अध्यायः 176

भीष्मेण युधिष्ठिरम् प्रति विरक्तेः सुस्वसाधनतायाम् प्रमाणतया मङ्किगीताया बोध्यगीतायाश्चानुवादः ॥ 1 ॥ युधिष्ठिर उवाच 001
ईहमानः समारम्भान्यदि नासादयेद्धनम् । 001a
धनतृष्णाभिभूतश्च किं कुर्वन्सुखमाप्नुयात् ॥ 001c
भीष्म उवाच 002
सर्वसाम्यमनायासः सत्यवाक्यं च भारत । 002a
निर्वेदश्चाविधित्सा च यस्य स्यात्स सुखी नरः ॥ 002c
एतान्येव पदान्याहुः पञ्च वृद्धाः प्रशान्तये । 003a
एष स्वर्गश्च धर्मश्च सुखं चानुत्तमं सताम् ॥ 003c
अत्राप्युदाहरन्तीममितिहासं पुरातनम् । 004a
निर्वेदान्मङ्किना गीतं तन्निबोध युधिष्ठिर ॥ 004c
ईहमानो धनं मङ्किर्भग्नेहश्च पुनःपुनः । 005a
केनचिद्धनलेशेन क्रीतवान्दम्यगोयुगम् ॥ 005c
सुसम्बद्धौ तु तौ दम्यौ दमनायाभिनिःसृतौ । 006a
आसीनमुष्ट्रं मध्येन सहसैवाभ्यधावताम् ॥ 006c
तयोः सम्प्राप्तयोरुष्ट्रः स्कन्धदेशममर्षणः । 007a
उत्थायोत्क्षिप्य तौ दम्यौ प्रससार महाजवः ॥ 007c
ह्रियमाणौ तु तौ दम्यौ तेनोष्ट्रेण प्रमाथिना । 008a
प्रियमाणौ च सम्प्रेक्ष्य मङ्किस्तत्राब्रवीदिदम् ॥ 008c
न जात्वविहितं शक्यं दक्षेणापीहितुं धनम् । 009a
युक्तेन श्रद्धया सम्यगीहां समनुतिष्ठता ॥ 009c
पूर्वमर्थैर्विहीनस्य युक्तस्याप्यनुतिष्ठतः । 010a
इमं पश्यत सङ्गत्या मम दैवमुपप्लवम् ॥ 010c
उद्यम्योद्यम्य मे दम्यौ विषमेणैव गच्छतः । 011a
उत्क्षिप्य काकतालीयमुन्माथेनेव जम्बुकः ॥ 011c
मणीवोष्ट्रस्य लम्बेते प्रियौ वत्सतरौ मम । 012a
शुद्धं हि दैवमेवेदं हठे नैवास्ति पौरुषम् ॥ 012c
यदि वाऽप्युपपद्येत पौरुषं नाम कर्हिचित् । 013a
अन्विष्यमाणं तदपि दैवमेवावतिष्ठते ॥ 013c
तस्मान्निर्वेद एवेह गन्तव्यः सुखमीप्सता । 014a
सुखं स्वपिति निर्विण्णो निराशश्चार्थसाधने ॥ 014c
अहो सम्यक्शुकेनोक्तं सर्वतः परिमुच्यता । 015a
प्रतिष्ठता महारण्यं जनकस्य निवेशनात् ॥ 015c
यः कामानाप्नुयात्सर्वान्यश्चैतान्केवलांस्त्यजेत् । 016a
प्रापणात्सर्वकामानां परित्यागो विशिष्यते ॥ 016c
नान्तं सर्वविधित्सानां गतपूर्वोऽस्ति कश्चन । 017a
शरीरे जीविते चैव तृष्णा मर्त्यस्य वर्धते ॥ 017c
निवर्तस्व विधित्साभ्यः शाम्य निर्विद्य कामुक । 018a
असकृच्चासि निकृतो न च निर्विद्यसे मनः ॥ 018c
यदि नाहं विनाश्यस्ते यद्येवं रमसे मया । 019a
मा मां योजय लोभेन वृथा त्वं वित्तकामुक ॥ 019c
सञ्चितं सञ्चितं द्रव्यं नष्टं तव पुनः पुनः । 020a
कदा तां मोक्ष्यसे मूढ धनेहां धनकामुक ॥ 020c
अहो नु मम बालिश्यं योऽहं क्रीडनकस्तव । 021a
'क्लेशैर्नानाविधैर्नित्यं संयोजयसि निर्घृणः ।' 021c
किं नैवं जातु पुरुषः परेषां प्रेष्यतामियात् ॥ 021e
न पूर्वे नापरे जातु कामानामन्तमाप्नुवन् । 022a
त्यक्त्वा सर्वसमारम्भान्प्रतिबुद्धोऽस्मि जागृमि ॥ 022c
नूनं मे हृदयं कामं वज्रसारमयं दृढम् । 023a
यदनर्थशताविष्टं शतधा न विदीर्यते ॥ 023c
त्यजामि काम त्वां चैव यच्च किञ्चित्प्रियं तव । 024a
तवाहं प्रियमन्विच्छन्नात्मन्युपलभे सुखम् ॥ 024c
काम जानामि ते मूलं सङ्कल्पात्किल जायसे । 025a
न त्वां सङ्कल्पयिष्यामि समूलो नभविष्यसि ॥ 025c
ईहा धनस्य न सुखा लुब्ध्वा चिन्ता च भूयसी । 026a
लब्धनाशो यथा मृत्युर्लब्धं भवति वा न वा ॥ 026c
परित्यागे न लभते ततो दुःखतरं नु किम् । 027a
न च तुष्यति लब्धेन भूय एव च मार्गति ॥ 027c
अनुतर्षुल एवार्थः स्वादु गाङ्गमिवोदकम् । 028a
मद्विलापनमेतत्तु प्रतिबुद्धोऽस्मि सन्त्यज ॥ 028c
य इमं मामकं देहं भूतग्रामः समाश्रितः । 029a
स यात्वितो यथाकामं वसतां वा यथासुखम् ॥ 029c
न युष्मास्विह मे प्रीतिः कामलोभानुसारिषु । 030a
तस्मादुत्सृज्य वः सर्वान्सत्वमेवाश्रयाम्यहम् ॥ 030c
सर्व भूतान्यहं देहे पश्यन्मनसि चात्मनः । 031a
योगे बुद्धिं श्रुते सत्वं मनो ब्रह्मणि धारयन् ॥ 031c
विहरिष्याम्यनासक्तः सुखी लोकान्निरामयः । 032a
यथा मां त्वं पुनर्नैवं दुःखेषु प्रणिधास्यसि ॥ 032c
त्वया हि मे प्रणुन्नस्य गतिरन्या न विद्यते । 033a
तृष्णा शोकश्रमाणां हि त्वं काम प्रभवः सदा ॥ 033c
धननाशेऽधिकं दुःखं मन्ये सर्वमहत्तरम् । 034a
ज्ञातयो ह्यवमन्यन्ते मित्राणि च धनाच्च्युतम् ॥ 034c
अवज्ञानसहस्रैस्तु दोषाः कष्टतराऽधने । 035a
धने सुखकला या तु साऽपि दुःखैर्विधीयते ॥ 035c
धनमस्येति पुरुषं पुरो निघ्नन्ति दस्यवः । 036a
क्लिश्यन्ति विविधैर्दण्डैर्नित्यमुद्वेजयन्ति च ॥ 036c
धनलोलुपता दुःखमिति बुद्धं चिरान्मया । 037a
यद्यदालम्बसे कामं तत्तदेवानुरुध्यसे ॥ 037c
अतत्त्वज्ञोऽसि बालश्च दुस्तोषोऽपूरणोऽनलः । 038a
नैव त्वं वेत्थ सुलभं नैव त्वं वेत्थ दुर्लभम् ॥ 038c
पाताल इव दुष्पूरो मां दुःखैर्योक्तुमिच्छसि । 039a
नाहमद्य समावेष्टुं शक्यः काम पुनस्त्वया ॥ 039c
निर्वेदमहमासाद्य द्रव्यनाशाद्यदृच्छया । 040a
निवृत्तिं परमां प्राप्य नाद्य कामान्विचिन्तये ॥ 040c
अतिक्लेशान्सहामीह नाहं बुद्ध्याम्यबुद्धिमान् । 041a
निकृतो धननाशेन शये सर्वाङ्गविज्वरः ॥ 041c
परित्यजामि काम त्वां हित्वा सर्वं मनोगतम् । 042a
न त्वं मया पुनः काम नस्योतेनेव रंस्यसे ॥ 042c
क्षमिष्ये क्षिपमाणानां न हिंसिष्ये विहिंसितः । 043a
द्वेष्यमुक्तः प्रियं वक्ष्याम्यनादृत्य तदप्रियम् ॥ 043c
तृप्तः स्वस्थेन्द्रियो नित्यं यथालब्धेन वर्तयन् । 044a
न सकामं करिष्यामि त्वामहं शत्रुमात्मनः ॥ 044c
निर्वेदं निर्वृतिं तृप्तिं शान्तिं सत्यं दमं क्षमाम् । 045a
सर्वभूतदयां चैव विद्धि मां शरणागतम् ॥ 045c
तस्मात्कामश्च लोभश्च तृष्णा कार्पण्यमेव च । 046a
त्यजन्तु मां प्रतिष्ठन्तं सत्वस्थो ह्यस्मि साम्प्रतम् ॥ 046c
प्रहाय कामं लोभं च क्रोधं पारुष्यमेव च । 047a
नाद्य लोभवशं प्राप्तो दुःखं प्राप्स्याम्यनात्मवान् ॥ 047c
यद्यस्त्यजति कामानां तत्सुखस्याभिपूर्यते । 048a
कामस्य वशगो नित्यं दुःखमेव प्रपद्यते ॥ 048c
कामानुबन्धं नुदते यत्किञ्चित्पुरुषो रजः । 049a
कामक्रोधोद्भवं दुःखमह्रीररतिरेव च ॥ 049c
एष ब्रह्मप्रतिष्ठोऽहं ग्रीष्मे शीतमिव ह्रदम् । 050a
शाम्यामि परिनिर्वामि सुखमासे च केवलम् ॥ 050c
यच्च कामसुखं लोके यच्च दिव्यं महत्सुखम् । 051a
तृष्णाक्षयसुखस्यैते नार्हतः षोडशीं कलाम् ॥ 051c
आत्मना सप्तमं कामं हत्वा शत्रुमिवोत्तमम् । 052a
प्राप्यावध्यं ब्रह्मपुरं राजेव च वसाम्यहम् ॥ 052c
एतां बुद्धिं समास्थाय मङ्किर्निर्वेदमागतः । 053a
सर्वान्कामान्परित्यज्य प्राप्य ब्रह्म महत्सुखम् ॥ 053c
दम्यनाशकृते मङ्किरमृतत्वं किलागमत् । 054a
अच्छिनत्काममूलं स तेन प्राप परां गतिम् ॥ 054c
अत्राप्युदाहरन्तीमं श्लोकं मोक्षोपसंहितम् । 055a
गीतं विदेहराजेन जनकेन प्रशाम्यता ॥ 055c
अनन्तमिव मे वित्तं यस्य मे नास्ति किञ्चन । 056a
मिथिलायां प्रदीप्तायां न मे दह्यति किञ्चन ॥ 056c
अत्रैवोदाहरन्तीमं बोध्यस्य पदसञ्चयम् । 057a
निर्वेदं प्रति विन्यस्तं तं निबोध युधिष्ठिर ॥ 057c
बोध्यं शान्तमृषिं राजा नाहुषः पर्यपृच्छत । 058a
निर्वेदाच्छान्तिमापन्नं शास्त्रप्रज्ञानतर्पितम् ॥ 058c
उपदेशं महाप्राज्ञ शमस्योपदिशस्व मे । 059a
कां बुद्धिं समनुप्राप्य शान्तश्चरसि निर्वृतः ॥ 059c
बोध्य उवाच 060
उपदेशेन वर्तामि नानुशास्मीह कञ्चन । 060a
लक्षणं तस्य वक्ष्येऽहं तत्स्वयं परिमृष्यताम् ॥ 060c
पिङ्गला कुररः सर्पः सारङ्गान्वेषणं वने । 061a
इषुकारः कुमारी च षडेते गुरवो मम ॥ 061c
[*भीष्म उवाच 062
आशा बलवती राजन्नैराश्यं परमं सुखम् । 062a
आशां निराशां कृत्वा तु सुखं स्वपिति पिङ्गला ॥ 062c
सामिषं कुररं दृष्ट्वा वध्यमानं निरामिषैः । 063a
आमिषस्य परित्यागात्कुररः सुखमेधते ॥ 063c
गृहारम्भो हि दुःखाय न सुखाय कदाचन । 064a
सर्पः परकृतं वेश्म प्रविश्य सुखमेधते ॥ 064c
सुखं जीवन्ति मुनयो भैक्ष्यवृत्तिं समाश्रिताः । 065a
अद्रोहेणैव भूतानां सारङ्ग इव पक्षिणः ॥ 065c
'अल्पेभ्यश्च महद्भ्यश्च शास्त्रेभ्यो मतिमान्नरः । 066a
सर्वतः सारमादद्यात्पुष्पेभ्य इव षट्पदः ॥' 066c
इषुकारो नरः कश्चिदिषावासक्तमानसः । 067a
समीपेनापि गच्छन्तं राजानं नावबुद्धवान् ॥ 067c
बहूनां कलहो नित्यं द्वयोः सङ्कथनं ध्रुवम् । 068a
एकाकी विचरिष्यामि कुमारीशङ्खको यथा ॥] 068c

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि षट्सप्तत्यधिकशततमोऽध्यायः ॥ 176 ॥

12-176-3 पदानि पदनीयान्याश्रयणीयानि । प्रशान्तये मोक्षाय । एष इति विधेयापेक्षे लिङ्गैकत्वे ॥ 12-176-5 दम्यगोयुगं द्वौ वत्सतरौ । द्वित्वे गोयुगजिति गोयुगच्प्रत्ययः ॥ 12-176-7 उत्क्षिप्य तुलाभाजनद्वयवदुपरिभूमेर्नीत्वा ॥ 12-176-9 अविहितं दैवेनानुपस्थापितम् ईहितुमेष्टुम् । श्रद्धया फलप्राप्तिनिश्चयेन । ईहां चेष्टाम् ॥ 12-176-10 युक्तस्यावहितचित्तस्य । अनुतिष्ठतोऽर्थप्राप्त्युपायान् । सङ्गत्या दम्योष्ट्रसम्बन्धेन । दैवं देवेनेश्वरेण निर्मितम् ॥ 12-176-11 उद्यम्योद्यम्य मोक्षार्थमुद्यमं कृत्वा विषमेण कृच्छ्रेण दम्यौ गच्छतः । काकतालीयं दैवकृतं सङ्गमम् । उन्माथः कूटयन्त्रम् । उत्पथेनैव धावतः इति झ. पाठः ॥ 12-176-12 वाशब्द इवार्थे ॥ 12-176-13 उपपद्येत यदि लोकदृष्टान्तेन पौरुषास्तित्वं युज्येत तर्हि फलव्यभिचारात्तदपि दैवायत्तमेवोपपद्यते न स्वातन्त्र्येणेत्यर्थः ॥ 12-176-17 विधित्सानां धनाद्यर्थं प्रवृत्तीनाम् । गतपूर्वः पूर्वं गतः प्राप्तो गतपूर्वः ॥ 12-176-18 कामुककामादिधर्मवत् हे मनः निर्विद्य वैराग्यं प्राप्य शाम्य शमं गच्छ । निकृतः वञ्चितः प्रवृत्तिनैष्फल्यात् ॥ 12-176-20 मोक्ष्यसे त्यक्ष्यसे ॥ 12-176-21 क्रीडनकः क्रीडामृगः । जातु कदाचित् । प्रेष्यतां दास्यम् । कामाभावे कोऽपि कस्यचिदपि न प्रेष्यः स्यादित्यर्थः ॥ 12-176-22 अन्तं नाप्नुवन् अतो हेतोस्त्यक्त्वा ॥ 12-176-23 नूनं ते हृदयं कामेति झ. पाठः ॥ 12-176-24 प्रियं जायादि ॥ 12-176-25 नभविष्यसि विनशिष्यसि ॥ 12-176-26 ईहा लिप्सा चेष्टा वा । तदा धनस्य धनायेत्यर्थः । लब्ध्वा चिन्ता नाशभयात् । यथा मृत्युस्तथा दुःखकृत् । श्रमेऽपि फलं सन्दिग्धम् ॥ 12-176-27 परित्यागे देहस्य परस्वत्वापादनेऽपि न लभते । मार्गति मृगयते ॥ 12-176-28 अनुतर्षुलस्तृष्णावृद्धिकृत् । मद्विलापनं मन्नाशः । एतत् तृष्णावृद्ध्याख्यम् । प्रतिबुद्धोऽस्मि अतो मां सन्त्यज । हे कामेति शेषः ॥ 12-176-29 भूतग्रामो यातु स्वकारणं प्रति । पञ्चत्वमस्त्वित्यर्थः ॥ 12-176-31 योगे विषये बुद्धिं करष्यामीति निश्चयं कुर्वन् श्रुते श्रवणादौ सत्वमेकाग्रचित्तं धारयन् मनश्च ब्रह्मणि धारयन् विहरिष्यामीत्यग्रिमेण सम्बन्धः ॥ 12-176-35 कष्टतराऽधने इति सन्धिरार्षः ॥ 12-176-36 धनमस्यास्तीति क्लिश्यन्ति क्लेशयन्ति ॥ 12-176-38 अनलोऽग्निरिवेत्यर्थः ॥ 12-176-41 सहामि इतःपूर्वं सोढवानस्मि ॥ 12-176-43 क्षिपमाणानां धिक्कुर्वताम् ॥ 12-176-44 सकामं लब्धमनोरथम् । हेकामेति शेषः ॥ 12-176-45 निर्वृतिं सुखम् । तृप्तिं पूर्णकामताम् ॥ 12-176-46 प्रतिष्ठन्तं मोक्षाय गन्तुम् ॥ 12-176-47 प्रहाय स्थितोस्मीति शेषः ॥ 12-176-49 रजः प्रवर्तको गुणः । तच्च कामेनानुबध्नातीति कामानुबन्धम् । दुःखादिकं च कामाद्युद्भवम् । अतः सर्वानर्थमूलं रजस्त्याज्यमित्यर्थः ॥ 12-176-50 शाम्यामि कर्मभ्य उपरतिं गच्छामि । परिनिर्वामि निर्दुःखो भवामि ॥ 12-176-54 काममूलमविद्याम् ॥ 12-176-55 अत्राप्युदाहरन्तीममितिहासं पुरातनम् इति झ. पाठः ॥ 12-176-57 पदसञ्चयं श्लोकम् । वैराग्यार्थमुपन्यस्तम् ॥ 12-176-60 तत् ज्ञाप्यम् ॥ 12-176-61 सारङ्गो भ्रमरस्तस्याऽन्वेषणमनुगमनम् । इष गतौ दिवादिः ॥ 12-176-68 काचित्कुमारी पित्रादिपरवशा गृहागतानतिथीन्प्रच्छन्नं भोजयितुमिच्छन्ती व्रीहीनवहन्तुं प्रचक्रमे । तस्याः प्रकोष्ठस्थाः शङ्खाश्चुक्रुशुः । सा परेषां सूचना माभूदिति शङ्खान्भड्क्त्वा एकैकमवशेषितवतीति श्रीमद्भागवते दृष्टान्तोऽयं व्याख्यातः ॥