अध्यायः 166
भीष्मेण युधिष्ठिरम् प्रति सन्धेयासन्धेयपुरुषलक्षणकथनम् ॥ 1 ॥
युधिष्ठिर उवाच 001
पितामह महाप्राज्ञ कुरूणां प्रीतिवर्धन । 001a
प्रश्नं कञ्चित्प्रवक्ष्यामि तन्मे व्याख्यातुमर्हसि ॥ 001c
कीदृशा मानवाः सेव्याः कैः प्रीतिः परमा भवेत् । 002a
आयत्यां च तदात्वे च के क्षमास्तान्वदस्व मे ॥ 002c
न हि तत्र धनं स्फीतं न च सम्बन्धिबान्धवाः । 003a
तिष्ठन्ति यत्र सुहृदस्तिष्ठन्तीति मतिर्मम ॥ 003c
दुर्लभो हि सुहृच्छ्रोता दुर्लभश्च हितः सुहृत् । 004a
एतद्धर्मभृतां श्रेष्ठ सर्वं व्याख्यातुमर्हसि ॥ 004c
भीष्म उवाच 005
सन्धेयान्पुरुषान्राजन्नसन्धेयांश्च तत्त्वतः । 005a
वदतो मे निबोध त्वं निखिलेन युधिष्ठिर ॥ 005c
लुब्धः क्रूरस्त्यक्तधर्मा निकृतिः शठ एव च । 006a
क्षुद्रः पापसमाचारः सर्वशङ्की तथाऽलसः ॥ 006c
दीर्घसूत्रोऽनृजुः क्रुष्टो गुरुदारप्रधर्षकः । 007a
व्यसने यः परित्यागी दुरात्मा निरपत्रपः ॥ 007c
सर्वतः पापदर्शी च नास्तिको वेदनिन्दकः । 008a
सम्प्रकीर्णेन्द्रियो लोके यः कालनिरतश्चरेत् ॥ 008c
असभ्यो लोकविद्विष्टः समये चानवस्थितः । 009a
पिशुनोऽथाकृतप्रज्ञो मत्सरी पापनिश्चयः ॥ 009c
दुःशीलोऽथाकृतात्मा च नृशंसः कितवस्तथा । 010a
मित्रैरपकृतिर्नित्यमटतेऽर्थं धनेप्सया ॥ 010c
ददतश्च यथाशक्ति यो न तुष्यति मन्दधीः । 011a
अधैर्यमपि यो युङ्क्ते सदा मित्रं नराधमः ॥ 011c
अस्थानक्रोधनो यश्च अकस्माच्च विरज्यते । 012a
सुहृदश्चैव कल्याणानाशु त्यजति किल्बिषी ॥ 012c
अल्पेऽप्यपकृते मूढे न संस्मरति यत्कृतम् । 013a
कार्यसेवी च मित्रेषु मित्रद्वेषी नराधिप । 013c
शत्रुर्मित्रमुखो यश्च जिह्मप्रेक्षी विलोचनः । 014a
न तुष्यति च कल्याणे यस्त्यजेत्तादृशं नरम् ॥ 014c
पानपो द्वेषणः क्रोधी निर्घृणः परुषस्तथा । 015a
परोपतापी मित्रध्रुक् तथा प्राणिवधे रतः ॥ 015c
कृतघ्नश्चाधमो लोके न सन्धेयः कथञ्चन । 016a
मित्रद्वेषी ह्यसन्धेयः सन्धेयानपि मे शृणु ॥ 016c
कुलीना वाक्यसम्पन्ना ज्ञानविज्ञानकोविदाः । 017a
रूपवन्तो गुणोपेतास्तथाऽलुब्धा जितश्रमाः ॥ 017c
सन्मित्राश्च कृतज्ञाश्च सर्वज्ञा लोभवर्जिताः । 018a
माधुर्यगुणसम्पन्नाः सत्यसन्धा जितेन्द्रियाः ॥ 018c
व्यायामशीलाः सततं भृत्यपुत्राः कुलोद्वहाः । 019a
दोषैः प्रमुक्ताः प्रथितास्ते ग्राह्याः पार्थिवैर्नराः ॥ 019c
यथाशक्ति समाचाराः सम्प्रतुष्यन्ति हि प्रभो । 020a
नास्थाने क्रोधवन्तश्च न चाकस्माद्विरागिणः ॥ 020c
विरक्ताश्च न दुष्यन्ति मनसाऽप्यर्थकोविदाः । 021a
आत्मानं पीडयित्वाऽपि सुहृत्कार्यपरायणाः । 021c
विरज्यन्ति न मित्रेभ्यो वासो रक्तमिवाविकम् ॥ 021e
दोषांश्च लोभमोहादीनर्थेषु युवतीषु च । 022a
न दर्शयन्ति सुहृदो विश्वस्ता बन्धुवत्सलाः ॥ 022c
लोष्टकाञ्चनतुल्यार्थाः सुहृत्सु दृढबुद्धयः । 023a
ये चरन्त्यनभीमाना निसृष्टार्थविभूषणाः । 023c
सङ्गृह्णन्तः परिजनं स्वाम्यर्थपरमाः सदा ॥ 023e
ईदृशैः पुरुषश्रेष्ठैर्यः सन्धिं कुरुते नृपः । 024a
तस्य विस्तीर्यते राज्यं ज्योत्स्ना ग्रहपतेरिव ॥ 024c
सत्ववन्तो जितक्रोधा बलवन्तो रणे सदा । 025a
जन्मशीलगुणोपेताः सन्धेयाः पुरुषोत्तमाः || 025c
ये च दोषसमायुक्ता नराः प्रोक्ता मयाऽनघ । 026a
तेषामप्यधमा राजन्कृतघ्ना मित्रघातकाः । 026c
त्यक्तव्यास्तु दुराचाराः सर्वेषामिति निश्चयः ॥ 026e
इति श्रीमन्महाभारते शान्तिपर्वणि आपद्धर्मपर्वणि षट्षष्ट्यधिकशततमोऽध्यायः ॥ 166 ॥
12-166-3 मित्रस्यार्थादिभ्योऽन्तरङ्गत्वमाह नहीति ॥ 12-166-5 सन्धेयान् मित्रीकर्तुं योग्यान् ॥ 12-166-7 क्रुष्टो लोकनिन्दितः ॥ 12-166-10 नित्यमिच्छतेऽर्थं परस्य य इति झ. पाठः ॥ 12-166-12 कार्यार्थमेव सेवते नतु धर्मार्थमिति कार्यसेवी ॥ 12-166-14 विमोचनः विपरीतदृष्टिः ॥ 12-166-16 छिद्रान्वेषी ह्यसन्धेय इति झ. पाठः ॥ 12-166-21 वासो रक्तमिवाधिकं मेषकम्बलः ॥ 12-166-26 कृतम् उपकारं घ्नन्ति वाचाऽपलापेन वा ते कृतघ्नाः त एव उपकर्तुर्नाशकराः मित्रद्रुहः ।