अध्यायः 169
बकसत्कृतेन गौतमेन तच्चोदनया तत्सुहृदो विरूपाक्षनाम्नो राक्षसस्य नगरम् प्रति गमनम् ॥ 1 ॥
भीष्म उवाच 001
गिरं तां मधुरां श्रुत्वा गौतमो विस्मितस्तदा । 001a
कौतूहलान्वितो राजन्राजधर्माणमैक्षत ॥ 001c
राजधर्मोवाच 002
भोः काश्यपस्य पुत्रोऽहं माता दाक्षायणी मम । 002a
सती त्वं च गुणोपेतः स्वागतं ते द्विजोत्तम ॥ 002c
भीष्म उवाच 003
तस्मै दत्त्वा स सत्कारं विधिदृष्टेन कर्मणा । 003a
शालपुष्पमयीं दिव्यां बृसीं समुपकल्पयत् ॥ 003c
भगीरथरथाक्रान्तदेशान्गङ्गानिषेवितान् । 004a
ये चरन्ति महामीनास्तांश्च तस्यान्वकल्पयत् ॥ 004c
वह्निं चापि सुसन्दीप्तं मीनांश्चापि सुपीवरान् । 005a
स गौतमायातिथये न्यवेदयत काश्यपिः ॥ 005c
भुक्तवन्तं च तं विप्रं प्रीतात्मानं महामनाः । 006a
श्रमापनयनार्थं स पक्षाभ्यामभ्यवीजयत् ॥ 006c
ततो विश्रान्तमासीनं गोत्रवृत्तमपृच्छत । 007a
सोऽब्रवीद्गौतमोऽस्मीति ब्राह्मणोस्मीत्युदाहरत् ॥ 007c
तस्मै पर्णमयं दिव्यं दिव्यपुष्पाधिवासितम् । 008a
गन्धाढ्यं शयनं प्रादात्स शिश्ये तत्र वै सुखम् ॥ 008c
अथोपविष्टं शयने गौतमं वाक्यवित्तमः । 009a
पप्रच्छ काश्यपिर्वाग्मी किमागमनमित्युत ॥ 009c
ततोऽब्रवीद्गौतमस्तं दरिद्रोऽहं महामते । 010a
समुद्रगमनाकाङ्क्षी द्रव्यार्थमिति भारत ॥ 010c
तं काश्यपोऽब्रवीत्प्रीत्या नोत्कण्ठां कर्तुमर्हसि । 011a
कृतकार्यो द्विजश्रेष्ठ सद्रव्यो यास्यसे गृहान् ॥ 011c
चतुर्विधा ह्यर्थगतिर्बृहस्पतिमतं यथा । 012a
मित्रं विद्या हिरण्यं च बुद्धिश्चेति बुधेप्सिता ॥ 012c
प्रादुर्भूतोऽस्मि ते मित्रं सुहृत्त्वं च महत्तरम् । 013a
सोऽहं तथा यतिष्यामि भविष्यसि यथार्थवान् ॥ 013c
ततः प्रभातसमये सुखं पृष्ट्वाऽब्रवीदिदम् । 014a
गच्छ सौम्य पथाऽनेन कृतकृत्यो भविष्यसि ॥ 014c
इतस्त्रियोजनं गत्वा राक्षसाधिपतिर्महान् । 015a
विरूपाक्ष इति ख्यातः सखा मम महाबलः ॥ 015c
तं गच्छ द्विजमुख्य त्वं स मद्वाक्यप्रचोदितः । 016a
कामानभीप्सितांस्तुभ्यं दाता नास्त्यत्र संशयः ॥ 016c
इत्युक्तः प्रययौ राजन्गौतमो विगतक्लमः । 017a
फलान्यमृतकल्पानि भक्षयानो यथेष्टतः ॥ 017c
चन्दनागुरुमुख्यानि पत्रत्वचवनानि च । 018a
तस्मिन्पथि महाराज सेवमानो द्रुतं ययौ ॥ 018c
ततो मनुव्रजं नाम नगरं शैलतोरणम् । 019a
शैलप्राकारवप्रं च शैलयन्त्रार्गलं तथा ॥ 019c
विदितश्चाभवत्तस्य राक्षसेन्द्रस्य धीमतः । 020a
प्रहितः सुहृदा राजन्प्रीयमाणः प्रियातिथिः ॥ 020c
ततः स राक्षसेन्द्रः स्वान्प्रेष्यानाह युधिष्ठिर । 021a
गौतमो नगरद्वाराच्छीघ्रमानीयतामिति ॥ 021c
तस्मात्पुरवरात्तूर्णं पुरुषाः श्वेतवेष्टनाः । 022a
गौतमेत्यभिभाषन्तः पुरद्वारमुपागमन् ॥ 022c
ते तमूचुर्महाराज राजप्रेष्यास्तदा द्विजम् । 023a
त्वरस्व तूर्णमागच्छ राजा त्वां द्रष्टुमिच्छति ॥ 023c
राक्षसाधिपतिर्वीरो विरूपाक्ष इति श्रुतः । 024a
स त्वां त्वरति वै द्रष्टुं तत्क्षिप्रं संविधीयताम् ॥ 024c
ततः स प्राद्रवद्विप्रो विस्मयाद्विगतक्लमः । 025a
गौतमः परमर्द्धिं तां पश्यन्परमविस्मितः ॥ 025c
तैरेव सहितो राज्ञो वेश्म तूर्णमुपाद्रवत् । 026a
दर्शनं राक्षसेन्द्रस्य काङ्क्षमाणो द्विजस्तदा ॥ 026c
इति श्रीमन्महाभारते शान्तिपर्वणि आपद्धर्मपर्वणि एकोनसप्तत्यधिकशततमोऽध्यायः ॥ 169 ॥
12-169-2 अतिथिस्त्वं गुणोपेत इति झ. पाठः ॥ 12-169-12 चतुर्विधाह्यर्थसिद्धिर्बृहस्पतिमतं यथा । पारम्पर्यं तथा दैवं काम्यं मैत्रमिति प्रभो । इति झ. पाठः ॥ 12-169-19 मरुव्रजं नामेति थ. पाठः । मरुद्व्रजं नामेति द. पाठः । मेरुव्रजं नामेति झ. पाठः ॥ 12-169-24 राक्षसाधिपतिः श्रीमान्राजधर्मेण प्रेषितः । यदर्थमिह मां द्रष्टुम् इति ट. ड. थ. पाठः ॥