानुतिष्ठसि धर्मार्थौ न कामे चापि वर्तसे । 007a
इन्द्रियार्थाननादृत्य मुक्तश्चरसि साक्षिवत् ॥ 007c
का नु प्रज्ञा श्रुतं वा किं वृत्तिर्वा का नु ते मुने । 008a
क्षिप्रमाचक्ष्व मे ब्रह्मञ्श्रेयो यदिह मन्यसे ॥ 008c
भीष्म उवाच 009
अनुयुक्तः स मेधावी लोकधर्मविधानवित् । 009a
उवाच श्लक्ष्णया वाचा प्रह्लादमनपार्थया ॥ 009c
पश्य प्रह्लाद भूतानामुत्पत्तिमनिमित्ततः । 010a
ह्रासं वृद्धिं विनाशं च न प्रहृष्ये न च व्यथे ॥ 010c
स्वभावादेव सन्दृश्या वर्तमानाः प्रवृत्तयः । 011a
स्वभावनिरताः सर्वाः प्रतिपाद्या न केनचित् ॥ 011c
पश्य प्रह्लाद संयोगान्विप्रयोगपरायणान् । 012a
सञ्चयांश्च विनाशान्तान्न क्वचिद्विदधे मनः ॥ 012c
अन्तवन्ति च भूतानि गुणयुक्तानि पश्यतः । 013a
उत्पत्तिनिधनज्ञस्य किं पर्यायेणोपलक्षये । 013c
जलजनामपि ह्यन्तं पर्यायेणोपलक्षये । 014a
महतामपि कायानां सूक्ष्माणां च महोदधौ ॥ 014c
जङ्गमस्थावराणां च भूतानामसुराधिप । 015a
पार्थिवानामपि व्यक्तं मृत्युं पश्यामि सर्वशः ॥ 015c
अन्तरिक्षचराणां च दानवोत्तमपक्षिणाम् । 016a
उत्तिष्ठते यथाकालं मृत्युर्बलवतामपि ॥ 016c
दिवि सञ्चरमाणानि ह्रस्वानि च महान्ति च । 017a
ज्योतींष्यपि यथाकालं पतमानानि लक्षये ॥ 017c
इति भूतानि सम्पश्यन्ननुषक्तानि मृत्युना । 018a
सर्वं सामान्यतो विद्वान्कृतकृत्यः सुखं स्वपे ॥ 018c
सुमहान्तमपि ग्रासं ग्रसे लब्धं यदृच्छया । 019a
शये पुनरभुञ्जानो दिवसानि बहून्यपि ॥ 019c
आशयन्त्यपि मामन्नं पुनर्बहुगुणं बहु । 020a
पुनरल्पं पुनस्तोकं पुनर्नैवोपपद्यते ॥ 020c
कणं कदाचित्खादामि पिण्याकमपि च ग्रसे । 021a
भक्षये शालिमांसानि भक्षांश्चोच्चावचान्पुनः ॥ 021c
शये कदाचित्पर्यङ्के भूमावपि पुनः शये । 022a
प्रासादे चापि मे शय्या कदाचिदुपपद्यते ॥ 022c
धारयामि च चीराणि शाणक्षौमाजिनानि च । 023a
महार्हाणि च वासांसि धारयाम्यहमेकदा ॥ 023c
न सन्निपतितं धर्म्यमुपभोगं यदृच्छया । 024a
प्रत्याचक्षे न चाप्येनमनुरुध्ये सुदुर्लभम् ॥ 024c
अचलमनिधनं शिवं विशोकं शुचिमतुलं विदुषां मते प्रविष्टम् । 025a
अनभिमतमसेवितं विमूढैर्व्रतमिदमाजगरं शुचिश्चरामि ॥ 025c
अचलितमतिरच्युतः स्वधर्मात्परिमितसंसरणः परावरज्ञः । 026a
विगतभयकषायलोभमोहो व्रतमिदमाजगरं शुचिश्चरामि ॥ 026c
अनियतफलभक्ष्यभोज्यपेयं विधिपरिणामविभक्तदेशकालम् । 027a
हृदयसुखमसेवितं कदर्यैर्व्रतमिदमाजगरं शुचिश्चरामि ॥ 027c
इदमिदमिति तृष्णयाऽभिभूतं जनमनवाप्तधनं विषीदमानम् । 028a
निपुणमनुनिशाम्य तत्त्वबुद्ध्या व्रतमिदमाजगरं शुचिश्चरामि ॥ 028c
बहुविधमनुदृश्य चार्थहेतोः कृपणमिहार्यमनार्यमाश्रयं तम् । 029a
उपशमरुचिरात्मवान्प्रशान्तो व्रतमिदमाजगरं शुचिश्चरामि ॥ 029c
सुखमसुखमलाभमर्थलाभं रतिमरतिं मरणं च जीवितं च । 030a
विधिनियतमवेक्ष्य तत्त्वतोऽहं व्रतमिदमाजगरं शुचिश्चरामि ॥ 030c
अपगतभयरागमोहदर्पो धृतिमतिबुद्धिसमन्वितः प्रशान्तः । 031a
उपगतफलभोगिनो निशाम्य व्रतमिदमाजगरं शुचिश्चरामि ॥ 031c
अनियतशयनासनः प्रकृत्या दमनियमव्रतसत्यशौचयुक्तः । 032a
अपगतफलसञ्चयः प्रहृष्टो व्रतमिदमाजगरं शुचिश्चरामि ॥ 032c
अपगतमसुखार्थमीहनार्थैरुपगतबुद्धिरवेक्ष्य चात्मसंस्थम् । 033a
तृषितमनियतं मनो नियन्तुं व्रतमिदमाजगरं शुचिश्चरामि ॥ 033c
न हृदयमनुरुध्यते मनो वा प्रियसुखदुर्लभतामनित्यतां च । 034a
तदुभयमुपलक्षयन्निवाहं व्रतमिदमाजगरं शुचिश्चरामि ॥ 034c
बहु कथितमिदं हि बुद्धिमद्भिः कविभिरपि प्रथयद्भिरात्मकीर्तिम् । 035a
इदमिदमिति तत्रतत्र हन्त स्वपरमतैर्गहनं प्रतर्कयद्भिः ॥ 035c
तदिदमनुनिशाम्य विप्रपातं पृथगभिपन्नमिहाबुधैर्मनुष्यैः । 036a
अनवसितमनन्तदोषपारं नृषु विहरामि विनीतदोषतृष्णः ॥ 036c
भीष्म उवाच 037
अजगरचरितं व्रतं महात्मा य इह नरोऽनुचरेद्विनीतरागः । 037a
अपगतभयलोभमोहमन्युः स खलु सुखी विचरेदिमं विहारम् ॥ 037c
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि सप्तसप्तत्यधिकशततमोऽध्यायः ॥ 177 ॥
12-177-2 आजगरस्याऽजगरवृत्त्या जीवतः ॥ 12-177-4 निर्विधित्सो निरारम्भः ॥ 12-177-6 स्रोतसा कामादिवेगेन । कूटस्थो निर्व्यापारः ॥ 12-177-7 इन्द्रियार्थान् गन्धरसादीननादृत्य चरसि तन्निर्वाहमात्रार्थी अश्नासि ॥ 12-177-8 प्रज्ञा तत्त्वदर्शनम् । श्रुतं तन्मूलभूतं शास्त्रम् । वृत्तिस्तदर्थानुष्ठानम् । श्रेयो ममेति शेषः ॥ 12-177-9 अनुयुक्तः पृष्टः । लोकस्य धर्मो जन्मजरादिस्तस्य विधानं कारणं तदभिज्ञः लोकधर्मविधानवित् ॥ 12-177-10 अनिमित्ततः कारणहीनाद्ब्रह्मणः । पश्य आलोचय ॥ 12-177-12 तस्मादहं मनो न क्वचिद्विषये विदधे धारयामि तद्विनाशे शोकोत्पत्तिं जानन् ॥ 12-177-15 पार्थिवानां पृथिवीस्थानाम् ॥ 12-177-19 आजगरीं वृत्तिं प्रपञ्चयति सुमहान्तमित्यादिना ॥ 12-177-20 आशयन्ति भोजयन्ति ॥ 12-177-26 कषायः रागद्वेषादिः ॥ 12-177-28 धनप्राप्तौ कर्मैव कारणं न पौरुषमिति धिया निशाम्यालोच्य ॥ 12-177-29 अर्थहेतोरनार्यं नीचम् । अर्यं स्वामिनमाश्रयति यः कृपणो दीनजनस्तमनुदृश्योपशमरुचिः । आत्मवान् जितचित्तः ॥ 12-177-30 विधिनियतं दैवाधीनम् ॥ 12-177-31 मतिरालोचनम् । बुद्धिर्निश्चयः । उपगतं समीपागतं फलं प्रियं येषां तान् भोगिनः सर्पान् अजगरान् निशाम्य दृष्ट्वा । फलभोगिन इति मध्यमपदलोपः ॥ 12-177-32 प्रकृत्या दमादियुक्तः अपगतफलसञ्चयस्त्यक्तयोगफलसमूहः ॥ 12-177-33 एषणाविषयैः पुत्रवित्तादिर्भिर्हेतुभिः । असुखार्थं परिणामे दुःखार्थम् । अपगतमात्मनः पराङ्मुखं तृषितमनियतं च मनोऽवेक्ष्य । उपगतबुद्धिर्लव्धालोकः । आत्मसंस्थमात्मनि संस्था समाप्तिर्यस्य तत्तथा नियन्तुं व्रतं चरामि ॥