अध्यायः 157

भीष्मेण युधिष्ठिरम् प्रत्यज्ञानलक्षणादिप्रतिपादनम् ॥ 1 ॥ युधिष्ठिर उवाच 001
अनर्थानामधिष्ठानमुक्तो लोभः पितामह । 001a
अज्ञानमपि कौरव्य श्रोतुमिच्छामि तत्त्वतः ॥ 001c
भीष्म उवाच 002
करोति पापं योऽज्ञानान्नात्मनो वेत्ति च क्षमम् । 002a
द्विषते साधुवृत्तांश्च स लोकस्यैति वाच्यताम् ॥ 002c
अज्ञानान्निरयं याति तथा ज्ञानेन दुर्गतिम् । 003a
अज्ञानात्क्लेशमाप्नोति तथाऽऽपत्सु निमज्जति ॥ 003c
युधिष्ठिर उवाच 004
प्रजानामप्रवृत्तिं च ज्ञानवृद्धिक्षयोदयान् । 004a
मूलं स्थानं गतिं कालं कारणं हेतुमेव च ॥ 004c
श्रोतुमिच्छामि तत्त्वेन यथावदिह पार्थिव । 005a
अज्ञानप्रसवं हीदं यद्दुःखमुपलभ्यते ॥ 005c
भीष्म उवाच 006
रागो द्वेषस्तथा मोहो हर्षः शोकोऽभिमानिता । 006a
कामः क्रोधश्च दर्पश्च तन्द्री चालस्यमेव च ॥ 006c
इच्छा द्वेषस्तथा तापः परवृद्ध्युपतापिता । 007a
अज्ञानमेतन्निर्दिष्टं पापानां चैव याः क्रियाः ॥ 007c
एतस्य वा प्रवृत्तेश्च वृद्ध्यादीन्यांश्च पृच्छसि । 008a
विस्तरेण महाराज शृणु तच्च विशेषतः ॥ 008c
उभावेतौ समफलौ समदोषौ च भारत । 009a
अज्ञानं चातिलोभश्चाप्येवं जानीहि पार्थिव ॥ 009c
लोभप्रभवमज्ञानं वृद्धं भूयः प्रवर्धते । 010a
स्थाने स्थानं क्षयेत्क्षीणमुपैति विविधां गतिम् ॥ 010c
मूलं लोभस्य मोहो वै कालात्मगतिरेव च । 011a
[छिन्ने भिन्ने तथा लोभे कारणं काल एव च ॥] 011c
तस्याज्ञानाद्धि लोभो हि कामात्मा गतिरेव च । 012a
सर्वे दोषास्तथा लोभात्तस्माल्लोभं विवर्जयेत् ॥ 012c
जनको युवनाश्वश्च पृषदश्वः प्रसेनजित् । 013a
लोभक्षयाद्दिवं प्राप्तास्तथैवान्ये नराधिपाः । 013c
'छिन्ने छिन्ने तथा लोभे दिवं प्राप्ता जनाधिपाः ॥' 013e
प्रत्यक्षं तु कुरुश्रेष्ठ त्यज लोभमिहात्मना । 014a
त्यक्त्वा लोभं सुखी लोके प्रेत्य चेह च मोदते ॥ 014c

इति श्रीमन्महाभारते शान्तिपर्वणि आपद्धर्मपर्वणि सप्तपञ्चाशदधिकशततमोऽध्यायः ॥ 157 ॥

12-157-2 वाच्यतां निन्द्यताम् ॥ 12-157-4 अज्ञानस्य प्रवृत्तिं चेति झ. पाठः ॥ 12-157-7 कार्ये कारणोपचाराद्रागादय एवाज्ञानम् । पापानां क्रियाः हिंसादयः ॥ 12-157-10 लोभप्रभवं लोभात्तस्य प्रवृत्तिः । लोभवृद्धौ वृद्धिर्लोभस्य स्थाने साम्ये स्थानं समता । लोभभये क्षीणं भवति । उपैति उदेति । लोभस्योदये उदेतीत्यर्थः । विविधां गतिं दुःखसन्तापमोहा रूपां प्रापयितुमिति शेषः ॥ 12-157-11 मूलं लोभस्य महतः कारणं लोभ एव च । इति द. पाठः ॥ 12-157-14 त्यक्त्वा लोभं सुखं लोके प्रेत्य चानुचरिष्यसि इति झ. पाठः ॥