अध्यायः 168

कदाचन धनार्जनाय प्रस्थितवता गौतमेन समुद्रम् प्रति गच्छता वणिक्सार्थेन सह गमनम् ॥ 1 ॥ वनगजोपद्रुतवणिक्सार्थपरिभ्रष्टेन गौतमेन किञ्चिन्नयग्रोधमूले विश्रान्त्यै प्रस्वापः ॥ 2 ॥ तत्र सायमागतेन राजधर्मनाम्ना बकराजेन तस्य सत्कारः ॥ 3 ॥ भीष्म उवाच 001
तस्यां निशायां व्युष्टायां गते तस्मिन्द्विजोत्तमे । 001a
निष्क्रम्य गौतमोऽगच्छद्धनार्थी विचचार ह ॥ 001c
सामुद्रिकान्सवणिजस्ततोऽपश्यत्स्थितान्पथि । 002a
स तेन सह सार्थेन प्रययौ सागरं प्रति ॥ 002c
स तु सार्थो महाराज कस्मिंश्चिद्गिरिगह्वरे । 003a
मत्तेन द्विरदेनाथ निहतः प्रायशोऽभवत् ॥ 003c
स कथञ्चिद्भयात्तस्माद्विमुक्तो ब्राह्मणस्तदा । 004a
कान्दिग्भूतो जीवितार्थी प्रदुद्रावोत्तरां दिशम् ॥ 004c
ततस्तु स परिभ्रष्टः सार्थाद्देशात्तथाऽर्थतः । 005a
एकाकी व्यभ्रमत्तत्र वने कापुरुषो यथा ॥ 005c
स पन्थानमथासाद्य समुद्राभिसरं तदा । 006a
आससाद वनं रम्यं महत्पुष्पितपादपम् ॥ 006c
सर्वर्तुकैराम्रवणैः पुष्पितैरुपशोभितम् । 007a
नन्दनोद्देशसदृशं यक्षकिन्नरसेवितम् ॥ 007c
सालतालधवाश्वत्थप्लक्षागुरुवनैस्तथा । 008a
चन्दनस्य च मुख्यस्य पादपैरुपशोभितम् । 008c
गिरिप्रस्थेषु रम्येषु सुखेषु सुखगन्धिषु ॥ 008e
समन्ततो द्विजश्रेष्ठा वल्गु कूजन्ति तत्र वै । 009a
मनुष्यवदनाश्चान्ये भारुण्डा इति विश्रुताः ॥ 009c
स तान्यतिमनोज्ञानि विहगानां रुतानि वै । 010a
शृण्वन्सुरमणीयानि विप्रोऽगच्छत गौतमः ॥ 010c
ततोऽपश्यत्सुरम्येषु सुवर्णसिकताचिते । 011a
देशभागे समे चित्रे स्वर्गोद्देशसमप्रभे । 011c
श्रिया जुष्टं ददर्शाथ न्यग्रोधं च सुमण्डलम् ॥ 011e
शाखाभिरनुरूपाभिः संवृतं छत्रसन्निभम् । 012a
तस्य मूलं च संसिक्तं वरचन्दनवारिणा ॥ 012c
दिव्यपुष्पान्वितं श्रीमत्पितामहसदोपमम् । 013a
तं दृष्ट्वा गौतमः प्रीतो मनःकान्तमनुत्तमम् ॥ 013c
मेध्यं सुरगृहप्रख्यं पुष्पितैः पादपैर्वृतम् । 014a
तमासाद्य मुदा युक्तस्तस्याधस्तादुपाविशत् ॥ 014c
तत्रासीनस्य कौन्तेय गौतमस्य नराधिप । 015a
पुष्पाणि समुपस्पृश्य प्रववावनिलः शुभः । 015c
ह्लादयंस्तस्य गात्राणि गौतमस्य तदा नृप ॥ 015e
स तु विप्रः परिश्रान्तः स्पृष्टः पुण्येन वायुना । 016a
सुखमासाद्य सुष्वाप भास्करश्चास्तमभ्ययात् ॥ 016c
ततोऽस्तं भास्करे याते सन्ध्याकाल उपस्थिते । 017a
आजगाम स्वभवनं ब्रह्मलोकात्खगोत्तमः ॥ 017c
नाडीजङ्घ इति ख्यातो दयितो ब्रह्मणः सखा । 018a
बकराजो महाप्राज्ञः काश्यपस्यात्मसम्भवः ॥ 018c
राजधर्मेति विख्यातो बभूवाप्रतिमो भुवि । 019a
देवकन्यासुतः श्रीमान्विद्वान्देवसमप्रभः ॥ 019c
मृष्टहाटकसञ्छन्नो भूषणैरर्कसन्निभैः । 020a
भूषितः सर्वगात्रेषु देवगर्भः श्रिया ज्वलन् ॥ 020c
तमागतं खगं दृष्ट्वा गौतमो विस्मितोऽभवत् । 021a
क्षुत्पिपासापरीतात्मा हिंसार्थं चैनमैक्षत ॥ 021c
राजधर्मोवाच 022
स्वागतं भवतो विप्र दिष्ट्या प्राप्तोऽसि मे गृहान् । 022a
अस्तं च सविता यातः सन्ध्येयं समुपस्थिता ॥ 022c
मम त्वं निलयं प्राप्तः प्रियातिथिरनिन्दितः । 023a
पूजितो यास्यसि प्रातर्विधिदृष्टेन कर्मणा ॥ 023c

इति श्रीमन्महाभारते शान्तिपर्वणि आपद्धर्मपर्वणि अष्टषष्ट्यधिकशततमोऽध्यायः ॥ 168 ॥

12-168-2 सामुद्रिकान् समुद्रोपान्ते गतान् ॥ 12-168-4 कां दिशं प्रयामीत्याकुलः कान्दिग्भूतः ॥ 12-168-11 रम्येषु प्रदेशेषु मध्ये एकत्र ॥ 12-168-13 सभोपममिति झ. पाठः ॥