अध्यायः 172

विरूपाक्षभटैर्बकशरीरस्य चितारोपणम् ॥ 1 ॥ वाय्वानीतधेनुमुखस्रुतफेनपातेन चितास्थबकोज्जीवनम् ॥ 2 ॥ ततो बकप्रार्थनया इन्द्रेण पुनरुज्जीवितस्य गौतमस्य स्वग्रामगमनम् ॥ 3 ॥ भीष्म उवाच 001
विद्वान्संस्कारयामास पार्थिवो राजधर्मणः । 001a
गन्धैर्बहुभिरव्यग्रो दाहयामास पूजितम् ॥ 001c
तस्य देवस्य वचनादिन्द्रस्य बकराडिह । 002a
तेनैवामृतसिक्ताश्च पुनः सञ्जीवितो बकः ॥ 002c
राजधर्माऽपि तं प्राह सहस्राक्षमरिन्दमम् । 003a
गौतमो ब्राह्मणः क्वाऽसौ मुच्यतां मत्प्रियः सखा ॥ 003c
भीष्म उवाच 004
तस्य वाक्यं समाज्ञाय कौशिकः सुरसत्तमः । 004a
गौतमं ह्यभ्यनुज्ञाप्य प्रीतोऽथ गमनोत्सुकः ॥ 004c
प्रतीतः स गतः सौम्यो राजधर्मा स्वमालयम् । 005a
नृशंसो गौतमो मुक्तो मित्रध्रुक्पुरुषाधमः ॥ 005c
सभाण्डोपस्करो यातः स तदा शबरालयम् । 006a
तत्रासौ शबरी देहे प्रसूतो निरयोपमे ॥ 006c
एष शापो महांस्तत्र मुक्तः सुरगणैस्तदा ॥ 007ac
दग्धे राक्षसराजेन खगराजे प्रतापिना । 008a
चितायाः पार्श्वतो दोग्ध्री सुरभिर्जीवयच्च तम् ॥ 008c
तस्या वक्त्राच्च्युतः फेनो दुग्धमात्रस्तदाऽनघ । 009a
समीरणाहृतो यातश्चितां तां राजधर्मणः ॥ 009c
देवराजस्ततः प्राप्तो विरूपाक्षपुरं तदा । 010a
विरूपाक्षोऽपि तं शक्रमयाचत पुनःपुनः । 010c
काश्यपस्य सुतो देव भ्राता मे जीवतामिति ॥ 010e
विरूपाक्षमुवाचेदमीश्वरः पाकशासनः । 011a
ब्रह्मणा व्याहृतो रोषाद्राजधर्मा कदाचन ॥ 011c
यस्मात्त्वं नागतो द्रष्टुं मम नित्यमिमां सभाम् । 012a
तस्माद्बको भवान्भावी धर्मशीलः परात्मवित् ॥ 012c
आगमिष्यति ते वासं कदाचित्पापकर्मकृत् । 013a
शबरावासगो विप्रः कृतघ्नो वृषलीपतिः ॥ 013c
यदा निहन्ता मोक्षस्ते तदा भावीत्युवाच तम् । 014a
तस्मादेष गतो लोकं ब्रह्मणः परमेष्ठिनः ॥ 014c
भीष्म उवाच 015
स चापि निरयं प्राप्तो दुष्कृतिः कुलपांसनः ॥ 015ac
एतच्छ्रुत्वा सभामध्ये तद्वाक्यं नारदेरितम् । 016a
मयाऽपि तव राजेन्द्र यथावदनुवर्णितम् ॥ 016c
ब्रह्मघ्ने च सुरापे च चोरे भ्रष्टव्रते तथा । 017a
निष्कृतिर्विहिता राजन्कृतघ्ने नास्ति निष्कृतिः ॥ 017c
कुतः कृतघ्नस्य यशः कुतः स्थानं कुतः सुखम् । 018a
अश्रद्धेयः कृतघ्नो हि कृतघ्ने नास्ति निष्कृतिः ॥ 018c
मित्रद्रोहो न कर्तव्यः पुरुषेण विशेषतः । 019a
मित्रध्रुङ्निरयं घोरं नरकं प्रतिपद्यते ॥ 019c
कृतज्ञमनसा भाव्यं मित्रभावेन चानघ । 020a
मित्रात्प्रभवते सर्वं मित्रं धन्यतरं स्मृतम् ॥ 020c
अर्थाद्वा मित्रलाभाद्वा मित्रलाभो विशिष्यते । 021a
सुलभा मित्रतोऽर्थास्तु मित्रेण यतितुं क्षमम् ॥ 021c
मित्रं चाभिमतं स्निग्धं फलं चापि सतां फलम् । 022a
सत्कारैः स्वजनोपेतः पूजयेत विचक्षणः ॥ 022c
परित्याज्यो बुधैः पापः कदर्यः कुलपांसनः । 023a
मित्रद्रोही कुलाङ्गारः पापकर्मा कुलाधमः ॥ 023c
एषा सज्जनसान्निध्ये प्रज्ञा प्रोक्ता मयाऽनघ । 024a
मित्रदुहि कृतघ्ने च किं भूयः श्रोतुमिच्छसि ॥ 024c
वैशम्पायन उवाच 025
एतच्छ्रुत्वा ततो वाक्यं भीष्मेणोक्तं महात्मना । 025a
युधिष्ठिरः प्रीतमना बभूव जनमेजय ॥ 025c

इति श्रीमन्महाभारते शान्तिपर्वणि आपद्धर्मपर्वणि द्विसप्तत्यधिकशततमोऽध्यायः ॥ 172 ॥