अध्यायः 158

भीष्मेण दमप्रशंसनम् ॥ 1 ॥ युधिष्ठिर उवाच 001
स्वाध्यायकृतयत्नस्य ब्राह्मणस्य विशेषतः । 001a
धर्मकामस्य धर्मात्मन्किन्नु श्रेय इहोच्यते ॥ 001c
बहुधा दर्शने लोके श्रेयो यदिह मन्यसे । 002a
अस्मिल्ँलोके परे चैव तन्मे ब्रूहि पितामह ॥ 002c
महानयं धर्मपथो बहुशाखश्च भारत । 003a
किंस्विदेवेह धर्माणामनुष्ठेयतमं मतम् ॥ 003c
धर्मस्य महतो राजन्बहुशाखस्य तत्त्वतः । 004a
यन्मूलं परमं तात तत्सर्वं ब्रूह्यतन्द्रितः ॥ 004c
भीष्म उवाच 005
हन्त ते कथयिष्यामि येन श्रेयो ह्यवाप्स्यसि । 005a
पीत्वाऽमृतमिव प्राज्ञो येन तृप्तो भविष्यसि ॥ 005c
धर्मस्य विधयो नैके तेते प्रोक्ता महर्षिभिः । 006a
स्वंस्वं विज्ञानमाश्रित्य दमस्तेषां परायणम् ॥ 006c
दमं निःश्रेयसं प्राहुर्वृद्धा निश्चितदर्शिनः । 007a
ब्राह्मणस्य विशेषेण दमो धर्मः सनातनः ॥ 007c
नादान्तस्य क्रियासिद्धिर्यथावदुपलभ्यते । 008a
दमो दानं तथा यज्ञानधीतं चातिवर्तते ॥ 008c
दमस्तेजो वर्धयति पवित्रं च दमः परम् । 009a
विपाप्मा तेजसा युक्तः पुरुषो विन्दते महत् ॥ 009c
दमेन सदृशं धर्मं नान्यं लोकेषु शुश्रुम । 010a
दमो हि परमो लोके प्रशस्तः सर्वधर्मिणाम् ॥ 010c
प्रेत्य चात्र मनुष्येन्द्र परमं विन्दते सुखम् । 011a
दमेन हि सदा युक्तो महान्तं धर्ममश्नुते ॥ 011c
सुखं दान्तः प्रस्वपिति सुखं च प्रतिबुध्यते । 012a
सुखं पर्येति लोकांश्च मनश्चास्य प्रसीदति ॥ 012c
अदान्तः पुरुषः क्लेशमभीक्ष्णं प्रतिपद्यते । 013a
अनर्थांश्च बहूनन्यान्प्रसृजत्यात्मदोषजान् ॥ 013c
आश्रमेषु चतुर्ष्वाहुर्दममेवोत्तमं व्रतम् । 014a
दमलिङ्गानि वक्ष्यामि येषां समुदयो दमः ॥ 014c
क्षमा धृतिरहिंसा च समता सत्यमार्जवम् । 015a
इन्द्रियाभिजयो दाक्ष्यं मार्दवं ह्रीरचापलम् ॥ 015c
अकार्पण्यमसंरम्भः सन्तोषः प्रियवादिता । 016a
अविहिंसाऽनसूया चाप्येषां समुदयो दमः ॥ 016c
गुरुपूजा च कौरव्य दया भूतेष्वपैशुनम् । 017a
जनवादमृषावादस्तुतिनिन्दाविसर्जनम् ॥ 017c
कामं क्रोधं च लोभं च दर्पं स्तम्भं विकत्थनम् । 018a
रोषमीर्ष्यावमानं च नैव दान्तो निषेवते ॥ 018c
अनिन्दितो ह्यकामात्मा नाल्पेष्वर्थ्यनसूयकः । 019a
समुद्रकल्पः स नरो न कथञ्चन पूर्यते ॥ 019c
अहं त्वयि मम त्वं च मयि ते तेषु चाप्यहम् । 020a
पूर्वसम्बन्धिसंयोगं नैतद्दान्तो निषेवते ॥ 020c
सर्वा ग्राम्यास्तथाऽऽरण्या याश्च लोके प्रवृत्तयः । 021a
निन्दां चैव प्रशंसां च यो नाश्रयति मुच्यते ॥ 021c
मैत्रोऽथ शीलसम्पन्नः प्रसन्नात्मात्मविच्च यः । 022a
मुक्तस्य विविधैः सङ्गैस्तस्य प्रेत्य फलं महत् ॥ 022c
सुवृत्तः शीलसम्पन्नः प्रसन्नात्माऽऽत्मविद्बुधः । 023a
प्राप्येह लोके सत्कारं सुगतिं प्रतिपद्यते ॥ 023c
कर्म यच्छुभमेवेह सद्भिराचरितं च यत् । 024a
तदेव ज्ञानयुक्तस्य मुनेर्वर्त्म न हीयते ॥ 024c
निष्क्रम्य वनमास्थाय ज्ञानयुक्तो जितेन्द्रियः । 025a
कालाकाङ्क्षी चरन्नेवं ब्रह्मभूयाय कल्पते ॥ 025c
अभयं यस्य भूतेभ्यो भूतानामभयं यतः । 026a
तस्य देहाद्विमुक्तस्य भयं नास्ति कुतश्चन ॥ 026c
अवाचिनोति कर्माणि न च सम्प्रचिनोति ह । 027a
समः सर्वेषु भूतेषु मैत्रायणगतिं चरेत् ॥ 027c
शकुनीनामिवाकाशे मत्स्यानामिव चोदके । 028a
यथा गतिर्न दृश्येत तथा तस्य स संशयः ॥ 028c
गृहानुत्सृज्य यो राजन्मोक्षमेवाभिपद्यते । 029a
लोकास्तेजोमयास्तस्य कल्पन्ते शाश्वतीः समाः ॥ 029c
सन्न्यस्य सर्वकर्माणि सन्न्यस्य विधिवत्तपः । 030a
सन्न्यस्य विविधा विद्याः सर्वं सन्न्यस्य चैव ह ॥ 030c
कामे शुचिरनावृत्तः प्रसन्नात्माऽऽत्मविच्छुचिः । 031a
प्राप्येह लोके सत्कारं स्वर्गं समभिपद्यते ॥ 031c
यच्च पैतामहं स्थानं ब्रह्मराशिसमुद्भवम् । 032a
गुहायां निहितं नित्यं तद्दमेनाभिगम्यते ॥ 032c
ज्ञानारामस्य बुद्धस्य सर्वभूतानुरोधिनः । 033a
नावृत्तिभयमस्तीह परलोकभयं कुतः ॥ 033c
एक एव दमे दोषो द्वितीयो नोपपद्यते । 034a
यदेनं दमसंयुक्तमशक्तं मन्यते जनः ॥ 034c
एकोऽस्य सुमहाप्राज्ञ दोषः स्यात्सुमहान्गुणः । 035a
क्षमया विपुला लोका दुर्लभा हि सहिष्णुता ॥ 035c
दान्तस्य किमरण्येन तथाऽदान्तस्य भारत । 036a
यत्रैव निवसेद्दान्तस्तदरण्यं स चाश्रमः ॥ 036c
वैशम्पायन उवाच 037
एतद्भीष्मस्य वचनं श्रुत्वा राजा युधिष्ठिरः । 037a
अमृतेनेव सन्तृप्तः प्रहृष्टः समपद्यत ॥ 037c
पुनश्च परिपप्रच्छ भीष्मं धर्मभृतां वरम् । 038a
ततः प्रीतः स चोवाच तस्मै सर्वं कुरूद्वहः ॥ 038c

इति श्रीमन्महाभारते शान्तिपर्वणि आपद्धर्मपर्वणि अष्टपञ्चाशदधिकशततमोऽध्यायः ॥ 158 ॥

12-158-6 परायणं पराकाष्ठा । अत्रैव सर्वे धर्मा अन्तर्भूता इत्यर्थः ॥ 12-158-18 दर्पं गर्वं । स्तम्भम् अविनम् ॥ 12-158-19 अल्पेषु अनित्यसुखेषु । कथञ्चन ब्रह्मलोकलाभेऽपि न पूर्यते न तृप्तो भवति ॥ 12-158-25 निष्क्रम्य गृहादिति शेषः ॥ 12-158-27 अवाचिनोति भोगेन व्ययीकरोति । नच सञ्चिनोति सङ्गृह्णाति तत्त्वज्ञस्य कर्माश्लेषस्मरणात् । मैत्रायणं सर्वभूतेभ्योऽभयदानम् ॥ 12-158-31 कामे शुचिः सत्यकाम इत्यर्थः । अनावृत्तः सर्वत्र कामचारभाक् । तस्य सर्वेषु लोकेषु कामचारो भवतीति श्रुतेः ॥ 12-158-32 गुहायां हृत्पुण्डरीके । पैतामहं ब्रह्मलोकाख्यम् ॥