अध्यायः 163
भीष्मेण युधिष्ठिरम् प्रति यज्ञाद्यर्थं सम्पादनीयद्रव्यविवेचनम् ॥ 1 ॥ तथा पापविशेषाणाम् प्रायश्चित्तविशेषकथनम् ॥ 2 ॥
भीष्म उवाच 001
कृतार्थी यक्ष्यमाणश्च सर्ववेदान्तगश्च यः । 001a
आचार्यपितृकायार्थं स्वाध्यायार्थमथापि च ॥ 001c
एते वै साधवो दृष्टा ब्राह्मणा धर्मभिक्षवः । 002a
निःस्वेभ्यो देयमेतेभ्यो दानं विद्या च भारत ॥ 002c
अन्यत्र दक्षिणादानं देयं भरतसत्तम । 003a
अन्येभ्योऽपि बहिर्वेदि न कृतान्नं विधीयते ॥ 003c
सर्वरत्नानि राजा हि यथार्हं प्रतिपादयेत् । 004a
ब्राह्मणायैव यज्ञाश्च सहान्नाः सहदक्षिणाः ॥ 004c
अन्येभ्यो विमलाचारा यजन्ते गुणतः सदा । 005a
यस्य त्रैवार्षिकं भक्तं पर्याप्तं भृत्यवृत्तये । 005c
अधिकं चापि विद्येत स सोमं पातुमर्हति ॥ 005e
यज्ञश्चेत्प्रतिरुद्धः स्यादंशेनैकेन यज्वनः । 006a
ब्राह्मणस्य विशेषेण धार्मिके सति राजनि ॥ 006c
यो वैश्यः स्याद्बहुपशुर्हीनक्रतुरसोमपः । 007a
कुटुम्बात्तस्य तद्वित्तं यज्ञार्थं पार्थिवो हरेत् ॥ 007c
आहरेद्द्रुह्यतः किञ्चित्कामं शूद्रस्य वेश्मनि । 008a
न हि वेश्मनि शूद्रस्य किञ्चिदस्ति परिग्रहः ॥ 008c
योऽनाहिताग्निः शतगुरयज्वा च सहस्रगुः । 009a
तयोरपि कुटुम्बाभ्यामाहरेदविचारयन् ॥ 009c
अदातृभ्यो हरेद्वित्तं विख्याप्य नृपतिः सदा । 010a
तथैवाचरतो धर्मो नृपतेः स्यादथाखिलः ॥ 010c
तथैव सप्तमे भक्ते भक्तानि षडनश्नतः । 011a
अश्वस्तनविभागेन हर्तव्यं हीनकर्मणः ॥ 011c
खलात्क्षेत्रात्तथागाराद्यतो वाऽप्युपपद्यते । 012a
आख्यातव्यं नृपस्यैतत्पृच्छतोऽपृच्छतोपि वा । 012c
न तस्मै धारयेद्दण्डं राजा धर्मेण धर्मवित् ॥ 012e
क्षत्रियस्य तु बालिश्याद्ब्राह्मणः क्लिश्यते क्षुधा । 013a
श्रुतशीले समाज्ञाय वृत्तिमस्य प्रकल्पयेत् ॥ 013c
अथैनं परिरक्षेत पिता पुत्रमिवौरसम् || 014ac
इष्टिं वैश्वानरीं नित्यं निर्वपेदब्दपर्यये । 015a
अविकल्पः पुरा धर्मो धर्मवादैस्तु केवलः ॥ 015c
विश्वैर्देवैश्च साध्यैश्च ब्राह्मणैश्च महर्षिभिः । 016a
आपत्सु मरणाद्भीतैर्लिङ्गः प्रतिनिधीकृतः ॥ 016c
प्रभुः प्रथमकल्पस्य योऽनुकल्पेन वर्तते । 017a
स नाप्नोति फलं तस्य प्रेत्य चेह च दुर्मतिः ॥ 017c
न ब्राह्मणो वेदयीत किञ्चिद्राजनि धर्मवित् । 018a
अविद्यावेदनाद्विद्यात्स्ववीर्यं वीर्यवत्तरम् । 018c
तस्माद्राज्ञः सदा तेजो दुःसहं ब्रह्मवादिनाम् ॥ 018e
मन्ता शास्ता विधाता च ब्राह्मणो देव उच्यते । 019a
तस्मिन्नाकुशलं ब्रूयान्न शुष्कामीरयेद्गिरम् ॥ 019c
क्षत्रियो बाहुवीर्येण तरेदापदमात्मनः । 020a
धनैर्वैश्यश्च शुद्रश्च मन्त्रैर्होमैश्च वै द्विजः ॥ 020c
नैव कन्या न युवतिर्नामन्त्रज्ञो न बालिशः । 021a
परिवेष्टाऽग्निहोत्रस्य भवेन्नासंस्कृतस्तथा ॥ 021c
नरके निपतन्त्येते जुह्वानाः सवनस्य तत् । 022a
तस्माद्वैतानकुशलो होता स्याद्वेदपारगः ॥ 022c
प्राजापत्यमदत्त्वा च अग्न्याधेयस्य दक्षिणाम् । 023a
अनाहिताग्निरिति स प्रोच्यते धर्मदर्शिभिः ॥ 023c
पुण्यान्यन्यानि कुर्वीत श्रद्दधानो जितेन्द्रियः । 024a
अनाप्तदक्षिणैर्यज्ञैर्न यजेत कथञ्चन ॥ 024c
प्रजाः पशूंश्च स्वर्गं च हन्ति यज्ञो ह्यदक्षिणः । 025a
इन्द्रियाणि यशः कीर्तिमायुश्चाप्यवकृन्तति ॥ 025c
उदक्यामासते ये च द्विजाः केचिदनग्नयः । 026a
कुलं चाश्रोत्रियं येषां सर्वे ते शूद्रकर्मिणः ॥ 026c
उदपानोदके ग्रामे ब्राह्मणो वृषलीपतिः । 027a
उषित्वा द्वादश समाः शूद्रकर्मैव गच्छति ॥ 027c
अभार्यां शयने बिभ्रच्छूद्रं वृद्धं च वै द्विजः । 028a
अब्राह्मणं मन्यमानस्तृणेष्वासीत पृष्ठतः । 028c
तथा संशुध्यते राजञ्शृणु चात्र वचो मम ॥ 028e
यदेकरात्रेण करोति पापं कृष्णं वर्णं ब्राह्मणः सेवमानः । 029a
स्थानासनाभ्यां विहरन्व्रती स त्रिभिर्वर्षैः शमयेदात्मपापम् ॥ 029c
न नर्मयुक्तमनृतं हिनस्ति न स्त्रीषु राजन्न विवाहकाले । 030a
प्राणात्यये सर्वधनापहारे पञ्चानृतान्याहुरपातकानि ॥ 030c
श्रद्दधानः शुभां विद्यां हीनादपि समाप्नुयात् । 031a
सुवर्णमपि चामेध्यादाददीताविचारयन् ॥ 031c
स्त्रीरत्नं दुष्कुलाच्चापि विषादप्यमृतं पिबेत् । 032a
अदूष्या हि स्त्रियो रत्नमाप इत्येव धर्मतः ॥ 032c
गोब्राह्मणहितार्थं च वर्णानां सङ्करेषु च । 033a
वैश्यो गृह्णीत शस्त्राणि परित्राणार्थमात्मनः ॥ 033c
सुरापो ब्रह्महा चैव गुरुतल्पगतस्तथा । 034a
अचिरेण महाराज पतितो वै भवत्युत ॥ 034c
सुवर्णहरणं स्तैन्यं विप्रस्वं चेति पातकम् । 035a
विहारो मद्यपानं च अगम्यागमनं तथा ॥ 035c
पतितैः सम्प्रयोगश्च ब्राह्मणीयोनितस्तथा । 036a
अनिर्देश्यानि मन्यन्ते प्राणान्तानीति धारणा ॥ 036c
संवत्सरेण पतति पतितेन सहाचरन् । 037a
याजनाध्यापनाद्दानान्न तु यानासनाशनात् ॥ 037c
एतानि हित्वातोऽन्यानि निर्देश्यानीति धारणा । 038a
निर्देश्यकेन विधिना कालेनाव्यसनी भवेत् ॥ 038c
अनुत्तीर्य न होतव्यं प्रेतकर्मण्युपाश्रिते । 039a
त्रिषु त्वेतेषु पूर्वेषु न कुर्वीत विचारणम् ॥ 039c
अमात्यान्वा गुरून्वापि जह्याद्धर्मेण धार्मिकः । 040a
प्रायश्चित्तान्यकुर्वाणा नैते कुर्वन्ति संविदम् ॥ 040c
अधर्मकारी धर्मेण तपसा हन्ति किल्बिषम् । 041a
ब्राह्मणायावगुर्येत स्पृष्टे गुरुतरं भवेत् ॥ 041c
अस्तेनं स्तेन इत्युक्त्वा द्विगुणं पापमाप्नुयात् । 042a
त्रिभागं ब्रह्महत्यायाः कन्यां प्राप्नोति दुष्यति । 042c
यस्तु दूषयिता तस्याः शेषं प्राप्नोति पाप्मनः ॥ 042e
ब्राह्मणानवगर्ह्येह स्पृष्ट्वा गुरुतरं भवेत् । 043a
वर्षाणां हि शतं पापः प्रतिष्ठां नाधिगच्छति ॥ 043c
सहस्रं चैव वर्षाणां निपत्य नरकं वसेत् । 044a
तस्मान्नैवावगुर्याद्धि नैव जातु निपातयेत् ॥ 044c
शोणितं यावतः पांसून्सङ्गृह्णीयाद्द्विजक्षतात् । 045a
तावतीः स समा राजन्नरके प्रतिपद्यते ॥ 045c
भ्रूणहाऽऽहवमध्ये तु शुध्यते शस्त्रपाततः । 046a
आत्मानं जुहुयादग्नौ समिद्धे तेन शुध्यते ॥ 046c
सुरापो वारुणीमुष्णां पीत्वा पापाद्विमुच्यते ॥ 047ac
तया स काये निर्दग्धे मृत्युं वा प्राप्य शुध्यति । 048a
लोकांश्च लभते विप्रो नान्यथा लभते हि सः ॥ 048c
गुरुतल्पमधिष्ठाय दुरात्मा पापचेतनः । 049a
शिलां ज्वलन्तीमासाद्य मृत्युना सोभिशुध्यति ॥ 049c
अथवा शिश्नवृषणावादायाञ्जलिना स्वयम् । 050a
नैर्ऋतीं दिशमास्थाय निपतेत्सत्वजिह्मगः ॥ 050c
ब्राह्मणार्थेऽपि वा प्राणान्सन्त्यजंस्तेन शुध्यति ॥ 051ac
अश्वमेधेन वाऽपीष्ट्वा अथवा गोसवेन वा । 052a
मरुत्सोमेन वा सम्यगिह प्रेत्य च पूज्यते ॥ 052c
तथैव द्वादशसमाः कापोतं धर्ममाचरेत् । 053a
एककालं चरेद्भैक्षं स्वकर्मोदाहरञ्जने ॥ 053c
एवं वा तपसा युक्तो ब्रह्महा सवनी भवेत् । 054a
एवं गर्भमविज्ञातमात्रेयीं वा निपातयेत् ॥ 054c
द्विगुणा ब्रह्महत्या वै आत्रेयीहिंसने भवेत् । 055a
सुरापी नियताहारो ब्रह्मचारी क्षपाचरः ॥ 055c
ऊर्ध्वं त्रिभ्योऽपि वर्षेभ्यो यजेताग्निष्टुता परम् । 056a
ऋषभैकसहस्रं वा गा दत्त्वा शौचमाप्नुयात् ॥ 056c
वैश्यं दत्त्वा तु वर्षे द्वे ऋषभैकशतं च गाः । 057a
शूद्रं हत्वाऽब्दमेवैकमृषभं च शतं च गाः ॥ 057c
श्ववराहखरान्हत्वा शौद्रमेव व्रतं चरेत् । 058a
मार्जारचाषमण्डूकान्काकं व्यालं च मूषिकम् ॥ 058c
उक्तः पशुवधे दोषो राजन्प्राणिनिपातनात् । 059a
'अनस्थिकेषु गोमूत्रं पानमेकं प्रचक्षते ।' 059c
प्रायश्चित्तान्यथान्यानि प्रवक्ष्याम्यनुपूर्वशः ॥ 059e
तल्पे वाऽन्यस्य चौर्ये च पृथक् संवत्सरं चरेत् । 060a
त्रीणि श्रोत्रियभार्यायां परदारे च द्वे स्मृते ॥ 060c
काले चतुर्थे भुञ्जानो ब्रह्मचारी व्रती भवेत् । 061a
स्थानासनाभ्यां विहरेत्त्रिरह्नाऽभ्युपयन्नपः ॥ 061c
'एवमेव चरन्राजंस्तस्मात्पापात्प्रमुच्यते । 062a
'एवमेव निराकर्ता यश्चाग्नीनपविध्यति ॥ 062c
त्यजत्यकारणे यश्च पितरं मातरं गुरुम् । 063a
पतितः स्यात्स कौरव्य यथा धर्मेषु निश्चयः ॥ 063c
ग्रासाच्छादनयानं च शयनं ह्यासनं तथा । 064a
'ब्रह्मचारी द्विजेभ्यश्च दत्त्वा पापात्प्रमुच्यते ॥' 064c
भार्यायां व्यभिचारिण्यां निरुद्धायां विशेषतः । 065a
यत्पुंसः परदारेषु तदेनां चारयेद्व्रतम् || 065c
श्रेयांसं शयने हित्वा पापीयांसं समृच्छति । 066a
श्वभिस्तमर्दयेद्राजा संस्थाने बहुविस्तरे ॥ 066c
पुमांसं बन्धयेत्पाशैः शयने तप्त आयसे । 067a
अप्यादधीत दारूणि तत्र दह्येत पापकृत् ॥ 067c
एष दण्डो महाराज स्त्रीणां भर्तृव्यतिक्रमे । 068a
संवत्सरोऽभिशस्तस्य दुष्टस्य द्विगुणो भवेत् ॥ 068c
द्वे तस्य त्रीणि वर्षाणि चत्वारि सहसेविनः । 069a
कुमारः पञ्चवर्षाणि चरेद्भैक्षं मुनिव्रतः ॥ 069c
परिवित्तिः परिवेत्ता या चैव परिविद्यते । 070a
पाणिग्राहस्त्वधर्मेण सर्वे ते पतिताः स्मृताः ॥ 070c
चरेयुः सर्व एवैते वीरहा यद्व्रतं चरेत् । 071a
चान्द्रायणं चरेन्मासं कृच्छ्रं वा पापशुद्धये ॥ 071c
परिवेत्ता प्रयच्छेत तां स्नुषां परिवित्तये । 072a
ज्येष्ठेन त्वभ्यनुज्ञातो यवीयानप्यनन्तरम् । 072c
एनसो मोक्षमाप्नोति तौ च सा चैव धर्मतः ॥ 072e
अमानुषीषु गोवर्जमनादिष्टं न दुष्यति । 073a
अधिष्ठातारमत्तारं पशूनां पुरुषं विदुः ॥ 073c
परिधायोर्ध्ववालं तु पात्रमादाय मृन्मयम् । 074a
चरेत्सप्तगृहान्भैक्षं स्वकर्म परिकीर्तयन् ॥ 074c
तथैव लब्धभोजी स्याद्द्वादशाहात्स शुध्यति । 075a
चरेत्संवत्सरं चापि तद्व्रतं येन कृन्तति ॥ 075c
भवेत्तु मानुषेष्वेवं प्रायश्चिमनुत्तमम् । 076a
दानं वा दानशक्तेषु सर्वमेतत्प्रकल्पयेत् ॥ 076c
अनास्तिकेषु गोमात्रं दानमेकं प्रचक्षते । 077a
श्ववराहमनुष्याणां कुक्कुटस्य खरस्य च ॥ 077c
मांसं मूत्रं पुरीषं च प्राश्य संस्कारमर्हति । 078a
ब्राह्मणस्तु सुरापस्य गन्धमादाय सोमपाः ॥ 078c
अपस्र्र्यहं पिबेदुष्णाः संयतात्मा जितेन्द्रियः । 079a
अपः पीत्वा तु स पुनर्वायुभक्षो भवेत्त्र्यहम् ॥ 079c
एवमेतत्समुद्दिष्टं प्रायश्चित्तनिषेवणम् । 080a
ब्राह्मणस्य विशेषेण यदज्ञानेन जायते ॥ 080c
इति श्रीमन्महाभारते शान्तिपर्वणि आपद्धर्मपर्वणि त्रिषष्ट्यधिकशततमोऽधअयायः ॥ 163 ॥
12-163-2 निःस्वो निर्धनः ॥ 12-163-3 अन्यत्र उक्तेभ्योऽन्यत्रापि ब्राह्मणेषु अन्येभ्योऽब्राह्मणेभ्यः कृतान्नं पक्वान्नं न विधीयते । तेभ्योऽप्यकृतान्नं देयमिति भावः ॥ 12-163-6 ब्राह्मणस्य यज्ञः एकेनांशेन स्त्र्याद्यङ्गनाशेन प्रतिरुद्धः स्यात्तर्हि तस्य वैश्यस्य तद्धनं पार्थिवो यज्ञार्थं हरेदिति द्वितीयेन सम्बन्धः । दोषेणैकेन यज्वन इति ध. पाठः ॥ 12-163-11 भक्तानि षडनश्नतः त्र्यहमुपोषितस्य ॥ 12-163-13 बालिश्यादित्यनेन क्षत्रियस्यैव स दोष इत्युक्तम् ॥ 12-163-21 परिवेष्टा आहुतिप्रक्षेप्ता । कन्यायुवत्योः स्मार्ताग्निहोमे स्वयं पत्न्यपि वा पुत्रः कुमार्यन्तेवासी वेत्याश्वलायनवचनादधिकृतयोरत्रापि प्रसक्तेर्निषेध उक्तः ॥ 12-163-26 आसते मिथुनीभवन्ति ॥ 12-163-27 उदपानः कूपस्तदेकोदके एककूपोपजीव्ये इत्यर्थः ॥ 12-163-28 अभार्यामपरिणीतां शयने बिभ्रद्ब्राह्मणस्तथा शूद्रं वृद्धं महानिति मन्यमानस्तथाऽब्राह्मणं क्षत्रियं वैश्यं वा वृद्धं मन्यमानस्तृणेषु यद्यासीतोपविष्टः स यथा संशुध्येत तथा तथा शृण्विति सार्धार्थः ॥ 12-163-29 विहरन् करोतीति सम्बन्धः ॥ 12-163-36 अनिर्देश्यानि बुद्धिपूर्वकानि चेदत्र प्रायश्चित्तं नास्तीत्यर्थः । किं तर्हि मरणान्तमेव प्रायश्चित्तमिति धारणानिश्चयः । ब्राह्मणीयोनितः । अब्राह्मणस्य ब्राह्मणीगमनादित्यर्थः ॥ 12-163-37 याजनादित्रयेण सद्यः पतति नतु यानादिना । तेन तु वर्षेण पततीत्यर्थः ॥ 12-163-38 एतानि पञ्चमहापापानि । अन्यानि तु निर्देश्यानि सप्रायश्चित्तानि । अव्यसनी पुनः पापरुचिर्न स्यात् ॥ 12-163-39 पूर्वेषु त्रिषु सुरापब्रह्मघ्नगुरुतल्पगेषु तेषु मृतेषु सपिण्डानामाशौचाभावात्तेषां प्रेतकर्मनिषेधाच्चेति भावः ॥ 12-163-43 अवगर्ह्य विनिन्द्य । स्पृष्ट्वाऽर्थचन्द्रादिनापनोद्य । गुरुतरं शेषादप्यधिकं पातकं तस्य फलम् ॥ 12-163-46 आहवमध्ये गोब्राह्मणरक्षार्थं सङ्ग्रामे शस्त्रेण हतश्चेद्ब्राह्महा शुध्यते ॥ 12-163-54 सवनीत्रिषवणस्रायी । आत्रेयीं प्राप्तगर्भां स्त्रियम् ॥ 12-163-60 पृथक् एकैकस्योपपातकस्य प्रायश्चित्तं संवत्सरं चरेत् ॥ 12-163-68 अभिशस्तस्य प्रायश्चित्तं सद्योऽकुर्वतः ॥ 12-163-69 तस्य पतितस्य सहसेविनः संसर्गिणः ॥ 12-163-72 परिवेत्ता कनिष्ठः परिवित्तये ज्येष्ठाय भार्यां स्नुषात्वेन प्रयच्छेत् । एतां स्वेनाभुक्तां तवैवेयं स्नुषेति मानपूर्वकं समर्पयेत् । तदा ज्येष्ठानुज्ञातो यवीयानन्तरं तां स्वीकुर्यात् । पाणिग्राहेण स्वदोषे क्षमापिते त्रयोऽपि पापान्मुच्यन्त इति सार्धश्लोकार्थः ॥ 12-163-73 अमानुषीषु पशुजातिषु ॥ 12-163-74 ऊर्ध्ववालं चमरीपुच्छं परिधाय रङ्गेऽव्रतरन् ब्राह्मण एवैतत्प्रायश्चित्तं कुर्यात् ॥ 12-163-75 येन परिधानेन हेतुभूतेन ऊर्ध्वंवालं यः कृन्तति छिनत्ति स उक्तं व्रतं संवत्सरं चरेत् ॥ 12-163-77 अनास्तिकेषु आस्तिकेषु ॥