अध्यायः 155

नारदसूचितेन वायुना शाल्मलिमेत्य परेद्युस्तद्भञ्जनप्रतिज्ञानम् ॥ 1 ॥ वायुबलज्ञेन शाल्मलिना तदागमनात्प्रागेव स्वेनैव स्वीयशाखावशातनपूर्वकमवस्थानम् ॥ 2 ॥ परेद्युरागतेन वायुना तम् प्रति तत्कृतशाखावशातनस्यापि स्वबलप्रयोज्यत्वोक्तिः ॥ 3 ॥ भीष्म उवाच 001
एवमुक्त्वा तु राजेन्द्र शाल्मलिं ब्रह्मवित्तमः । 001a
नारदः पवने सर्वं शाल्मलेर्वाक्यमब्रवीत् ॥ 001c
नारद उवाच 002
हिमवत्पृष्ठजः कश्चिच्छाल्मलिः परिवारवान् । 002a
बृहन्मूलो बृहच्छायः स त्वां वायोऽवमन्यते ॥ 002c
बहुव्याक्षेपयुक्तानि त्वामाह वचनानि सः । 003a
न युक्तानि मया वायो तानि वक्तुं तवाग्रतः ॥ 003c
जानामि त्वामहं वायो सर्वप्राणभृतां वरम् । 004a
वरिष्ठं च गरिष्ठं च सर्वलोकेश्वरं प्रभुम् ॥ 004c
भीष्म उवाच 005
एतत्तु वचनं श्रुत्वा नारदस्य समीरणः । 005a
शाल्मलिं तमुपागम्य क्रुद्धो वचनमब्रवीत् ॥ 005c
वायुरुवाच 006
शाल्मले नारदो गच्छंस्त्वयोक्तो मद्विगर्हणम् । 006a
अहं वायुः प्रभावं ते दर्शयाम्यात्मनो बलम् ॥ 006c
नाहं त्वां नाभिजानामि विदितश्चासि मे द्रुम । 007a
पितामहः प्रजासर्गे त्वयि विश्रान्तवान्प्रभुः ॥ 007c
तस्य विश्रमणादेष प्रसादो मत्कृतस्तव । 008a
अभूत्तस्य प्रसादात्त्वां न भज्यामि द्रुमाधम ॥ 008c
यन्मां त्वमवजानीषे यथाऽन्यं प्राकृतं तथा । 009a
दर्शयाम्येष चात्मानं यथा मां नावमन्यसे ॥ 009c
भीष्म उवाच 010
एवमुक्तस्ततः प्राह शाल्मलिः प्रहसन्निव । 010a
पवन त्वं वने क्रुद्धो दर्शयात्मानमात्मना ॥ 010c
मयि वै मुच्यतां क्रोधः किं मे क्रुद्धः करिष्यसि । 011a
न ते बिभेमि पवन यद्यपि त्वं स्वयं प्रभुः । 011c
बलाधिकोऽहं त्वत्तश्च न भीः कार्या मया तव ॥ 011e
ये तु बुद्ध्या हि बलिनस्ते भवन्ति बलीयसः । 012a
प्राणमात्रबला ये वै नैव ते बलिनो मताः ॥ 012c
इत्येवमुक्तः पवनः श्व इत्येवाब्रवीद्वचः । 013a
दर्शयिष्यामि ते तेजस्ततो रात्रिरुपागमत् ॥ 013c
अथ निश्चित्य मनसा शाल्मलिर्वैरधारणम् । 014a
पश्यमानस्तदात्मानमसमं मातरिश्वना ॥ 014c
नारदे यन्मया प्रोक्तं वचनं प्रति तन्मृषा । 015a
असमर्थो ह्यहं वायोर्बलेन बलवान्हि सः ॥ 015c
मारुतो बलवान्नित्यं यथा वै नारदोऽब्रवीत् । 016a
अहं तु दुर्बलोऽन्येभ्यो वृक्षेभ्यो नात्र संशयः ॥ 016c
किं तु बुद्ध्या समो नास्ति मम कश्चिद्वनस्पतिः । 017a
तदहं बुद्धिमास्थाय भयं त्यक्ष्ये समीरणात् ॥ 017c
यदि तां बुद्धिमास्थाय तिष्ठेयुः पर्णिनो वने । 018a
अरिष्टाः स्युः सदा क्रुद्धात्पवनान्नात्र संशयः ॥ 018c
ते तु बाला न जानन्ति यथा नैतान्समीरणः । 019a
समीरयेत सङ्क्रुद्धो यथा जानाम्यहं तथा ॥ 019c
भीष्म उवाच 020
ततो निश्चित्य मनसा शाल्मलिः क्षुभितस्तदा । 020a
शाखाः स्कन्धान्प्रशाखाश्च स्वयमेव व्यशातयत् ॥ 020c
स परित्यज्य शाखाश्च पत्राणि कुसुमानि च । 021a
प्रभाते वायुमायान्तं प्रेक्षते स्म वनस्पतिः ॥ 021c
ततः क्रुद्धः श्वसन्वायुः पातयन्वै महाद्रुमान् । 022a
आजगामाथ तं देशमास्ते यत्र स शाल्मलिः ॥ 022c
तं हीनपर्णं पतिताग्रशाखं निशीर्णपुष्पं प्रसमीक्ष्य वायुः । 023a
उवाच वाक्यं स्ययमान एवं मुदायुतः शाल्मलिं रुग्णशाखम् ॥ 023c
वायुरुवाच 024
अहमप्येवमेव त्वां कुर्यां वै शाल्मले रुषा । 024a
आत्मना यत्कृतं कृच्छ्रं शाखानामपकर्षणम् ॥ 024c
हीनपुष्पाग्रशाखस्त्वं शीर्णाङ्कुरपलाशकः । 025a
आत्मदुर्मन्त्रितेनेह मद्वीर्यवशगः कृतः ॥ 025c
भीष्म उवाच 026
एतच्छ्रुत्वा वचो वायोः शाल्मलिर्व्रीडितस्तदा । 026a
अतप्यत वचः स्मृत्वा नारदो यत्तदाऽब्रवीत् ॥ 026c
एवं हि राजशार्दूल दुर्बलः सन्बलीयसा । 027a
वैरमासज्जते बालस्तप्यते शाल्मलिर्यथा ॥ 027c
तस्माद्वैरं न कुर्वीत दुर्बलो बलवत्तरैः । 028a
शोचेद्धि वैरं कुर्वाणो यथा वै शाल्मलिस्तथा ॥ 028c
न हि वैरं महात्मानो विवृण्वन्त्यपकारिषु । 029a
शनैः शनैर्महाराज दर्शयन्ति स्म ते बलम् ॥ 029c
वैरं न कुर्वीत नरो दुर्बुद्धिर्बुद्धिजीविना । 030a
बुद्धिर्बुद्धिमतो याति तूलेष्विव हुताशनः ॥ 030c
न हि बुद्ध्या समं किञ्चिद्विद्यते पुरुषे नृप । 031a
तथा बलेन राजेन्द्र न समोऽस्तीह कश्चन ॥ 031c
तस्मात्क्षमेत बालाय जडान्धबधिराय च । 032a
बलाधिकाय राजेन्द्र तद्दृष्टं त्वयि शत्रुहन् ॥ 032c
अक्षौहिण्यो दशैका च सप्त चैव महाद्युते । 033a
बलेन न समा राजन्नर्जुनस्य महात्मनः ॥ 033c
निहताश्चैव भग्नाश्च पाण्डवेन यशस्विना । 034a
चरता बलमास्थाय पाकशासनिना मृधे ॥ 034c
उक्ताश्च ते राजधर्मा आपद्धर्माश्च भारत । 035a
विस्तरेण महाराज किं भूयः प्रब्रवीमि ते ॥ 035c
l इति श्रीमन्महाभारते शान्तिपर्वणि आपद्धर्मपर्वणि पञ्चषञ्चाशदधिकशततमोऽध्यायः ॥ 155 ॥

12-155-8 रक्ष्यसे तेन दुर्बुद्धे नात्मवीर्याद्द्रुमाधमेति झ. पाठः ॥ 12-155-27 वैरमारभते इति झ. पाठः ॥ 12-155-30 तृणेष्विव हुताशनः इति झ. पाठः ॥