अध्यायः 174
भीष्मेण युधिष्ठिरम् प्रति कालस्य द्रुततरपातितया सद्यः साधनस्य सम्पादनीयत्वे प्रमाणतया पितृपुत्रसंवादानुवादः ॥ 1 ॥
युधिष्ठिर उवाच 001
अतिक्रामति कालेऽस्मिन्सर्वभूतक्षयावहे । 001a
किं श्रेयः प्रतिपद्येत तन्मे ब्रूहि पितामह ॥ 001c
भीष्म उवाच 002
अत्राप्युदाहरन्तीममितिहासं पुरातनम् । 002a
पितुः पुत्रेण संवादं तं निबोध युधिष्ठिर ॥ 002c
द्विजातेः कस्यचित्पार्थ स्वाध्यायनिरतस्य वै । 003a
बभूव पुत्रो मेधावी मेधावीनाम नामतः ॥ 003c
सोऽब्रवीत्पितरं पुत्रः स्वाध्यायकरणे रतम् । 004a
मोक्षधर्मार्थकुशलो लोकतन्त्रविचक्षणः ॥ 004c
पुत्र उवाच 005
धीरः किंस्वित्तात कुर्यात्प्रजानन्क्षिप्रं ह्यायुर्भ्रश्यते मानवानाम् । 005a
पितस्तदाचक्ष्व यथार्थयोगं ममानुपूर्व्या येन धर्मं चरेयम् ॥ 005c
पितोवाच 006
वेदानधीत्य ब्रह्मचर्येण पुत्र पुत्रानिच्छेत्पावनार्थं पितॄणाम् । 006a
अग्नीनाधाय विधिवच्चेष्टयज्ञो वनं प्रविश्याथ मुनिर्बुभूषेत् ॥ 006c
पुत्र उवाच 007
एवमभ्याहते लोके समन्तात्परिवारिते । 007a
अमोघासु पतन्तीषु किं धीर इव भाषसे ॥ 007c
पितोवाच 008
कथमभ्याहतो लोकः केन वा परिवारितः । 008a
अमोघाः काः पतन्तीह किन्नु भीषयसीव माम् ॥ 008c
पुत्र उवाच 009
मृत्युनाभ्याहतो लोको जरया परिवारितः । 009a
अहोरात्राः पतन्त्येते ननु कस्मान्न बुध्यसे । 009c
अमोघा रात्रयश्चापि नित्यमायान्ति यान्ति च ॥ 009e
पितोवाच 010
यथाऽहमेतज्जानामि न मृत्युस्तिष्ठतीति ह । 010a
सोऽहं कथं प्रतीक्षिष्ये जालेनेवावृतश्चरन् ॥ 010c
पुत्र उवाच 011
रात्र्यांरात्र्यां व्यतीतायामायुरल्पतरं यदा । 011a
तदैव वन्ध्यं दिवसमिति विन्द्याद्विचक्षणः ॥ 011c
गाधोदके मत्स्य इव सुखं विन्देत कस्तदा । 012a
अनवाप्तेषु कामेषु मृत्युरभ्योति मानवम् ॥ 012c
पुष्पाणीव विचिन्वन्तमन्यत्र गतमानसम् । 013a
वृकीवोरणमासाद्य मृत्युरादाय गच्छति ॥ 013c
अद्यैव कुरु यच्छ्रेयो मा त्वां कालोऽत्यगादयम् । 014a
अकृतेष्वेव कार्येषु मृत्युर्वै सम्प्रकर्षति ॥ 014c
श्वः कार्यमद्य कुर्वीत पूर्वाह्णे चापराह्णिकम् । 015a
नहि प्रतीक्षते मृत्युः कृतमस्य न वा कृतम् ॥ 015c
को हि जानाति कस्याद्य मृत्युकालो भविष्यति । 016a
युवैव धर्मशीलः स्यादनित्यं खलु जीवितम् । 016c
कृते धर्मे भवेत्कीर्तिरिह प्रेत्य च वै सुखम् ॥ 016e
मोहेन हि समाविष्टः पुत्रदारार्थमुद्यतः । 017a
कृत्वा कार्यमकार्यं वा पुष्टिमेषां प्रयच्छति ॥ 017c
तं पुत्रपशुसम्पन्नं व्यासक्तमनसं नरम् । 018a
सुप्तं व्याघ्रो मृगमिव मृत्युरादाय गच्छति ॥ 018c
सञ्चिन्वानकमेवैनं कामानामवितृप्तकम् । 019a
व्याघ्रः पशुमिवादाय मृत्युरादाय गच्छति ॥ 019c
इदं कृतमिदं कार्यमिदमन्यत्कृताकृतम् । 020a
एवमीहासुखासक्तं कृतान्तः कुरुते वशे ॥ 020c
कृतानां फलमप्राप्तं कर्मणां कर्मसञ्ज्ञितम् । 021a
क्षेत्रापणगृहासक्तं मृत्युरादाय गच्छति ॥ 021c
दुर्बलं बलवन्तं च शूरं भीरुं जडं कविम् । 022a
अप्राप्तं सर्वकामार्थान्मृत्युरादाय गच्छति ॥ 022c
मृत्युर्जरा च व्याधिश्च दुःखं चानेककारणम् । 023a
अनुषक्तं यदा देहे किं स्वस्थ इव तिष्ठसि ॥ 023c
जातमेवान्तकोऽन्ताय जरा चान्वेति देहिनम् । 024a
अनुषक्ता द्वयेनैते भावाः स्थावरजङ्गमाः ॥ 024c
मृत्योर्वा मुखमेतद्वै या ग्रामे वसतो रतिः । 025a
देवानामेष वै गोष्ठो यदरण्यमिति श्रुतिः ॥ 025c
निबन्धनी रज्जुरेषा या ग्रामे वसतो रतिः । 026a
छित्त्वैतां सुकृतो यान्ति नैनां छिन्दन्ति दुष्कृतः ॥ 026c
न हिंसयति यो जन्तून्मनोवाक्कायहेतुभिः । 027a
जीवितार्थापनयनैः प्राणिभिर्न स हिंस्यते ॥ 027c
न मृत्युसेनामायान्तीं जातु कश्चित्प्रबाधते । 028a
ऋते सत्यमसत्त्याज्यं सत्ये ह्यमृतमाश्रितम् ॥ 028c
तस्मात्सत्यव्रताचारः सत्ययोगपरायणः । 029a
सत्यागमः सदा दान्तः सत्येनैवान्तकं जयेत् ॥ 029c
अमृतं चैव मृत्युश्च द्वयं देहे प्रतिष्ठितम् । 030a
मृत्युरापद्यते मोहात्सत्येनापद्यतेऽमृतम् ॥ 030c
सोऽहं ह्यहिंस्रः सत्यार्थी कामक्रोधबहिष्कृतः । 031a
समदुःखसुखः क्षेमी मृत्युं हास्याम्यमर्त्यवत् ॥ 031c
शान्तियज्ञरतो दान्तो ब्रह्मयज्ञे स्थितो मुनिः । 032a
वाङ्मनः कर्मयज्ञश्च भविष्याम्युदगायने ॥ 032c
पशुयज्ञैः कथं हिंस्रैर्मादृशो यष्टुमर्हति । 033a
अन्तवद्भिरिव प्राज्ञः क्षेत्रयज्ञैः पिशाचवत् ॥ 033c
यस्य वाङ्मनसी स्यातां सम्यक्प्रणिहिते सदा । 034a
तपस्त्यागश्च सत्यं च स वै सर्वमवाप्नुयात् ॥ 034c
नास्ति विद्यासमं चक्षुर्नास्ति सत्यसमं तपः । 035a
नास्ति रागसमं दुःखं नास्ति त्यागसमं सुखम् ॥ 035c
आत्मन्येवात्मना जात आत्मनिष्ठोऽप्रजोपि वा । 036a
आत्मन्येव भविष्यामि न मां तारयति प्रजा ॥ 036c
नैतादृशं ब्राह्मणस्यास्ति वित्तं यथैकता समता सत्यता च । 037a
शीलं स्थितिर्दण्डनिधानमार्जवं ततस्ततश्चोपरमः क्रियाभ्यः ॥ 037c
किं ते धनैर्बान्धवैर्वापि किं ते किं ते दारैर्ब्राह्मण यो मरिष्यसि । 038a
आत्मानमन्विच्छ गुहां प्रविष्टं पितामहास्ते क्व गताः पिता च ॥ 038c
भीष्म उवाच 039
पुत्रस्यैतद्वचः श्रुत्वा यथाऽकार्षीत्पिता नृप । 039a
तथा त्वमपि वर्तस्व सत्यधर्मपरायणः ॥ 039c
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि चतुःसप्तत्यधिकशततमोऽध्यायः ॥ 174 ॥
12-174-4 मोक्षधर्माणामर्थेषु कुशलः ॥ 12-174-5 यथार्थयोगं फलसम्बन्धमनतिक्रम्य तात कुर्याच्छुभार्थी इति ड. थ. पाठः । तात कुर्यात्प्रजासु इति ट. पाठः ॥ 12-174-7 अमोधास्वायुर्हरणेन सफलासु रात्रिषु ॥ 12-174-11 वन्ध्यं निष्फलम् ॥ 12-174-12 यदा मृत्युरभ्येति तदा कः सुखं विन्देतेति सम्बन्धः ॥ 12-174-13 पुष्पाणि काम्यकर्मफलानि मेषीणामार्तवानि वा । आर्तवं विना पशूनां स्त्रीसङ्गे प्रवृत्त्यदर्शनात् । विचिन्वन्तं शास्त्रदृष्ट्या आघ्राणेन च । उरणं मेषम् ॥ 12-174-17 एषां पुत्रादीनाम् ॥ 12-174-19 सञ्चिन्वानकं कुत्सितं सञ्चिन्वानं सङ्ग्रहीतारम् ॥ 12-174-20 कार्यं कर्तुमिष्टम् । कृताकृतमर्धकृतम् ॥ ईहा तृष्णा ॥ 12-174-21 कर्मसञ्ज्ञितं वणिगित्यादि कर्मानुरूपसञ्ज्ञावन्तम् ॥ 12-174-24 द्वयेनान्तकजराख्येन ॥ 12-174-25 ग्रामे ख्यादिसङ्घे रतिरासक्तिरेव मृत्योर्मुखं न तु वासमात्रम् । गोष्ठमिव गोष्ठं वासस्थानाम् । अरण्यं विविक्तदेशः । गृहं त्यक्त्वैकान्ते ध्यानपरो भवेदित्यर्थः ॥ 12-174-26 यान्ति मुक्तिमिति शेषः ॥ 12-174-27 न हिंसयति हिंसां न कारयति न करोति चेत्यर्थः । हेतुः श्राद्धादिनिमित्तं तैः जीवितमर्थांश्चापनयन्ति तैर्हिंस्रस्तेनादिभिः ॥ 12-174-28 मृत्युसेनां जराव्याधिरूपां सत्ये ब्रह्मज्ञाने अमृतं कैवल्यम् ॥ 12-174-29 सत्यव्रताचारः सत्यं ब्रह्मज्ञाने तदर्थं व्रतं वेदान्तश्रवणादि तदाचारस्तदनुष्ठाता । सत्ययोगपरायणः ब्रह्मध्यानपरायणः । सत्यः प्रमाणभूत आगमो गुरुवेदवाक्यं यस्य स सत्यागमः श्रद्धावान् ॥ 12-174-32 शान्तियज्ञ इन्द्रियनिग्रहः । ब्रह्मयज्ञो नित्यमुपनिषदर्थचिन्तनम् । वाग्यज्ञः जपः । मनोयज्ञः ध्यानम् । कर्मयज्ञः स्नानशौचगुरुशुश्रूषाद्यावश्यकधर्मानुष्ठानम् । उदगायने देवयानपथनिमित्तम् । दैर्घ्यमार्षम् ॥ 12-174-33 अन्तवद्भिरनित्यफलैः । क्षेत्रयज्ञैः शरीरनाशनैः ॥ 12-174-36 आत्मनि परमात्मनि प्रलये स्थित इति शेषः । आत्मना सृष्टिकाले जातः ॥ 12-174-37 एकता एकप्रकारता शीलं श्लाघनीयं वृत्तम् । दण्डनिधानं वाङ्मनःकायौर्हिंसात्यागः ॥