अध्यायः 164
भीष्मेण नकुलप्रश्नात्खड्गोत्पत्तिकथनम् ॥ 1 ॥
वैशम्पायन उवाच 001
कथान्तरमथासाद्य खड्गयुद्धविशारदः । 001a
नकुलः शरतल्पस्थमिदमाह पितामहम् ॥ 001c
नकुल उवाच 002
धनुः प्रहरणं श्रेष्ठमितिवादः पितामह । 002a
मतस्तु मम धर्मज्ञः खड्ग एव सुसंशितः ॥ 002c
छिन्ने च कार्मुके राजन्प्रक्षीणेषु शरेषु च । 003a
खड्गेन शक्यते योद्धुमात्मानं परिरक्षितुम् ॥ 003c
शरासनधरांश्चैव गदाशक्तिधरांस्तदा । 004a
एकः खड्गधरो वीरः समर्थः प्रतिबाधितुम् ॥ 004c
अत्र मे संशयश्चैव कौतूहलमतीव च । 005a
किंस्वित्प्रहरणं श्रेष्ठं सर्वयुद्धेषु पार्थिव ॥ 005c
कथं चोत्पादितः खड्गः कस्मै चार्थाय केन वा । 006a
पूर्वाचार्यं च खड्गस्य प्रव्रवीहि पितामह ॥ 006c
वैशम्पायन उवाच 007
तस्य तद्वचनं श्रुत्वा माद्रीपुत्रस्य धीमतः । 007a
स्वरकौशलसंयुक्तं सूक्ष्मचित्रार्थवत्सुखम् ॥ 007c
ततस्तस्योत्तरं वाक्यं स्वरवर्णोपपादितम् । 008a
शिक्षया चोपपन्नाय द्रोणशिष्याय पृच्छते ॥ 008c
उवाच सर्वधर्मज्ञो धनुर्वेदस्य पारगः । 009a
शरतल्पगतो भीष्मो नकुलाय महात्मने ॥ 009c
भीष्म उवाच 010
तत्त्वं शृणुष्व माद्रेय यथैतत्परिपृच्छसि । 010a
प्रबोधितोऽस्मि भवता सानुमानिव पर्वतः ॥ 010c
सलिलैकार्णवं तात पुरा सर्वमभूदिदम् । 011a
अप्रज्ञातमनाकाशमनिर्देश्यमहीतलम् ॥ 011c
तमस्संवृतमस्पर्शमतिगम्भीरदर्शनम् । 012a
निःशब्दं चाप्रमेयं च तत्र जज्ञे पितामहः ॥ 012c
सोऽसृजद्वायुमग्निं च भास्करं चापि वीर्यवान् । 013a
आकाशममृजच्चोर्ध्वमधो भूमिं च नैर्ऋतिम् ॥ 013c
ततः सचन्द्रतारं च नक्षत्राणि ग्रहांस्तथा । 014a
संवत्सरानहोरात्रानृतूनथ लवान्क्षणान् || 014c
ततः शरीरं लोकस्थं स्थापयित्वा पितामहः । 015a
जनयामास भगवान्पुत्रानुत्तमतेजसः || 015c
मरीचिं भृगुमत्रिं च पुलस्त्यं पुलहं क्रतुम् । 016a
वसिष्ठाङ्गिरसौ चोभौ भरद्वाजं तथैव च ॥ 016c
प्रजापतिस्तथा दक्षः कन्याः षष्टिमजीजनत् । 017a
ताश्च ब्रह्मर्षीन्सर्वान्प्रजार्थं प्रतिपेदिरे ॥ 017c
ताभ्यो विश्वानि भूतानि देवाः पितृगणास्तथा । 018a
गन्धर्वाप्सरसश्चैव रक्षांसि विविधानि च ॥ 018c
पतत्रिमृगमीनाश्च गावश्चैव महोरगाः । 019a
नानाकृतिबलाश्चान्ये जलक्षितिविचारिणः ॥ 019c
उद्भिज्जाः स्वेदजाश्चैव साण्डजाश्च जरायुजाः । 020a
जज्ञे तात जगत्सर्वं तथा स्थावरजङ्गमम् ॥ 020c
अतः सर्गमिमं कृत्वा सर्वलोकपितामहः । 021a
शाश्वतं वेदपठितं धर्मं च जुजुषे पुनः ॥ 021c
तस्मिन्धर्मे स्थिता देवाः सहाचार्यपुरोहिताः । 022a
आदित्या वसवो रुद्राः ससाध्या मरुदश्विनः || 022c
भृग्वत्र्यङ्गिरसः सिद्धाः कश्यपश्च तपोधनाः । 023a
वसिष्ठगौतमागस्त्यास्तथा नारदपर्वतौ ॥ 023c
ऋषयो वालखिल्याश्च प्रभासाः सिकतास्तथा । 024a
घृताच्याः सोमवायव्या वैश्वानरमरीचिपाः ॥ 024c
करूषाश्चैव हंसाश्च ऋषयो वाऽग्नियोनयः । 025a
माषपप्रस्थाः पृश्नयश्च स्थिता ब्रह्मानुशासने ॥ 025c
दानवेन्द्रास्त्वतिक्रम्य तत्पितामहशासनम् । 026a
धर्मस्यापनयं चक्रुः क्रोधलोभसमन्विताः ॥ 026c
हिरण्यकशिपुश्चैव हिरण्याक्षो विरोचनः । 027a
शम्बरो विप्रचित्तिश्च प्रह्लादो नमुचिर्बलिः ॥ 027c
एते चान्ये च बहवः सगणा दैत्यदानवाः । 028a
धर्मसेतुमतिक्रम्य रेमिरेऽधर्मनिश्चयाः ॥ 028c
सर्वे तुल्याभिजातीया यथा देवास्तथा वयम् । 029a
इत्येवं हेतुमास्थाय स्पर्धमानाः सुरर्षिभिः ॥ 029c
न प्रियं नाप्यनुक्रोशं चक्रुर्भूतेषु भारत । 030a
त्रीनुपायानतिक्रम्य दण्डेन रुरुधुः प्रजाः ॥ 030c
न जग्मुः संविदं तैश्च दर्पादसुरसत्तमाः । 031a
अथ वै भगवान्ब्रह्मा सर्वलोकनमस्कृतः ॥ 031c
तदा हिमवतः पृष्ठे सुरम्ये पद्मतारके । 032a
शतयोजनविस्तारे मणिमुक्ताचयाचिते ॥ 032c
तस्मिन्गिरिवरे पुत्र पुष्पितद्रुमकानने । 033a
तस्थौ स विबुधश्रेष्ठो ब्रह्मा लोकार्थसिद्धये ॥ 033c
ततो वर्षसहस्रान्ते वितानमकरोत्प्रभुः । 034a
विधिना कल्पदृष्टेन यथोक्तेनोपपादितम् ॥ 034c
ऋषिभिर्यज्ञपटुभिर्यथावत्कर्मकर्तृभिः । 035a
मरुद्भिः परिसङ्कीर्णं दीप्यमानैश्च पावकैः ॥ 035c
काञ्चनैर्यज्ञभाण्डैश्च भ्राजिष्णुभिरलङ्कृतम् । 036a
वृतं देवगणैश्चैव प्रबभौ यज्ञमण्डलम् ॥ 036c
तथा ब्रह्मर्षिभिश्चैव सदस्यैरुपशोभितम् । 037a
अत्र घोरतमं वृत्तमृषीणां मे परिश्रुतम् ॥ 037c
चन्द्रमा विमलं व्योम यथाऽभ्युदिततारकम् । 038a
विदार्याग्निं तथा भूतमुत्थितं श्रूयते तदा ॥ 038c
नीलोत्पलसवर्णाभं तीक्ष्णदंष्ट्रं कृशोदरम् । 039a
प्रांशुमुद्धर्षणं चापि तथैव ह्यमितौजसम् ॥ 039c
अस्मिन्नुत्पद्यमाने च प्रचचाल वसुन्धरा । 040a
महोर्मिकलिलावर्तश्चुक्षुभे स महोदधिः ॥ 040c
पेतुश्चोल्का महोत्पाताः शाखाश्च मुमुचुर्द्रुमाः । 041a
अप्रसन्ना दिशः सर्वाः पवनश्चाशिवो ववौ । 041c
मुहुर्मुहुश्च भूतानि प्राव्यथन्त भयात्तथा ॥ 041e
ततः स तुमुलं दृष्ट्वा तद्भूतं समुपस्थितम् । 042a
महर्षिसुरगन्धर्वानुवाचेदं पितामहः ॥ 042c
मयैवं चिन्तितं भूतमसिर्नामैष वीर्यवान् । 043a
रक्षणार्थाय लोकस्य वधाय च सुरद्विषाम् ॥ 043c
ततस्तद्रूपमुत्सृज्य बभौ निस्त्रिंश एव सः । 044a
विमलस्तीक्ष्णधारश्च कालान्तक इवोद्यतः ॥ 044c
ततस्तं नीलकण्ठाय रुद्रायर्षभकेतवे । 045a
ब्रह्मा ददावसिं तीक्ष्णमधर्मप्रतिवारणम् ॥ 045c
ततः स भगवान्रुद्रो ब्रह्मर्षिगणपूजितः । 046a
प्रगृह्मासिममेयात्मा रूपमन्यच्चकार ह ॥ 046c
चतुर्बाहुः स्पृशन्मूर्ध्ना भूमिष्ठोऽपि दिशो दश । 047a
ऊर्ध्वदृष्टिर्महाबाहुर्मुखाज्ज्वालाः समुत्सृजन् ॥ 047c
विकुर्वन्बहुधा वर्णान्नीलपाण्डुरलोहितान् । 048a
बिभ्रत्कृष्णाजिनं वासो हेमप्रवरतारकम् ॥ 048c
नेत्रं चैकं ललाटस्थं भास्करप्रतिमं महत् । 049a
शुशुभाते सुविमले द्वे नेत्रे कृष्णपिङ्गले ॥ 049c
ततो देवो महादेवः शूलपाणिर्भगाक्षिहा । 050a
सम्प्रगृह्य तु निस्त्रिंशं कालाग्निसमवर्चसम् ॥ 050c
त्रिकूटं चर्म चोद्यम्य सविद्युतमिवाम्बुदम् । 051a
चचार विविधान्मार्गान्दानवान्तचिकीर्षया । 051c
विधुन्वन्नसिमाकाशे तथा युद्धचिकीर्षया ॥ 051e
तस्य नादं विनदतो महाहासं च मुञ्चतः । 052a
बभौ प्रतिभयं रूपं तदा रुद्रस्य भारत ॥ 052c
तद्रूपधारिणं रुद्रं रौद्रकर्मचिकीर्षया । 053a
निशाम्य दानवाः सर्वे हृष्टाः समभिदुद्रुवुः ॥ 053c
अश्मभिश्चाभ्यवर्षन्त प्रदीप्तैश्च तथोल्मुकैः । 054a
घोरैः प्रहरणैश्चान्यैः क्षुरधारैरयस्मयैः ॥ 054c
ततस्तु दानवानीकं सम्प्रणेतृकमप्युत । 055a
खड्गं दृष्ट्वा बलाधूतं प्रमुमोह चचाल च ॥ 055c
चित्रं शीघ्रपदत्वाच्च चरन्तमसिपाणिनम् । 056a
तमेकमसुराः सर्वे सहस्रमिति मेनिरे ॥ 056c
छिन्दन्भिन्दन्रुजन्कृन्तन्दारयन्प्रथमन्नपि । 057a
अचरद्वैरिसङ्घेषु दावाग्निरिव कक्षगः ॥ 057c
असिवेगप्रभग्नास्ते छिन्नबाहूरुवक्षसः । 058a
उत्तमाङ्गप्रकृत्ताश्च पेतुरुर्व्यां महाबलाः ॥ 058c
अपरे दानवा भग्नाः खड्गधारावपीडिताः । 059a
अन्योन्यमभिनर्दन्तो दिशः सम्प्रतिपेदिरे ॥ 059c
भूमिं केचित्प्रविविशुः पर्वतानपरे तथा । 060a
अपरे जग्मुराकासमपरेऽम्भः समाविशन् ॥ 060c
तस्मिन्महति संवृत्ते समरे भृशदारुणे । 061a
बभूव भूः प्रतिभया मांसशोणितकर्दमा ॥ 061c
दानवानां शरीरैश्च पतितैः शोणितोक्षितैः । 062a
समाकीर्णा महाबाहो शैलैरिव सकिंशुकैः ॥ 062c
'रुधिरेण परिक्लिन्ना प्रबभौ वसुधा तदा । 063a
रक्तार्द्रवसना श्यामा नारीव मदविह्वला ॥' 063c
स रुद्रो दानवान्हत्वा कृत्वा धर्मोत्तरं जगत् । 064a
रौद्रं रुपमथाक्षिप्य चक्रे रूपं शिवं शिवः ॥ 064c
ततो महर्षयः सर्वे सर्वे देवगणास्तथा । 065a
जयेनाद्भुतकल्पेन देवदेवमथास्तुवन् ॥ 065c
ततः स भगवान्रुद्रो दानवक्षतजोक्षितम् । 066a
असिं धर्मस्य गोप्तारं ददौ सत्कृत्य विष्णवे ॥ 066c
विष्णुर्मरीचये प्रादान्मरीचिर्भार्गवाय तम् । 067a
महर्षिभ्यो ददौ खड्गमृषयो वासवाय च ॥ 067c
महेन्द्रो लोकपालेभ्यो लोकपालास्तु पुत्रक । 068a
मनवे सूर्यपुत्राय ददुः खड्गं सुविस्तरम् ॥ 068c
ऊचुश्चैनं तथा वाक्यं मानुषाणां त्वमीश्वरः । 069a
असिना धर्मगर्भेण पालयस्व प्रजा इति ॥ 069c
धर्मसेतुमतिक्रान्ताः स्थूलसूक्ष्मार्थकारणात् । 070a
विभज्य दण्डं रक्ष्याः स्युर्धर्मतो न यदृच्छया ॥ 070c
दुर्वाचा निग्रहो दण्डो हिरण्यबहुलस्तथा । 071a
व्यङ्गता च शरीरस्य वधो नाल्पस्य कारणात् ॥ 071c
असेरेतानि रूपाणि दुर्वारादीनि निर्दिशेत् । 072a
असेरेवं प्रमाणानि परमाण्यभ्यतिक्रमात् ॥ 072c
अभिषिच्याथ पुत्रं स्वं प्रजानामधिपं ततः । 073a
मनुः प्रजानां रक्षार्थं क्षुपाय प्रददावसिम् ॥ 073c
क्षुपाज्जग्राह चेक्ष्वाकुरिक्ष्वाकोश्च पुरूरवाः । 074a
आयुश्च तस्माल्लोभे तं नहुषश्च ततो भुवि ॥ 074c
ययातिर्नहुषाच्चापि पूरुस्तस्माच्च लब्धवान् । 075a
आधूर्तश्च गयस्तस्मात्ततो भूमिशयो नृपः ॥ 075c
भरतश्चापि दौष्यन्तिर्लेभे भूमिशयादसिम् । 076a
तस्माल्लोभे च धर्मज्ञो राजन्नैलबिलस्तथा ॥ 076c
ततस्त्वैलबिलाल्लेभे धुन्धुमारो नरेश्वरः । 077a
धुन्धुमाराच्च काम्भोजो मुचुकुन्दस्ततोऽभजत् ॥ 077c
मुचुकुन्दान्मरुत्तश्च मरुत्तादपि रैवतः । 078a
रैवताद्युवनाश्वश्च युवनाश्वात्ततो रघुः ॥ 078c
इक्ष्वाकुवंशजस्तस्माद्धरिणाश्वः प्रतापवान् । 079a
हरिणाश्वादसिं लेभे शुनकः शुनकादपि ॥ 079c
उशीनरो वै धर्मात्मा तस्माद्भोजाः सयादवाः । 080a
यदुभ्यश्च शिबिर्लेभे शिबेश्चापि प्रतर्दनः ॥ 080c
प्रतर्दनादष्टकश्च रुशदश्वोऽष्टकादपि । 081a
रुशदश्वाद्भरद्वाजो द्रोणस्तस्मात्कृपस्ततः । 081c
ततस्त्वं भ्रातृभिः सार्धं परमासिमवाप्तवान् ॥ 081e
कृत्तिकास्तस्य नक्षत्रमसेरग्निश्च दैवतम् । 082a
रोहिण्यो गोत्रमस्याथ रुद्राश्च गुरुसत्तमाः ॥ 082c
असेरष्टौ हि नामानि रहस्यानि निबोध मे । 083a
पाण्डवेय सदा यानि कीर्तयल्ँलभते जयम् ॥ 083c
असिर्विशसनः खड्गस्तीक्ष्णचर्मा दुरासदः । 084a
श्रीगर्भो विजयश्चैव धर्मपालस्तथैव च ॥ 084c
अग्र्यः प्रहरणानां च खड्गो भुवि परिश्रुतः । 085a
महेश्वरप्रणीतश्च पुराणे निश्चयं गतः । 085c
'एतानि चैव नामानि पुराणे निश्चितानि वै ॥' 085e
पृथुस्तूत्पादयामास धनुराद्यमरिन्दमः । 086a
तेनेयं पृथिवी दुग्धा सस्यानि सुबहून्यपि । 086c
धर्मेण च यथापूर्वं वैन्येन परिरक्षिता ॥ 086e
तदेतदार्षं माद्रेय प्रमाणं कर्तुमर्हसि । 087a
असेश्च पूजा कर्तव्या सदा युद्धविशारदैः ॥ 087c
इत्येष प्रथमः कल्पो मया ते कथितः पुनः । 088a
एवमेवासिसर्गोऽयं यथावद्भरतर्षभ ॥ 088c
सर्वथा तमिह श्रुत्वा खड्गस्यागममुत्तमम् । 089a
लभते पुरुषः कीर्तिं प्रेत्य चानन्त्यमश्नुते ॥ 089c
इति श्रीमन्महाभारते शान्तिपर्वणि आपद्धर्मपर्वणि चतुःषष्ट्यधिकशततमोऽध्यायः ॥ 164 ॥
12-164-1 कथान्तरम् आपद्धर्माणां साङ्गानां समाप्तत्वात् कथाया अवसानम् असाद्य प्राप्य ॥ 12-164-10 धातुमानिव पर्वत इति झ. पाठः । तत्र धातुमान् गैरिकवान् रुधिरोक्षितत्वादित्यर्थः ॥ 12-164-19 प्लवङ्गाश्च महोरगा इति झ. पाठः ॥ 12-164-21 धर्मं प्रयुयुजे तत इति झ. पाठः ॥ 12-164-25 वानप्रस्था इति झ. पाठः ॥ 12-164-32 पद्मानीव तारका यत्र लग्नास्तस्मिन् पद्मतारके । अत्यन्तमुच्छ्रित इत्यर्थः ॥ 12-164-35 समिद्भिः परिकीर्णमिति झ. पाठः ॥ 12-164-38 विकीर्याग्निमिति झ. पाठः ॥ 12-164-51 त्रिकूटं त्रीणि कृटानि कपटानि पार्श्वयोरग्रे च तीक्ष्णधाररूपाणि परविदारकाणि यस्मिन् ॥ 12-164-72 दुर्वागादीनि निर्दिशेदिति ट. ड. पाठः ॥