अध्यायः 170
गौतमेन स्वस्यानर्हत्वं जानतापि विरूपाक्षेण बकराजगौरवात्प्रदत्तं घनभारमुदूह्य सायम् पुनर्बकालयम् प्रत्यागमनम् ॥ 1 ॥ तत्र परेद्युः स्वभवनं जिगमिषुणा गौतमेन पाथेयार्थं रात्रौ बकवधनिर्धारणम् ॥ 2 ॥
भीष्म उवाच 001
ततः स विदितो राज्ञः प्रविश्य गृहमुत्तमम् । 001a
पूजितो राक्षसेन्द्रेण निषसादासनोत्तमे ॥ 001c
पृष्टश्च गोत्रचरणं स्वाध्यायं ब्रह्मचारिकम् । 002a
पृष्टो राज्ञा स नाज्ञासीद्गोत्रमात्रमथाब्रवीत् ॥ 002c
ब्रह्मवर्चसहीनस्य स्वाध्यायाद्विरतस्य च । 003a
गोत्रमात्रविदो राजा निवासं समपृच्छत ॥ 003c
राक्षस उवाच 004
क्व ते निवासः कल्याण किङ्गोत्रा ब्राह्मणी च ते । 004a
तत्त्वं ब्रूहि न भीः कार्या विश्रमस्व यथासुखम् ॥ 004c
गौतम उवाच 005
मध्यदेशप्रसूतोऽहं वासो मे शबरालये । 005a
शूद्री पुनर्भूर्भार्या मे सत्यमेतद्ब्रवीमि ते ॥ 005c
भीष्म उवाच 006
ततो राजा विममृशे कथं कार्यमिदं भवेत् । 006a
कथं वा सुकृतं मे स्यादिति बुद्ध्याऽन्वचिन्तयत् ॥ 006c
अयं वै जन्मना विप्रः सुहृत्तस्य महात्मनः । 007a
सम्प्रेषितश्च तेनायं काश्यपेन महात्मना ॥ 007c
तस्य प्रियं करिष्यामि स हि मामाश्रितः सदा । 008a
भ्राता मे बान्धवश्चासौ सखा चैव प्रियो मम ॥ 008c
कार्तिक्यामद्य भोक्तारः सहस्रं मे द्विजोत्तमाः । 009a
तत्रायमपि भोक्ता तु देयमस्मै च मे धनम् ॥ 009c
स चाद्य दिवसः पुण्यो ह्यतिथिश्चायमागतः । 010a
सङ्कल्पितं चैव धनं किं विचार्यमतः परम् ॥ 010c
ततः सहस्रं विप्राणां विदुषां समलङ्कृतम् । 011a
स्नातानामनुलिप्तानामहतक्षौमवाससाम् ॥ 011c
तानागतान्द्विजश्रेष्ठान्विरूपाक्षो विशाम्पते । 012a
यथार्हं प्रतिजग्राह विधिदृष्टेन कर्मणा ॥ 012c
बृस्यस्तेषां तु सन्न्यस्ता राक्षसेन्द्रस्य शासनात् । 013a
भूमौ वरकुशाः स्तीर्णाः प्रेष्यैर्भरतसत्तम ॥ 013c
तासु ते पूजिता राज्ञा निषण्णा द्विजसत्तमाः । 014a
तिलदर्भोदकेनाथ अर्चिता विधिवद्द्विजाः ॥ 014c
विश्वेदेवाः सपितरः साग्नयश्चोपकल्पिताः । 015a
विलिप्ताः पुष्पवन्तश्च सुप्रचाराः सुपूजिताः । 015c
व्यराजन्त महाराज नक्षत्रपतयो यथा ॥ 015e
ततो जाम्बूनदीः पात्रीर्वज्राङ्का विमलाः शुभाः । 016a
वरान्नपूर्णा विप्रेभ्यः प्रादान्मधुघृतप्लुताः ॥ 016c
तस्य नित्यं सदाषाढ्यां माघ्यां च बहवो द्विजाः । 017a
ईप्सितं भोजनवरं लभन्ते सत्कृतं तथा ॥ 017c
विशेषतस्तु कार्तिक्यां द्विजेभ्यः सम्प्रयच्छति । 018a
शरद्व्यपाये रत्नानि पौर्णमास्यामिति श्रुतिः ॥ 018c
सुवर्णं रजतं चैव मणीनथ च मौक्तिकान् । 019a
वज्रान्महाघनांश्चैव वैदूर्याजिनराङ्कवान् ॥ 019c
रत्नवन्ति च पात्राणि दक्षिणार्थं स भारत । 020a
दत्त्वा प्राह द्विजश्रेष्ठान्विरूपाक्षो महायशाः ॥ 020c
गृह्णीत रत्नान्येतानि यथोत्साहं यथेष्टतः । 021a
येषुयेषु च भाण्डेषु भुक्तवन्तो द्विजोत्तमाः । 021c
तान्येवादाय गच्छध्वं स्ववेश्मानीति भारत ॥ 021e
इत्युक्तवचने तस्मिन्राक्षसेन्द्रे महात्मनि । 022a
यथेष्टं तानि रत्नानि जगृहुर्ब्राह्मणर्षभाः ॥ 022c
ततो महार्हैस्तैस्तेन रत्नैरभ्यर्चिताः शुभैः । 023a
ब्राह्मणा मृष्टवसनाः सुप्रीताः समुदोऽभवन् ॥ 023c
ततस्तान्राक्षसेन्द्रस्तु द्विजानाह पुनर्वचः । 024a
नाना देशागतान्राजा ब्राह्मणाननुमन्य वै ॥ 024c
अद्यैकं दिवसं विप्रा न वोऽस्तीह भयं क्वचित् । 025a
राक्षसेभ्यः प्रमोदध्वमिष्टतो यात माचिरम् ॥ 025c
ततः प्रदुद्रुवुः सर्वे विप्रसङ्घाः समन्ततः । 026a
गौतमोऽपि सुवर्णस्य भारमादाय सत्वरः ॥ 026c
कृच्छ्रात्समुद्वहन्भारं न्यग्रोधं समुपागमत् । 027a
न्यषीदच्च परिश्रान्तः क्लान्तश्च क्षुधितश्च सः ॥ 027c
ततस्तमभ्यगाद्राजन्राजधर्मा खगोत्तमः । 028a
स्वागतेनाभ्यनन्दच्च गौतमं मित्रवत्सलः ॥ 028c
तस्य पक्षाग्रविक्षेपैः क्लमं व्यपनयद्बकः । 029a
पूजां चाप्यकरोद्धीमान्भोजनं च यथाविधि ॥ 029c
ततस्तौ संविदं कृत्वा खगेन्द्रद्विजसत्तमौ ॥ 030ac
गौतमश्चिन्तयामास रात्रौ तस्य समीपतः । 031a
हाटकस्याभिरूपस्य भारोऽयं सुमहान्मया ॥ 031c
गृहीतो लोभमोहाभ्यां दूरं च गमनं मम । 032a
न चास्ति पथि भोक्तव्यं प्राणसन्धारणं मम । 032c
किं कृत्वा सुकृतं हि स्यादिति चिन्तापरोऽभवत् ॥ 032e
ततः स पथि भोक्तव्यं प्रेक्षमाणो न किञ्चन । 033a
कृतघ्नः पुरुषव्याघ्र मनसेदमचिन्तयत् ॥ 033c
अयं बकपतिः पार्श्वे मांसराशिचितो महान् । 034a
इमं हत्वा गृहीत्वाऽस्य मांसं यास्य इति प्रभो ॥ 034c
इति श्रीमन्महाभारते शान्तिपर्वणि आपद्धर्मपर्वणि सप्तत्यधिकशततमोऽध्यायः ॥ 170 ॥
12-170-2 ब्रह्मधारणमिति ध. पाठः ॥ 12-170-15 विलिप्ताश्चन्दनेन ॥ 12-170-25 इष्टतः इष्टं देशम् ॥ 12-170-30 ततस्तौ संविदमित्यर्धं झ. पाठे नास्ति । तत्र गौतमश्चिन्तयामासेत्यस्य स्थाने स भुक्तवान्सुविश्रान्तो गौतमोऽचिन्तयत्तदा इत्यर्धं वर्तते ॥