अध्यायः 175
भीष्मेण युधिष्ठिरम् प्रति दारिद्र्यधनिकत्वयोः क्रमेणार्थानर्थसाधनत्वे प्रमाणतया शम्याकगीताया अनुवादः ॥ 1 ॥
युधिष्ठिर उवाच 001
धनिनश्चाधना ये च वर्तयन्ति स्वतन्त्रिणः । 001a
सुखदुःखागमस्तेषां कः कथं वा पितामह ॥ 001c
भीष्म उवाच 002
अत्राप्युदाहरन्तीममितिहासं पुरातनम् । 002a
शम्याकेन विमुक्तेन गीतं शान्तिगतेन च ॥ 002c
अब्रवीन्मां पुरा कश्चिद्ब्राह्मणस्त्यागमाश्रितः । 003a
क्लिश्यमानः कुदारेण कुचेलेन बुभुक्षया ॥ 003c
उत्पन्नमिह लोके वै जन्मप्रभृति मानवम् । 004a
विविधान्युपवर्तन्ते दुःखानि च सुखानि च ॥ 004c
तयोरेकतरो मार्गो यदेनमुपसन्नयेत् । 005a
न सुखं प्राप्य संहृष्येन्नासुखं प्राप्य सञ्ज्वरेत् ॥ 005c
न वै चरसि यच्छ्रेय आत्मनो वा न रंस्यसे । 006a
अकामात्माऽपि हि सदा धुरमुद्यम्य चैव ह ॥ 006c
अकिञ्चनः परिपतन्सुखमास्वादयिष्यसि । 007a
अकिञ्चनः सुखं शेते समुत्तिष्ठति चैव ह ॥ 007c
आकिञ्चन्यं सुखं लोके पथ्यं शिवमनामयम् । 008a
अनमित्रपथो ह्येष दुर्लभः सुलभः सताम् ॥ 008c
अकिञ्चनस्य शुद्धस्य उपपन्नस्य सर्वतः । 009a
अवेक्षमाणस्त्रील्लोँकान्न तुल्यमिह लक्षये ॥ 009c
आकिञ्चन्यं च राज्यं च तुलया समतोलयम् । 010a
अत्यरिच्यत दारिद्र्यं राज्यादपि गुणाधिकम् ॥ 010c
आकिञ्चन्ये च राज्ये च विशेषः सुमहानयम् । 011a
नित्योद्विग्नो हि धनवान्मृत्योरास्यगतो यथा ॥ 011c
नैवास्याग्निर्न चादित्यो न मृत्युर्न च दस्यवः । 012a
प्रभवन्ति धनं हर्तुमितरे स्युः कुतः पुनः ॥ 012c
तं वै सदा कामचरमनुपस्तीर्णशायिनम् । 013a
बाहूपधानं शाम्यन्तं प्रशंसन्ति दिवौकसः ॥ 013c
धनवान्क्रोधलोभाभ्यामाविष्टो नष्टचेतनः । 014a
तिर्यग्दृष्टिः शुष्कमुखः पापको भ्रुकुटीमुखः ॥ 014c
निर्दशन्नधरोष्ठं च क्रुद्धो दारुणभाषिता । 015a
कस्तमिच्छेत्परिद्रष्टुं दातुमिच्छति चेन्महीम् ॥ 015c
श्रिया ह्यभीक्ष्णं संवासो मोहयत्यविचक्षणम् । 016a
सा तस्य चित्तं हरति शारदाभ्रमिवानिलः ॥ 016c
अथैनं रूपमानश्च धनमानश्च विन्दति । 017a
अभिजातोऽस्मि सिद्धोऽस्मि नास्मि केवलमानुषः । 017c
इत्येभिः कारणैस्तस्य त्रिभिश्चित्तं प्रमाद्यति ॥ 017e
सम्प्रसक्तमना भोगान्विसृज्य पितृसञ्चितान् । 018a
परिक्षीणः परस्वानामादानं साधु मन्यते ॥ 018c
तमतिक्रान्तमर्यादमाददानं ततस्ततः । 019a
प्रतिषेधन्ति राजानो लुब्धा मृगमिवेषुभिः ॥ 019c
एवमेतानि दुःखानि तानि तानीह मानवम् । 020a
विविधान्युपवर्तन्ते गात्रसंस्पर्शजान्यपि ॥ 020c
तेषां परमदुःखानां बुद्ध्या भैषज्यमाचरेत् । 021a
लोकधर्मं समाज्ञाय ध्रुवाणामध्रुवैः सह ॥ 021c
नात्यक्त्वा सुखमाप्नोति नात्यक्त्वा विन्दते परम् । 022a
नात्यक्त्वा चाभयः शेते त्यक्त्वा सर्वं सुखी भवेत् ॥ 022c
इत्येतद्धास्तिनपुरे ब्राह्मणेनोपवर्णितम् । 023a
शम्याकेन पुरा मह्यं तस्मात्त्यागः परो मतः ॥ 023c
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि पञ्चसप्तत्यधिकशततमोऽध्यायः ॥ 175 ॥
12-175-1 स्वतन्त्रिणः स्वशास्त्रानुसारिणः ॥ 12-175-2 तेन शम्याकेन यद्गीतं तन्मां प्रति कश्चिदब्रवीदिति द्वयोः सम्बन्धः । शम्पाकेनेह मुक्तेन इति झ. पाठः ॥ 12-175-3 कुचेलेन कुवस्त्रेण । निर्धनत्वादन्नाच्छादनहीन इत्यर्थः ॥ 12-175-5 उपसन्नयेत् सम्प्राप्नुयात् । तयोरेकतरे मार्गे यदेनमभिसन्नयेदिति झ. पाठः । तत्र अभिसन्नयेद्दैवं यदि प्रापयेत्तर्हि न संहृष्येदित्यादिना सम्बन्धः ॥ 12-175-7 अकिञ्चनः दरिद्रः । परितः पतन् गच्छन् । अनिकेतश्चरन्नित्यर्थः ॥ 12-175-8 पथ्यं मोक्षमार्गादनपेतम् । अनमित्रपथः शत्रुवर्जितः पन्थाः । दुर्लभः कामिनाम् ॥ 12-175-9 उपपन्नस्य वैराग्यसम्पन्नस्य ॥ 12-175-12 नैवास्याग्निर्न चारिष्ट इति प्रभवन्ति धनत्यागाद्विमुक्तस्य निराशिषः इति च झ. पाठः ॥ 12-175-13 अनुपस्तीर्णे शय्याहीने भूतले शेते तम् । उपधानं शीर्षोपधानम् ॥ 12-175-17 अभिजात उत्तमवंश्यः त्रिभिर्धनरूपकुलैः ॥ 12-175-18 भोगान् भोग्यधनादीन् विसृज्य व्ययीकृत्य ॥ 12-175-19 प्रतिषेधन्ति दण्डयन्ति । लुब्धा व्याधाः ॥ 12-175-20 संस्पर्शजानि दाहच्छेदादीनि ॥ 12-175-21 भैषज्यं प्रतीकारमाचरेत् ॥ 12-175-23 शम्याकेन पुरा गीतमित्यध्याहारेण योजना ॥