अध्यायः 156

भीष्मेण युधिष्ठिरम् प्रति लोभादीनामनर्थहेतुत्वकथपूर्वकं तद्वतां गर्हणम् ॥ 1 ॥ तथा सत्सङ्गस्य लोभादिजयोपायत्वसूचनाय सताम् प्रशंसनपूर्वकं तत्पूजाविधानम् ॥ 2 ॥ युधिष्ठिर उवाच 001
पापस्य यदधिष्ठानं यतः पापं प्रवर्तते । 001a
एतदिच्छाम्यहं श्रोतुं तत्त्वेन भरतर्षभ ॥ 001c
भीष्म उवाच 002
पापस्य यदधिष्ठानं तच्छृणुष्व नराधिप । 002a
एको लोभो महाग्राहो लोभात्पापं प्रवर्तते ॥ 002c
अतः पापमधर्मश्च तथा दुःखमनुत्तमम् । 003a
निकृत्या मूलमेतद्धि येन पापकृतो जनाः ॥ 003c
लोभात्क्रोधः प्रभवति लोभात्कामः प्रवर्तते । 004a
लोभान्मोहश्च माया च मानस्तम्भः परासुता ॥ 004c
अक्षमा ह्रीपरित्यागः श्रीनाशो धर्मसङ्क्षयः । 005a
अभिध्याऽप्रख्यता चैव सर्वं लोभात्प्रवर्तते ॥ 005c
अत्यागश्च कुतर्कश्च विकर्मसु च याः क्रियाः । 006a
कुलविद्यामदश्चैव रूपैश्वर्यमदस्तथा ॥ 006c
सर्वभूतेष्वभिद्रोहः सर्वभूतेष्वसत्कृतिः । 007a
सर्वभूतेष्वविश्वासः सर्वभूतेष्वनार्जवम् ॥ 007c
हरणं परवित्तानां परदाराभिमर्शनम् । 008a
वाग्वेगो मनसो वेगो निन्दावेगस्तथैव च ॥ 008c
उपस्थोदरयोर्वेगो मृत्युवेगश्च दारुणः । 009a
ईर्ष्यावेगश्च बलवान्मिथ्यावेगश्च दुर्जयः ॥ 009c
रसवेगश्च दुर्वार्यः श्रोत्रवेगश्च दुःसह । 010a
कुत्सा विकत्था मात्सर्यं पापं दुष्कर्मकारिता । 010c
साहसानां च सर्वेषामकार्याणां क्रियास्तथा ॥ 010e
जातौ बाल्ये च कौमारे यौवने चापि मानवाः । 011a
न त्यजन्त्यात्मकर्मैकं यन्न जीर्यति जीर्यतः ॥ 011c
यो न पूरयितुं शक्यो लोभः प्रीत्या कथञ्चन । 012a
नित्यं गम्भीरतोयाभिरापगाभिरिवोदधिः ॥ 012c
न प्रहृष्यति यो लोभैः कामैर्यश्च न तृप्यति । 013a
यो न देवैर्न गन्धर्वैर्नासुरैर्न महोरगैः ॥ 013c
ज्ञायते नृप तत्त्वेन सर्वैर्भूतगणैस्तथा । 014a
स लोभः सह मोहेन विजेतव्यो जितात्मना ॥ 014c
दम्भो द्रोहश्च निन्दा च पैशून्यं मत्सरस्तथा । 015a
भवन्त्येतानि कौरव्य लुब्धानामकृतात्मनाम् ॥ 015c
सुमहान्त्यपि शास्त्राणि धारयन्तो बहुश्रुताः । 016a
छेत्तारः संशयानां च क्लिश्यन्तीहाल्पबुद्धयः ॥ 016c
द्वेषक्रोधप्रसक्ताश्च शिष्टाचारबहिष्कृताः । 017a
अन्तःक्षुरा वाङ्मधुराः कृपाश्छन्नास्तृणैरिव ॥ 017c
धर्मवैतंसिकाः क्षुद्रा मुष्णन्ति ध्वजिनो जगत् । 018a
कुर्वते च बहून्मार्गांस्तान्हेतुबलमाश्रिताः । 018c
सर्वमार्गान्विलुम्पन्ति लोभज्ञानेष्ववस्थिताः ॥ 018e
धर्मस्य ह्रियमाणस्य लोभग्रस्तैर्दुरात्मभिः । 019a
याया विक्रियते संस्था ततः साऽपि प्रपद्यते ॥ 019c
दर्पः क्रोधो मदः स्वप्नो हर्षः शोकोऽभिमानिता । 020a
एत एव हि कौरव्य दृश्यन्ते लुब्धबुद्धिषु ॥ 020c
एतानरिष्टान्बुध्यस्व नित्यं लोभसमन्वितान् । 021a
शिष्टांस्तु परिपृच्छेथा यान्वक्ष्यामि शुचिव्रतान् ॥ 021c
येष्वावृत्तिभयं नास्ति परलोकभयं न च । 022a
नामिषेषु प्रसङ्गोऽस्ति न प्रियेष्वप्रियेषु च ॥ 022c
शिष्टाचारः प्रियो येषु दमो येषु प्रतिष्ठितः । 023a
सुखं दुःखं समं येषां सत्यं येषां परायणम् ॥ 023c
दातारो न ग्रहीतारो दयावन्तस्तथैव च । 024a
पितृदेवातिथेयाश्च नित्योद्युक्तास्तथैव च ॥ 024c
सर्वोपकारिणो वीराः सर्वधर्मानुपालकाः । 025a
सर्वभूतहिताश्चैव सर्वदेयाश्च भारत ॥ 025c
न ते चालयितुं शक्या धर्मव्याहारकारिणः । 026a
न तेषां भिद्यते वृत्तं यत्पुरा साधुभिः कृतम् ॥ 026c
न त्रासिनो न चपला न रौद्राः सत्पथे स्थिताः । 027a
ते सेव्याः साधुभिर्नित्यमसाधूंश्च विवर्जयेत् ॥ 027c
कामक्रोधव्यपेता ये निर्ममा निरहङ्कृताः । 028a
सुव्रताः स्थिरमर्यादास्तानुपास्व च पृच्छ च ॥ 028c
न वागर्थं यशोर्थं वा धर्मस्तेषां युधिष्ठिर | 029a
अवश्यं कार्य इत्येव शरीरस्य क्रियास्तथा ॥ 029c
न भयं क्रोधचापल्ये न शोकस्तेषु विद्यते । 030a
न धर्मध्वजिनश्चैव न गुह्यं किञ्चिदास्थिताः ॥ 030c
येष्वलोभस्तथाऽमोहो ये च सत्यार्जवे स्थिताः । 031a
तेषु कौन्तेय रज्येथा येषां न भ्रश्यते पुनः ॥ 031c
ये न हृष्यन्ति लाभेषु नालाभेषु व्यथन्ति च । 032a
निर्ममा निरहङ्काराः सत्वस्थाः समदर्शिनः ॥ 032c
लाभालाभौ सुखदुःखे च तात प्रियाप्रिये मरणं जीवितं च । 033a
समानि येषां स्थिरविक्रमाणां बुभुत्सतां सत्यपथे स्थितानाम् ॥ 033c
धर्मप्रियांस्तान्सुमहानुभावान्दान्तोऽप्रमत्तश्च समर्चयेथाः । 034a
दैवात्सर्वे गुणवन्तो भवन्ति शुभाशुभे वाक्प्रलापास्तथाऽन्ये ॥ 034c

इति श्रीमन्महाभारते शान्तिपर्वणि आपद्धर्मपर्वणि षट्पञ्चाशदधिकशततमोऽध्यायः ॥ 156 ॥

12-156-2 ग्राह इव ग्राहो ग्रासकर्ता ॥ 12-156-3 येन लोभेन जनाः पापकृतो भवन्ति ॥ 12-156-4 परासुता पराधीनप्राणत्वम् ॥ 12-156-5 अभिध्या चिन्ता । अप्रख्यता अप्रकीर्तिः । अभिध्याऽप्राज्ञता चैवेति ड. थ. पाठः ॥ 12-156-6 अत्यागादयोऽकार्यक्रियान्ताः सर्वे दोषाः लोभात् प्रवर्तन्त इति पूर्वेणान्वयः ॥ 12-156-11 जातौ जन्मनि ॥ 12-156-12 यो न पूरयितुं शक्य इत्यादीनां स लोभो जेतव्य इति तृतीयेनान्वयः ॥ 12-156-16 अल्पेऽपि धनादौ बुद्धिर्येषां तेऽल्पबुद्धयो लुब्धा इत्यर्थः ॥ 12-156-18 धर्मवैतंसिकाः धर्मव्याजेनेतरान् हिंसन्तः । ध्वजिनो धर्मख्यापकाः । हेतुबलमिति अन्यं सन्तोषहेतुतया पारदार्यादेरपि धर्मत्वं वर्णयन्तीति भावः ॥ 12-156-19 संस्था स्थितिः । विक्रियतेऽन्यथा भवति ॥ 12-156-25 सर्वं प्राणपर्यन्तमपि देयं परार्थे दातुं योग्यं येषां ते ॥ 12-156-28 पृच्छ च धर्ममिति शेषः ॥ 12-156-29 क्रिया आहारादयः । न धनार्थमिति झ. पाठः ॥ 12-156-30 गुह्यं गोपनीयम् ॥ 12-156-31 अमोह इति च्छेदः । येषां वृत्तमिति शेषः ॥ 12-156-34 हे शुभ हे भद्र, सर्वे वाक्प्रलापा गुणवन्तो भवन्ति । अन्ये तु मूढानां वाक्प्रलापा अशुभेऽशुभार्थमेव भवन्तीति शेषः ॥