अध्यायः 167

भीष्मेण युधिष्ठिरम् प्रति कृतघ्नमित्रद्रोहिलक्षणकथनाय दृष्टान्ततया गौतमकथाकथनारम्भः ॥ 1 ॥ ब्राह्मणाधमेन केनचिद्गौतमकुलजेन धनार्जनाय दस्युग्रामप्रवेशः ॥ 2 ॥ तत्र केनचिद्दस्युवरेण भर्तृविरहितनारीसमर्पणादिना सत्कृतेन गौतमेन दस्युवृत्त्योपजीवनम् ॥ 3 ॥ युधिष्ठिर उवाच 001
विस्तरेणार्थसम्बन्धं श्रोतुमिच्छामि तत्त्वतः । 001a
मित्रद्रोही कृतघ्नश्च यः प्रोक्तस्तं च मे वद ॥ 001c
भीष्म उवाच 002
हन्त ते वर्तयिष्येऽहमितिहासं पुरातनम् । 002a
उदीच्यां दिशि यद्वृत्तं म्लेच्छेषु मनुजाधिप ॥ 002c
ब्राह्मणो मध्यदेशीयः कृष्णाङ्गो ब्रह्मवर्जितः । 003a
ग्रामं दस्युगणाकीर्णं प्राविशद्घनतृष्णया ॥ 003c
तत्र दस्युर्धनयुतः सर्ववर्णविशेषवित् । 004a
ब्रह्मण्यः सत्यसन्धश्च दाने च निरतोऽभवत् ॥ 004c
तस्य क्षयमुपागम्य ततो भिक्षामयाचत । 005a
प्रतिश्रयं च वासार्थं भिक्षां चैवाथ वार्षिकीम् ॥ 005c
प्रादात्तस्मै स विप्राय वस्त्रं च सदशं नवम् । 006a
नारीं चापि वयोपेतां भर्त्रा विरहितां तथा ॥ 006c
एतत्सम्प्राप्य हृष्टात्मा गौतमोऽथ द्विजस्तथा । 007a
तस्मिन्गृहवरे राजंस्तया रेमे स गौतमः ॥ 007c
कुटुम्बार्थं च दस्योश्च साहाय्यं चाप्यथाकरोत् । 008a
सोऽवसद्वर्षमेकं वै समृद्धे शबरालये ॥ 008c
बाणवेधे परं यत्नमकरोच्चैव गौतमः । 009a
चक्राङ्गान्स च नित्यं वै सर्वतो वनगोचरान् । 009c
जघान गौतमो राजन्यथा दस्युगणास्तथा ॥ 009e
हिंसापटुर्घृणाहीनः सदा प्राणिवधे रतः । 010a
गौतमः सन्निकर्षेण दस्युभिः समतामियात् ॥ 010c
तथा तु वसतस्तस्य दस्युग्रामे सुखं तदा । 011a
अगमन्बहवो मासा निघ्नतः पक्षिणो बहून् ॥ 011c
ततः कदाचिदपरो द्विजस्तं देशमागतः । 012a
जटाचीराजिनधरः स्वाध्यायनिरतः शुचिः ॥ 012c
विनीतो वेदशास्त्रेषु वेदान्तानां च पारगः । 013a
अदृश्यत ततस्तत्र सखा तस्यैव तु द्विजः । 013c
तं दस्युग्राममगमद्यत्रासौ गौतमोऽभवत् ॥ 013e
स तु विप्रगृहान्वेषी शूद्रान्नपरिवर्जकः । 014a
ग्रामे दस्युसमाकीर्णे व्यचरत्सर्वतो द्विजः ॥ 014c
ततः स गौतमगृहं प्रविवेश द्विजोत्तमः । 015a
गौतमश्चापि सम्प्राप्तस्तावन्योन्येन सङ्गतौ ॥ 015c
चक्राङ्गभारस्कन्धं तं धनुष्पाणिं धृतायुधम् । 016a
रुधिरेणावसिक्ताङ्गं गृहद्वारमुपागतम् ॥ 016c
तं दृष्ट्वा पुरुषादाभमपध्वस्तं क्षमागतम् । 017a
अभिज्ञाय द्विजो व्रीडन्निदं वाक्यमथाब्रवीत् ॥ 017c
किमिदं कुरुषे मोहाद्विप्रस्त्वं हि कुलोद्भवः । 018a
मध्यदेशपरिज्ञातो दस्युभावं गतः कथम् ॥ 018c
पूर्वान्स्मर द्विज ज्ञातीन्प्रख्यातान्वेदपारगान् । 019a
येषां वंशेऽभिजातस्त्वमीदृशः कुलपांसनः ॥ 019c
अवबुध्यात्मनाऽऽत्मानं सत्वं शीलं श्रुतं दमम् । 020a
अनुक्रोशं च संस्मृत्य त्यज वासमिमं द्विज ॥ 020c
स एवमुक्तः सुहृदा तेन तत्र हितैषिणा । 021a
प्रत्युवाच ततो राजन्विनिश्वस्य तदाऽऽर्तवत् ॥ 021c
निर्धनोऽस्मि द्विजश्रेष्ठ नापि वेदविदप्यहम् । 022a
वित्तार्थमिह सम्प्राप्तं विद्धि मां द्विजसत्तम ॥ 022c
त्वद्दर्शनात्तु विप्रेन्द्र कृतार्थोऽस्म्यद्य वै द्विज । 023a
अध्वानं सह यास्यावः श्वो वसस्वाद्य शर्वरीम् ॥ 023c
स तत्र न्यवसद्विप्रो घृणी किञ्चिदसंस्पृशन् । 024a
क्षुधितश्छन्द्यमानोऽपि भोजनं नाभ्यनन्दत ॥ 024c

इति श्रीमन्महाभारते शान्तिपर्वणि आपद्धर्मपर्वणि सप्तषष्ट्यधिकशततमोऽध्यायः ॥ 167 ॥

12-167-3 ब्रह्म वेदस्तदुक्तं कर्म च तद्विवर्जितः ग्रामं वृद्धियुतं वीक्ष्य प्राविशद्भैक्ष्यकाङ्क्षयेति झ. पाठः ॥ 12-167-5 क्षयं गृहम् ॥ 12-167-6 वयोपेतां युवतीम् । सन्धिरार्षः ॥ 12-167-9 चक्राङ्गान् हंसान् ॥