अध्यायः 160
भीष्मेण सत्यप्रशंसनम् ॥ 1 ॥
युधिष्ठिर उवाच 001
सत्यं धर्मं प्रशंसन्ति विप्रर्षिपितृदेवताः । 001a
सत्यमिच्छाम्यहं ज्ञातुं तन्मे ब्रूहि पितामह ॥ 001c
सत्यं किंलक्षणं राजन्कथं वा तदवाप्यते । 002a
सत्यं प्राप्य भवेत्किञ्च कथं चैव तदुच्यताम् ॥ 002c
भीष्म उवाच 003
चातुर्वर्ण्यस्य धर्माणां सङ्करो न प्रशस्यते । 003a
धर्मः साधारणः सत्यं सर्ववर्णेषु भारत ॥ 003c
सत्यं सत्सु सदा धर्मः सत्यं धर्मः सनातनः । 004a
सत्यमेव नमस्येत सत्यं हि परमा गतिः ॥ 004c
सत्यं धर्मस्तपोयोगः सत्यं ब्रह्म सनातनम् । 005a
सत्यं यज्ञः परः प्रोक्तः सर्वं सत्ये प्रतिष्ठितम् ॥ 005c
रूपं यदिह सत्यस्य यथावदनुपूर्वशः । 006a
लक्षणं च प्रवक्ष्यामि सत्यस्येह पराक्रमम् ॥ 006c
प्राप्यते च यथा सत्यं तच्च वेत्तुमिहार्हसि । 007a
सत्यं त्रयोदशविधं सर्वलोकेषु भारत ॥ 007c
सत्यं च समता चैव दमश्चैव न संशयः । 008a
अमात्सर्यं क्षमा चैव ह्रीस्तितिक्षाऽनसूयता ॥ 008c
त्यागो ध्यानमथार्यत्वं धृतिश्च सततं दया । 009a
अहिंसा चैव राजेन्द्र सत्याकारास्त्रयोदश ॥ 009c
सत्यं नामाव्ययं नित्यमविकारि तथैव च । 010a
सर्वधर्माविरुद्धं च योगेनैतदवाप्यते ॥ 010c
आत्मनीष्टे तथाऽनिष्टे रिपौ च समता तथा । 011a
इच्छाद्वेषं क्षयं प्राप्य कामक्रोधक्षयं तथा ॥ 011c
दमी नान्यस्पृहा नित्यं गाम्भीर्यं धैर्यमेव च । 012a
अशाठ्यं क्रोधदमनं ज्ञानेनैतदवाप्यते ॥ 012c
अमात्सर्यं बुधाः प्राहुर्दाने धर्मे च संयमः । 013a
अवस्थितेन नित्यं च सत्येनामत्सरी भवेत् ॥ 013c
अक्षमायाः क्षमायाश्च प्रियाणीहाप्रियाणि च । 014a
क्षमते सर्वतः साधुस्ततः प्राप्नोति सत्यताम् ॥ 014c
कल्याणं कुरुते बाढं धीमान्न ग्लायते क्वचित् । 015a
प्रशान्तवाङ्मना नित्यं ह्रीस्तु धर्मादवाप्यते ॥ 015c
धर्मार्थहेतोः क्षमते तितिक्षा धर्म उत्तमः । 016a
लोकसङ्ग्रहणार्थं वै सा तु धैर्येण लभ्यते ॥ 016c
'अनसूया तु गाम्भीर्यं दानेनैतदवाप्यते ।' 017a
त्यक्तस्नेहस्य यस्त्यागो विषयाणां तथैव च । 017c
रागद्वेषप्रहीणस्य त्यागो भवति नान्यथा ॥ 017e
'ध्यानं च शाठ्यमित्युक्तं मौनेनैतदवाप्यते ।' 018a
आर्यता नाम भूतानां यः करोति प्रयत्नतः । 018c
शुभं कर्म निराकारो वीतरागस्तथैव च ॥ 018e
धृतिर्नाम सुखे दुःखे यया नाप्नोति विक्रियाम् | 019a
तां भजेत सदा प्राज्ञो य इच्छेद्भूतिमात्मनः ॥ 019c
सर्वथा क्षमिणा भाव्यं तथा सत्यपरेण च । 020a
वीतहर्षभयक्रोधो धृतिमाप्नोति पण्डितः ॥ 020c
अद्रोहः सर्वभूतेषु कर्मणा मनसा गिरा । 021a
अनुग्रहश्च दानं च सतां धर्मः सनातनः ॥ 021c
एते त्रयोदशाकाराः पृथक्सत्यैकलक्षणाः । 022a
भजन्ते सत्यमेवेह बृंहयन्ते च भारत ॥ 022c
नान्तः शक्यो गुणानां च वक्तुं सत्यस्य पार्थिव । 023a
अतः सत्यं प्रशंसन्ति विप्राः सपितृदेवताः ॥ 023c
नास्ति सत्यात्परो धर्मो नानृतात्पातकं परम् । 024a
स्थितिर्हि सत्यं धर्मस्य तस्मात्सत्यं न लोपयेत् ॥ 024c
उपैति सत्याद्दानं हि तथा यज्ञाः सदक्षिणाः । 025a
त्रेताग्निहोत्रं वेदाश्च ये चान्ये धर्मनिश्चयाः ॥ 025c
अश्वमेधसहस्त्रं च सत्यं च तुलया धृतम् । 026a
अश्वमेधसहस्राद्धि सत्यमेव विशिष्यते ॥ 026c
इति श्रीमन्महाभारते शान्तिपर्वणि आपद्धर्मपर्वणि षष्ट्यधिकशततमोऽध्यायः ॥ 160 ॥
12-160-14 अक्षमाया विषये तथा क्षमाया इति दृष्टान्तार्थम् ॥