अध्यायः 161

भीष्मेण युधिष्ठिरम् प्रति लोभादिनिरूपणम् ॥ 1 ॥ युधिष्ठिर उवाच 001
यतः प्रभवति क्रोधः कामो वा भरतर्षभ । 001a
शोकमोहौ विधित्सा च परासुत्वं तथा मदः ॥ 001c
लोभो मात्सर्यमीर्ष्या च कुत्साऽसूया कृपा भयम् । 002a
एतत्सर्वं महाप्राज्ञ याथातथ्येन मे वद ॥ 002c
भीष्म उवाच 003
त्रयोदशैतेऽतिबलाः शत्रवः प्राणिनां स्मृताः । 003a
उपासते महाराज समन्तात्पुरुषानिह ॥ 003c
एते प्रमत्तं पुरुषमप्रमत्तास्तुदन्ति च । 004a
वृका इव विलुम्पन्ति दृष्ट्वेव पुरुषेतरान् ॥ 004c
एभ्यः प्रवर्तते दुःखमेभ्यः पापं प्रवर्तते । 005a
इति मर्त्यो विजानीयात्सततं पुरुषर्षभ ॥ 005c
एतेषामुदयं स्थानं क्षयं च पृथिवीपते । 006a
हन्त ते कथयिष्यामि क्रोधस्योत्पत्तिमादितः । 006c
यथातत्त्वं क्षितिपते तन्मे निगदतः शृणु ॥ 006e
लोभात्क्रोधः प्रभवति परदोषैरुदीर्यते । 007a
क्षमया तिष्ठते राजन्क्षमया विनिवर्तते ॥ 007c
सङ्कल्पाज्जायते कामः सेव्यमानो विवर्धते । 008a
यदा प्राज्ञो विरमते तदा सद्यः प्रणश्यति ॥ 008c
[परासूया क्रोधलोभावन्तरा प्रतिमुच्यते । 009a
दयया सर्वभूतानां निर्वेदाद्विनिवर्तते ।] 009c
अवद्यदर्शनादेति तत्त्वज्ञानाच्च नश्यति ॥ 009e
अज्ञानप्रभवो मोहः पापाभ्यासात्प्रवर्तते । 010a
यदा प्राज्ञेषु रमते तदा सद्यः प्रणश्यति ॥ 010c
विरुद्धानीह शास्त्राणि ये पश्यन्ति कुरूद्वह । 011a
विधित्सा जायते तेषां तत्त्वज्ञानान्निवर्तते ॥ 011c
प्रीतेः शोकः प्रभवति वियोगात्तस्य देहिनः । 012a
यदा निरर्थकं वेत्ति तदा सद्यः प्रणश्यति ॥ 012c
परासुता क्रोधलोभादभ्यासाच्च प्रवर्तते । 013a
दयया सर्वभूतानां निर्वेदात्सा निवर्तते ॥ 013c
सत्यत्यागात्तु मात्सर्यमहितानां च सेवया । 014a
एतत्तु क्षीयते तात साधूनामुपसेवनात् ॥ 014c
कुलाञ्ज्ञानात्तथैश्वर्यान्मदो भवति देहिनाम् । 015a
एभिरेव तु विज्ञातैर्मदः सद्यः प्रणश्यति ॥ 015c
ईर्ष्या कामात्प्रभवति संहर्षाच्चैव जायते । 016a
इतरेषां तु सत्वानां प्रज्ञया सा प्रणश्यति ॥ 016c
विभ्रमाल्लोकबाह्यानां द्वेष्यैर्वाक्यैरसम्मतैः । 017a
कुत्सा सञ्जायते राजल्ँलोकान्प्रेक्ष्याभिशाम्यति ॥ 017c
प्रतिकर्तुं न शक्ता ये बलस्थायापकारिणे । 018a
असूया जायते तीव्रा कारुण्याद्विनिवर्तते ॥ 018c
कृपणान्सततं दृष्ट्वा ततः सञ्जायते कृपा । 019a
धर्मनिष्ठां यदा वेत्ति तदा शाम्यति सा कृपा ॥ 019c
अज्ञानप्रभवो लोभो भूतानां दृश्यते सदा । 020a
अस्थिरत्वं च भोगानां दृष्ट्वा ज्ञात्वा निवर्तते ॥ 020c
एतान्येव जितान्याहुः प्रशान्तेन त्रयोदश । 021a
एते हि धार्तराष्ट्राणां सर्वे दोषास्त्रयोदश । 021c
त्वया सत्यार्थिना नित्यं विजिता जेष्यता च ते ॥ 021e

इति श्रीमन्महाभारते शान्तिपर्वणि आपद्धर्मपर्वणि एकषष्ट्यधिकशततमोऽध्यायः ॥ 161 ॥

12-161-4 दृष्ट्वेव पुरुषं बलादिति झ. पाठः ॥ 12-161-7 लोभात् केनचिन्निमित्तेनोपहतात् क्रोधो भवति । स च परदोषैर्दृष्टैरुदीर्यते उद्दीप्तो भवति । स क्षमया तिष्ठते निरुध्यते विनिवर्तते चेति । एवं सर्वत्र द्रष्टव्यम् ॥