अध्यायः 171

गौतमेन रात्रौ सुप्तं बकं हत्वाऽग्नौ पक्वतन्मांसमुपगृह्य स्वग्रामम् प्रति प्रस्थानम् ॥ 1 ॥ परेद्युर्बकस्यानागमनेन तस्य विपदाशङ्किना विरूपाक्षेण तद्वृत्तान्तजिज्ञासया स्वपुत्रस्य नियोजनम् ॥ 2 ॥ पितृनियोगात्सपरिवारेण विरूपाक्षसुतेन गौतमहननम् ॥ 3 ॥ भीष्म उवाच 001
अथ तत्र महार्चिष्माननलो वातसारथिः । 001a
तस्याविदूरे रक्षार्थं खगेन्द्रेण कृतोऽभवत् ॥ 001c
स चापि पार्श्वे सुष्वाप विश्वस्तो बकराट् तदा । 002a
कृतघ्नस्तु स दुष्टात्मा तं जिघांसुरजागरीत् ॥ 002c
ततोऽलातेन दीप्तेन स सुप्तं निजघान तम् । 003a
निहत्य च मुदा युक्तः सोऽनुबन्धं न दृष्टवान् ॥ 003c
स तं विपक्षरोमाणं कृत्वाऽग्नावपचत्तदा । 004a
तं गृहीत्वा सुवर्णं च ययौ द्रुततरं द्विजः ॥ 004c
'ततो दाक्षायणीपुत्रं नागतं तं तु भारत । 005a
विरूपाक्षश्चिन्तयन्वै हृदयेन विदूयता ॥' 005c
ततोऽन्यस्मिन्गते चाह्नि विरूपाक्षोऽब्रवीत्सुतम् । 006a
न प्रेक्षे राजधर्माणमद्य पुत्र खगोत्तमम् || 006c
स पूर्वसन्ध्यां ब्रह्माणं वन्दितुं याति सर्वदा । 007a
मां चादृष्ट्वा कदाचित्स न गच्छति गृहं खगः ॥ 007c
द्विरात्रमुभयोः सन्ध्योर्नाभ्यगच्छन्ममालयम् । 008a
तस्मान्न शुद्ध्यते भावो मम स ज्ञायतां सुहृत् ॥ 008c
स्वाध्यायेन वियुक्तो हि ब्रह्मवर्चसवर्जितः । 009a
स गतस्तत्र मे शङ्का हन्यात्तं स द्विजाधमः ॥ 009c
दुराचारः स दुर्बुद्धिरिङ्गितैर्लक्षितो मया । 010a
निष्कृपो दारुणाकारो दुष्टो दस्युरिवाधमः । 010c
गौतमः स गतस्तत्र तेनोद्विग्नं मनो मम ॥ 010e
पुत्र शीघ्रमितो गत्वा राजधर्मनिवेशनम् । 011a
ज्ञायतां स विशुद्धात्मा यदि जीवति वा चिरम् ॥ 011c
स एवमुक्तस्त्वरितो रक्षोभिः सहितो ययौ । 012a

  • न्यग्रोधे राजधर्माणमपश्यन्निहतं ततः ॥ 012c
    रुदित्वा बहुशस्तस्मै विलप्य च स राक्षसः । 013a
    गतो रोषसमाविष्टो गौतमग्रहणाय वै ॥ 013c
    गृहीतो गौतमः पापो रक्षोभिः क्रोधमूर्च्छितैः । 014a
    राजधर्मशरीरस्य कङ्कालश्चाप्यथो धृतः ॥ 014c
    मनुव्रजं तु नगरं यातुधानास्ततो गताः । 015a
    क्रोधरक्तेक्षणा घोरा गौतमस्य वधे धृताः ॥ 015c
    पार्थिवस्वाग्रतो न्यस्तः कङ्कालो राजधर्मणः । 016a
    तं दृष्ट्वा विमना राजा सामात्यः सगणोऽभवत् ॥ 016c
    आर्तरावो महानासीद्गृहे तस्य महात्मनः । 017a
    समुत्थितः स्त्रीसङ्घस्य निहते काश्यपात्मजे ॥ 017c
    राजा चैवाब्रवीत्पुत्रं पापोऽयं वध्यतामिति ॥ 018ac
    राक्षसा ऊचुः 019
    अस्य मांसं वयं सर्वे खादिष्यामः समागताः । 019a
    पापकृत्पापकर्मा च पापात्मा पापमास्थितः । 019c
    हन्तव्य एव पापात्मा कृतघ्नो नात्र संशयः ॥ 019e
    विरूपाक्ष उवाच 020
    कृतघ्नं पापकर्माणं न भक्षयितुमुत्सहे । 020a
    दासेभ्यो दीयतामेष मित्रध्रुक्पुरुषाधमः ॥ 020c
    भीष्म उवाच 021
    दासाः सर्वे समाहूता यातुधानास्तथा परे । 021a
    नेच्छन्ति स्म कृतघ्नं तं खादितुं पुरुषोत्तम ॥ 021c
    शिरोभिश्चागता भूमिं महाराज ततो बलात् । 022a
    मानार्थं जातु निर्बन्धं किल्बिषं दातुमर्हसि ॥ 022c
    यातुधाना नृपेणोक्ताः पापकर्मा विशस्यताम् । 023a
    दह्यतां त्यज्यतां वाऽयं दर्शनादपनीयताम् ॥ 023c
    ततस्ते रुषिता दासाः शूलपट्टसपाणयः । 024a
    खण्डशो विकृतं हत्वा क्रव्याद्भ्यो ह्यददुस्तदा ॥ 024c
    क्रव्यादास्त्वपि राजेन्द्र नेच्छन्ति पिशिताशनाः । 025a
    मृतानपि हि क्रव्यादाः कृतघ्नान्नोपभुञ्जते ॥ 025c
    ब्रह्मस्वहरणे चोरे ब्रह्मघ्ने गुरुतल्पगे । 026a
    निष्कृतिर्विहिता सद्भिः कृतघ्ने नास्ति निष्कृतिः ॥ 026c
    मित्रद्रुहं कृतघ्नं च नृशंसं च नराधमम् । 027a
    क्रव्यादाः क्रिमयश्चैव नोपभुञ्जन्ति वै सदा ॥ 027c

इति श्रीमन्महाभारते शान्तिपर्वणि आपद्धर्मपर्वणि एकसप्तत्यधिकशततमोऽध्यायः ॥ 171 ॥

12-171-3 अनुबन्ध पापदोषम् ॥ 12-171-8 तद्व्रत इति पाठे हिंस्रधर्मा ॥

  • इत आरभ्य आद्विसप्तत्यधिकशततमाध्यायसमाप्ति विद्यमानानां श्लोकानां स्थाने अधोलिखितश्लोका झ. पाठे वर्तन्ते । तेच

01a न्यग्रोधं तत्र चापश्यत्कङ्कालं राजधर्मणः । 01c स रुदन्नगमत्पुत्रो राक्षसेन्द्रस्य धीमतः । 01e त्वरमाणः परं शक्त्या गौतमग्रहणाय वै ॥ 02ac ततो विदूरे जगृहुर्गौतमं राक्षसास्तदा ॥ 03a राजधमर्शरीरं च पक्षास्थिचरणोज्झितम् । 03c तमादायाथ रक्षांसि द्रुतं मेरुव्रजं ययुः ॥ 04a राज्ञश्च दर्शयामासुः शरीरं राजधर्मणः । 04c कृतघ्नं पुरुषं तं च गौतमं पापकारिणम् ॥ 05a रुरोद राजा तं दृष्ट्वा सामात्यः सपुरोहितः । 05c आर्तनादश्च सुमहानभूत्तस्य निवेशने । 05e सस्त्रीकुमारं च पुरं बभूवास्वस्थमानसम् ॥ 06a अथाब्रवीन्नृपः पुत्रं पापोऽयं वध्यतामिति । 06c अस्य मांसैरिमे सर्वे विहरन्तु यथेष्टतः ॥ 07a पापाचारः पापकर्मा पापात्मा पापसाधनः । 07c हन्तव्योऽयं मम मतिर्भवद्भिरिति राक्षसाः ॥ 08a इत्युक्ता राक्षसेन्द्रेण राक्षसा घोरविक्रमाः । 08c नैच्छन्त तं भक्षयितुं पापकर्माणमित्युत ॥ 09a दस्यूनां दीयतामेष साध्वद्य पुरुषाधमः । 09c इत्यूचुस्ते गहाराज राक्षसेन्द्रं निशाचराः ॥ 10a शिरोभिः प्रणताः सर्वे व्याहरन्राक्षसाधिपम् । 10c न दातुमर्हसि त्वं नो भक्षणायास्य किल्बिषम् ॥ 11a एवमस्त्विति तानाह राक्षसेन्द्रो निशाचरान् । 11c दस्यूनां दीयतामेष कृतघ्नोऽद्यैव राक्षसाः ॥ 12a इत्युक्ता राक्षसास्तेन शूलपट्टसपाणयः । 12c कृत्वा तं खण्डशः पापं दस्युभ्यः प्रददुस्तदा ॥ 13a दस्यवश्चापि नैच्छन्त तमत्तुं पापकारिणम् । 13c क्रव्यादा अपि राजेन्द्र कृतघ्नं नोपभुञ्जते ॥ 14a ब्रह्मघ्ने च सुरापे च चौरे भग्नव्रते तथा । 14c निष्कृतिर्विहिता राजन्कृतघ्ने नास्ति निष्कृतिः ॥ 15a मित्रदोही कृतघ्नश्च नृशंसश्च नराधमः । 15c क्रव्यादैः कृमिभिश्चैव न भुज्यन्ते हि तादृशाः ॥ 16 भीष्म उवाच 16a ततश्चितां बकपतेः कारयामास राक्षसः । 16c रत्नैर्गन्धैश्च बहुभिर्वस्त्रैश्च समलङ्कृताम् ॥ 17a ततः प्रज्वाल्य नृपतिर्बकराजं प्रतापवान् । 17c प्रेतकार्याणि विधिवद्राक्षसेन्द्रश्चकार ह ॥ 18a तस्मिन्काले च सुरभिर्देवी दाक्षायणी शुभा । 18c उपरिष्टात्ततस्तस्य सा बभूव पयस्विनी ॥ 19a तस्य वक्त्राच्च्युतः फेनः क्षीरमिश्रस्तदाऽनघ । 19c सोऽपतद्वै ततस्तस्यां चितायां राजधर्मणः ॥ 20a ततः सञ्जीवितस्तेन बकराजस्तदाऽनघ । 20c उत्पत्य च समीयाय विरूपाक्षं बकाधिपः ॥ 21a ततोऽभ्ययाद्देवराजो विरूपाक्षपुरं तदा । 21c प्राह चेदं विरूपाक्षं दिष्ट्या सञ्जीवितस्त्वया ॥ 22a श्रावयामास चेन्द्रस्तं विरूपाक्षं पुरातनम् । 22c यथा शापः पुरा दत्तो ब्रह्मणा राजधर्मणः ॥ 23a यदा बकवती राजन्ब्रह्माणं नोपसर्पति । 23c ततो रोषादिदं प्राह खगेन्द्राय पितामहः ॥ 24a यस्मान्मूढो मम सभां नागतोऽसौ बकाधमः । 24c तस्माद्वधं स दुष्टात्मा न चिरात्समवाप्स्यति ॥ 25a तदयं तस्य वचनान्निहतो गौतमेन वै । 25c तेनैवामृतसिक्तश्च पुनः सञ्जीवितो बकः ॥ 26a राजधर्मा बकः प्राह प्रणिपत्य पुरन्दरम् । 26c यदि तेऽनुग्रहकृता मयि बुद्धिः सुरेश्वर । 26e सखाऽयं मे सुदयितं गौतमं जीवयेत्युत ॥ 27a तस्य वाक्यं समादाय वासवः पुरुषर्षभ । 27c सिक्त्वाऽमृतेन तं विप्रं गौतमं जीवयत्तदा ॥ 28a सभाण्डोपस्कारं राजंस्तमासाद्य बकाधिपः । 28c सम्परिष्वज्य सुहृदं प्रीत्या परमया युतः ॥ 29a अथ तं पापकर्माणं राजधर्मा बकाधिपः । 29c विसर्जयित्वा सधनं प्रविवेश स्वमालयम् ॥ 30a यथोचितं च स बको ययौ ब्रह्मसदस्तथा । 30c ब्रह्मा चैनं महात्मानमातिथ्येनाभ्यपूजयत् ॥ 31a गौतमश्चापि सम्प्राप्य पुनस्तं शबरालयम् । 31c शूद्रायां जनयामास पुत्रान्दुष्कृतकारिणः ॥ 32a शापश्च सुमहांस्तस्य दत्तः सुरगणैस्तदा । 32c कुक्षौ पुनर्भ्वाः पापोऽयं जनयित्वा चिरात्सुतान् । 32e निरयं प्राप्स्यति महत्कृतघ्नोऽयमिति प्रभो ॥ 33a एतत्प्राह पुरा सर्वं नारदो मम भारत । 33c संस्मृत्य चापि सुमहदाख्यानं भरतर्षभ । 33e मयाऽपि भवते सर्वं यथावदनुवर्णितम् ॥ 34a कुतः कृतघ्नस्य यशः कुतः स्थानं कुतः सुखम् । 34c अश्रद्धेयः कृतघ्नो हि कृतघ्ने नास्ति निष्कृतिः ॥ 35a मित्रद्रोहो न कर्तव्यः पुरुषेण विशेषतः । 35c मित्रध्रुङ्नरकं घोरमनन्तं प्रतिपद्यते ॥ 36a कृतज्ञेन सदा भाव्यं मित्रकामेन चैव ह । 36c मित्राच्च लभते सर्वं मित्रात्पूजां लभेत च ॥ 37a मित्राद्भोगांश्च भुञ्जीत मित्रेणापत्सु मुच्यते । 37c सत्कारैरुत्तमैर्मित्रं पूजयेत विचक्षणः ॥ 38a परित्याज्यो बुधैः पापः कृतघ्नो निरपत्रपः । 38c मित्रद्रोही कुलाङ्गारः पापकर्मा नराधमः ॥ 39a एष धर्मभूतां श्रेष्ठ प्रोक्तः पापो मया तव । 39c मित्रद्रोही कृतघ्नो वै किं भूयः श्रोतुमिच्छसि ॥ 40 वैशम्पायन उवाच
40a एतच्छ्रुत्वा तदा वाक्यं भीष्मेणोक्तं महात्मना । 40c युधिष्ठिरः प्रीतमना बभूव जनमेजय ॥

12-02-171-01 कङ्कालमस्थि ॥