अध्यायः 165

स्वस्वाभिमतार्थकथनाय चोदितैर्विदुरार्जुनभीमसेनैः क्रमेण धर्मार्थकामेषु अभिष्टुतेषु युधिष्ठिरेण मोक्षप्रशंसनम् ॥ 1 ॥ वैशम्पायन उवाच 001
इत्युक्तवति भीष्मे तु तूष्णीम्भूते युधिष्ठिरः । 001a
पप्रच्छावसथं गत्वा भ्रातॄन्विदुरपञ्चमान् ॥ 001c
धर्मे चार्थे च कामे च लोकवृत्तिः समाहिता । 002a
तेषां गरीयान्कतमो मध्यमः को लघुश्च कः ॥ 002c
कस्मिंश्चात्मा नियन्तव्यस्त्रिवर्गविजयाय वै । 003a
सम्पृष्टा नैष्ठिकं वाक्यं यथावद्वक्तुमर्हथ ॥ 003c
ततोऽर्थगतितत्त्वज्ञः प्रथमं प्रतिभानवान् । 004a
जगाद विदुरो वाक्यं धर्मशास्त्रमनुस्मरन् ॥ 004c
विदुर उवाच 005
बहुश्रुतं तपस्त्यागः श्रद्धा यज्ञक्रिया क्षमा । 005a
भावशुद्धिर्दया सत्यं संयमश्चात्मसम्पदः ॥ 005c
एतदेवाभिपद्यस्व मा ते भूच्चलितं मनः । 006a
एतन्मूलौ हि धर्मार्थावेतदेकपदं हितम् ॥ 006c
धर्मेणैवर्षयस्तीर्णा धर्मे लोकाः प्रतिष्ठिताः । 007a
धर्मेण देवा दिवि च धर्मे चार्थः समाहितः ॥ 007c
धर्मो राजन्गुणः श्रेष्ठो मध्यमो ह्यर्थ उच्यते । 008a
कामो यवीयानिति च प्रवदन्ति मनीषिणः ॥ 008c
तस्माद्धर्मप्रधानेन भवितव्यं यतात्मना । 009a
तथा च सर्वभूतेषु वर्तितव्यं यतात्मना ॥ 009c
वैशम्पायन उवाच 010
समाप्तवचने तस्मिन्भीमकर्मा धनञ्जयः । 010a
ततोऽर्थगतितत्त्वज्ञो जगौ वाक्यं प्रचोदितः ॥ 010c
कर्मभूमिरियं राजन्निह वार्ता प्रशस्यते । 011a
कृषिर्वाणिज्यगोरक्षं शिल्पानि विविधानि च ॥ 011c
अर्थ इत्येव सर्वेषां कर्मणामव्यतिक्रमः । 012a
निवृत्तेऽर्थे न वर्तेते धर्मकामाविति श्रुतिः ॥ 012c
विषहेतार्थवान्धर्ममाराधयितुमुत्तमम् । 013a
कामं च चरितुं शक्तो दुष्प्रापमकृतात्मभिः ॥ 013c
अर्थस्यावयवावेतौ धर्मकामाविति श्रुतिः । 014a
अर्थसिद्ध्या विनिर्वृत्तावुभावेतौ भविष्यतः ॥ 014c
तद्गतार्थं हि पुरुषं विशिष्टतरयोनयः । 015a
ब्रह्माणमिव भूतानि सततं पर्युपासते ॥ 015c
जटाजिनधरा दान्ताः पङ्कदिग्धा जितेन्द्रियाः । 016a
मुण्डा निस्तन्तवश्चापि वसन्त्यर्थार्थिनः पृथक् ॥ 016c
काषायवसनाश्चान्ये श्मश्रुला हि सुसंयताः । 017a
विद्वांसश्चैव शान्ताश्च मुक्ताः सर्वपरिग्रहैः ॥ 017c
'अर्थार्थिनः सन्ति नित्यं परितप्यन्ति कर्मभिः ।' 018a
अर्थार्थिनः सन्ति केचिदपरे स्वर्गकाङ्क्षिणः । 018c
कुलप्रत्यागमाश्चैके स्वंस्वं धर्ममनुष्ठिताः ॥ 018e
आस्तिका नास्तिकाश्चैव नियताः संयमे परे । 019a
अप्रज्ञानं तमोभूतं प्रज्ञानं तु प्रकाशिता ॥ 019c
भृत्यान्भोगैर्द्विषो दण्डैर्यो योजयति सोऽर्थवान् । 020a
एतन्मतिमतांश्रेष्ठ मतं मम यथातथम् । 020c
अनयोस्तु विबोध त्वं वचनं शक्रकण्वयोः ॥ 020e
वैशम्पायन उवाच 021
तथा धर्मार्थकुशलौ माद्रीपुत्रावनन्तरम् । 021a
नकुलः सहदेवश्च वाक्यमूचतुरुत्तमम् ॥ 021c
आसीनश्च शयानश्च विचरन्नपि वा स्थितः । 022a
अर्थयोगं दृढं कुर्याद्योगैरुच्चावचैरपि ॥ 022c
अस्मिंस्तु वै विनिर्वृत्ते दुर्लभे परमप्रिये । 023a
इह कामानवाप्नोति प्रत्यक्षं नात्र संशयः ॥ 023c
योऽर्थो धर्मेण संयुक्तो धर्मो यश्चार्थसंयुतः । 024a
मध्विवामृतसंसृष्टं तस्मादेतौ मताविह ॥ 024c
अनर्थस्य न कामोस्ति तथाऽर्थोऽधर्मिणः कुतः । 025a
तस्मादुद्विजलते लोको धर्मार्थाभ्यां बहिष्कृतात् ॥ 025c
तस्माद्धर्मप्रधानेन साध्योऽर्थः संयतात्मना । 026a
विश्वस्तेषु हि भूतेषु कल्पते सर्वमेव हि ॥ 026c
धर्मं समाचरेत्पूर्वं ततोऽर्थं धर्मसंयुतम् । 027a
ततः कामं चरेत्पश्चात्सिद्धार्थस्य हि तत्फलम् ॥ 027c
वैशम्पायन उवाच 028
विरेमतुस्तु तद्वाक्यमुक्त्वा तावश्विनोः सुतौ । 028a
भीमसेनस्ततो वाक्यमिदं वक्तुं प्रचक्रमे ॥ 028c
नाकामः कामयत्यर्थं नाकामो धर्ममिच्छति । 029a
नाकामः कामयानोऽस्ति तस्मात्कामो विशिष्यते ॥ 029c
कामेन युक्ता ऋषयस्तपस्येव समाहिताः । 030a
पलाशाः शाकमूलाशा वायुभक्षाः सुसंयताः ॥ 030c
वेदोपवेदेष्वपरे युक्ताः स्वाध्यायपारगाः । 031a
श्राद्धे यज्ञक्रियायां च तथा दानप्रतिग्रहे ॥ 031c
वणिजः कर्षका गोपाः कारवः शिल्पिनस्तथा । 032a
देशधर्मकृतश्चैव युक्ताः कामेन कर्मसु ॥ 032c
समुद्रं वा विशन्त्यन्ये नराः कामेन संयुताः । 033a
कामो हि विविधाकारः सर्वं कामेन सन्ततम् ॥ 033c
नास्ति नासीन्न भविता भूतं काममृते परम् । 034a
एतत्सारं महाराज धर्मार्थावत्र संश्रितौ ॥ 034c
नवनीतं यथा दध्नस्तथा कामोऽर्थधर्मतः । 035a
श्रेयस्तैलं न पिण्याको घृतं श्रेय उदश्वितः ॥ 035c
श्रेयः पुष्पफलं काष्ठात्कामो धर्मार्थयोर्वरः । 036a
पुष्पतो मध्विव परं कामात्सञ्जायते सुखम् । 036c
कामो धर्मार्थयोर्योनिः कामश्चाथ तदात्मकः ॥ 036e
[नाकामतो ब्राह्मणाः स्वन्नमर्थान्नाकामतो ददति ब्राह्मणेभ्यः । 037a
नाकामतो विविधा लोकचेष्टा तस्मात्कामः प्राक् त्रिवर्गस्य दृष्टः ॥] 037c
सुचारुवेषाभिरलङ्कृताभिर्मदोत्कटाभिः प्रियवादिनीभिः । 038a
रमस्व योषिद्भिरुपेत्य कामं कामो हि राजन्परमाभिरामः ॥ 038c
बुद्धिर्ममैषा परिखास्थितस्य माभूद्विचारस्तव धर्मपुत्र । 039a
स्यात्संहितं सद्भिरफल्गुसारं मसस्तवाक्यं परमानृशंसम् ॥ 039c
धर्मार्थकामाः सममेव सेव्या यो ह्येकभक्तः स नरो जघन्यः । 040a
द्वयोस्तु सक्तं प्रवदन्ति मध्यमं स उत्तमो योऽभिरतस्त्रिवर्गे ॥ 040c
प्राज्ञः सुहृच्चन्दनसारलिप्तो विचित्रमाल्याभरणैरुपेतः । 041a
ततो वचः सङ्ग्रहविस्तरेण प्रोक्त्वाऽथ वीरान्विरराम भीमः ॥ 041c
ततो मुहूर्तादथ धर्मराजो वाक्यानि तेषामनुचिन्त्य सम्यक् । 042a
उवाच वाचाऽवितथं स्मयन्वै बहुश्रुतो धर्मभृतां वरिष्ठः ॥ 042c
निःसंशयं निश्चितसर्वशास्त्राः सर्वे भवन्तो विदितप्रमाणाः । 043a
विज्ञातुकामस्य ममेह वाक्यमुक्तं यद्वो नैष्ठिकं तच्छ्रुतं मे । 043c
इहानुवंशं गदतो ममापि वाक्यं निबोधध्वमनन्यभावाः ॥ 043e
यो वै न पापे निरतो न पुण्ये नार्थे न धर्मे मनुजो न कामे । 044a
विमुक्तदोषः समफल्गुसारो विमुच्यते दुःखसुखात्स सिद्धः ॥ 044c
भूतानि जातीमरणान्वितानि जराविकारैश्च समन्वितानि । 045a
भूयश्च तैस्तैरुपसेवितानि मोक्षं प्रशंसन्ति न तं च विद्मः ॥ 045c
स्नेहेन बद्धस्य न सन्ति तानि चैवं स्वयम्भूर्भगवानुवाच । 046a
बोधाय निर्वाणपरा भवन्ति तस्मान्न कुर्यात्प्रियमप्रियं च ॥ 046c
एतच्च मुख्यं न तु कामकारो यथा नियुक्तोऽस्मि तथा करोमि । 047a
भूतानि सर्वाणि विधिर्नियुङ्क्ते विधिर्बलीयानिति वित्त सर्वे ॥ 047c
न कर्मणाऽप्नोत्यनवाप्यमर्थं यद्भावि तद्वै भवतीति विद्मः । 048a
त्रिवर्गहीनोऽपि हि विन्दतेऽर्थं तस्माददो लोकहिताय गुह्यम् ॥ 048c
वैशम्पायन उवाच 049
तदग्र्यबुद्धेर्वचनं मनोनुगं समस्तमाज्ञाय तथाहि हेतुमत् । 049a
तदा प्रणेदुश्च जहर्षिरे च ते कुरुप्रवीराय च चक्रिरेऽञ्जलिम् ॥ 049c
सुचारुवर्णाक्षरशब्दभूषितां मनोनुगां निर्गतवाक्यकण्टकाम् । 050a
निशम्य तां पार्थिवभाषितां गिरं पार्थस्य सर्वे प्रणता बभूवुः ॥ 050c
तथैव राजा प्रशशंस वीर्यवान्पुनश्च पप्रच्छ सरिद्वरासुतम् । 051a
धर्मार्थकामेषु विनिश्चयज्ञं ततः परं धर्ममहीनचेतसम् ॥ 051c

इति श्रीमन्महाभारते शान्तिपर्वणि आपद्धर्मपर्वणि पञ्चषष्ट्यधिकशततमोऽध्यायः ॥ 165 ॥

12-165-3 त्रिवर्गविजयाय कामक्रोधलोभानां जयाय ॥ 12-165-12 अव्यतिक्रमः मर्यादा ॥ 12-165-16 निस्तन्तवः नैष्ठिकब्रह्मचारिणः ॥ 12-165-17 श्मश्रुला ह्रीनिषेविण इति झ. पाठः ॥ 12-165-20 वचनं शुककण्वयोरिति ड. द. पाठः ॥ 12-165-25 अनर्थस्य अर्थहीस्य । अधर्मिणः धर्महीनस्य ॥ 12-165-27 अत्र धर्मार्थयोः समत्वेऽपि धर्मस्य पूर्वत्वाद्विदुरमतमेवैतदीषद्भेदेन दर्शितम् ॥ 12-165-35 उदश्वितः तक्रात् ॥ 12-165-37 अकामतः कामं विना । केवलार्थात्स्वन्नं मृष्ठान्नं नास्ति ॥ 12-165-39 परिखास्थितस्य परितः खाता परिखा । सर्वतो मूलशोध इत्यर्थः । तत्र स्थितस्य अनृशंसमनिष्टुरम् ॥ 12-165-40 तयोस्तु दाक्ष्यं प्रवदन्तीति झ. पाठः ॥ 12-165-43 नैष्ठिकं सिद्धान्तरूपम् । एतेन पूर्वे सर्वे पूर्वपक्षा एवेत्युक्तम् ॥ 12-165-48 अर्थं मोक्षम् । लोकहिताय मोक्षाय । त्रिवर्गहीनोऽपि गुह्यमर्थं रहस्यं ज्ञानं विन्दते लभते पूर्वोक्तोऽधिकारी ॥