अध्यायः 162

भीष्मेण युधिष्ठिरम् प्रति नृशंसलक्षणादिकथनम् ॥ 1 ॥ युधिष्ठिर उवाच 001
आनृशंस्यं विजानामि दर्शनेन सतां सदा । 001a
नृशंसान्न विजानामि तेषां कर्म च भारत ॥ 001c
कण्टकान्कूपमग्निं च वर्जयन्ति यथा नराः । 002a
तथा नृशंसकर्माणं वर्जयन्ति नरा नरम् ॥ 002c
नृशंसो दह्यते व्यक्तं प्रेत्य चेह च भारत । 003a
तस्मात्त्वं ब्रूहि कौरव्य तस्य धर्मविनिश्चयम् ॥ 003c
भीष्म उवाच 004
स्पृहाऽस्यान्तर्गता चैव विदितार्था च कर्मणाम् | 004a
आक्रोष्टा क्रुश्यते चैव बन्धिता बध्यते स च ॥ 004c
दत्तानुकीर्तिर्विषमः क्षुद्रो नैकृतिकः शठः । 005a
असम्भोगी च मानी च तथा सङ्गी विकत्थनः ॥ 005c
सर्वातिशङ्की पुरुषो बलीशः कृपणोऽथवा । 006a
वर्गप्रशंसीं सततमाश्रमद्वेषसङ्करी ॥ 006c
हिंसाविकारी सततमविशेषगुणागुणः । 007a
बह्वलीको मनस्वी च लुब्धोऽत्यर्थं नृशंसकृत् ॥ 007c
धर्मशीलं गुणोपेतं पाप इत्यवगच्छति । 008a
आत्मशीलोपमानेन न विश्वसिति कस्यचित् ॥ 008c
परेषां यत्र दोषः स्यात्तद्गुह्यं सम्प्रकाशयेत् । 009a
समानेष्वेव दोषेषु वृत्त्यर्थमुपघातयेत् ॥ 009c
तथोपकारिणं चैव मन्यते वञ्चितं परम् । 010a
दत्त्वाऽपि च धनं काले सन्तपत्युपकारिणे ॥ 010c
भक्ष्यं पेयमथालेह्यं यच्चान्यत्साधु भोजनम् । 011a
प्रेक्षमाणेषु योऽश्नीयान्नृशंसमिति तं वदेत् ॥ 011c
ब्राह्मणेभ्यः प्रदायाग्रं यः सुहृद्भिः सहाश्नुते । 012a
स प्रेत्य लभते स्वर्गमिह चानन्त्यमश्नुते ॥ 012c
एष ते भरतश्रेष्ठ नृशंसः परिकीर्तितः । 013a
सदा विवर्जनीयो हि पुरुषेण बुभूषता ॥ 013c

इति श्रीमन्महाभारते शान्तिपर्वणि आपद्धर्मपर्वणि द्विषष्ट्यधिकशततमोऽध्यायः ॥ 162 ॥

12-162-5 दत्तमनुकीर्तयतीति दत्तानुकीर्तिः स्वस्य वदान्यत्वप्रकाशकः । विषमः विद्वेषकर्ता । क्षुद्रो नीचकर्मकारी । नैकृतिकः स्नेहं प्रदर्श्य वञ्चकः । शठः सत्यपि सामर्थ्ये दारिद्र्यव्यञ्जकः ॥ 12-162-6 बलीशः काकइव वञ्चकदृष्टिः । आश्रमद्वेषः सङ्करश्चास्यास्तीति आश्रमद्वेषसङ्करी ॥ 12-162-8 आत्मशीलानुमानेनेति थ. पाठः ॥