अध्यायः 159
भीष्मेण तपोनिरूपणम् ॥ 1 ॥
भीष्म उवाच 001
सर्वमेतत्तपोमूलं कवयः परिचक्षते । 001a
न ह्यतप्ततपा मूढः क्रियाफलमवाप्नुते ॥ 001c
प्रजापतिरिदं सर्वं तपसैवासृजत्प्रभुः । 002a
तथैव वेदानृषयस्तपसा प्रतिपेदिरे ॥ 002c
तपसैव ससर्जान्नं फलमूलानि यानि च । 003a
त्रील्ँलोकांस्तपसा सिद्धाः पश्यन्ति सुसमाहिताः ॥ 003c
औषधान्यगदादीनि तिस्रो विद्याश्च संस्कृताः । 004a
तपसैव हि सिद्ध्यन्ति तपोमूलं हि साधनम् ॥ 004c
यद्दुरापं दुराराध्यं दुराधर्षं दुरुत्सहम् । 005a
तत्सर्वं तपसा शक्यं तपो हि दुरतिक्रमम् । 005c
ऐश्वर्यमृषयः प्राप्तास्तपसैव न संशयः ॥ 005e
सुरापोऽसम्मतादायी भ्रूणहा गुरुतल्पगः । 006a
तपसैव सुतप्तेन नरः पापात्प्रमुच्यते ॥ 006c
तपसो बहुरूपस्य तैस्तैर्द्वारैः प्रवर्ततः । 007a
निवृत्त्या वर्तमानस्य तपो नानशनात्परम् ॥ 007c
अहिंसा सत्यवचनं दानमिन्द्रियनिग्रहः । 008a
एतेभ्यो हि महाराज तपो नानशनात्परम् ॥ 008c
न दुष्करतरं दानान्नाति मातरमाश्रमः । 009a
त्रैविद्येभ्यः परं नास्ति सन्न्यासान्नापरं तपः ॥ 009c
इन्द्रियाणीह रक्षन्ति विप्रर्षिपितृदेवताः । 010a
तस्मादर्थे च धर्मे च तपो नानशनात्परम् ॥ 010c
ऋषयः पितरो देवा मनुष्या मृगपक्षिणः । 011a
यानि चान्यानि भूतानि स्थावराणि चराणि च ॥ 011c
तपः परायणाः सर्वे सिध्यन्ति तपसा च ते । 012a
इत्येवं तपसा देवा महत्त्वं प्रतिपेदिरे ॥ 012c
इमानीष्टविभागानि फलानि तपसः सदा । 013a
तपसा शक्यते प्राप्नुं देवत्वमपि निश्चयः ॥ 013c
इति श्रीमन्महाभारते शान्तिपर्वणि आपद्धर्मपर्वणि एकोनषष्ट्यधिकशततमोऽध्यायः ॥ 159 ॥
12-159-3 तपसो ह्यानुपूर्व्येण फलमूलानिलाशिनः । इति द. ध. पाठः ॥ 12-159-9 मातरमतिक्रम्याश्रमो न । सर्वेष्वप्याश्रमेषु माता पालनीयैव । तत्त्यागस्य सन्न्यासिनोऽप्ययोगात् ॥ 12-159-13 इमानि नक्षत्रादीनि । सुकृतां वा एतानि ज्योतींषि यन्नक्षत्राणीति श्रुतेः ॥