अध्यायः 154
नारदेन शाल्मलिम् प्रति पर्वतादिभञ्जकेनापि वायुना तदीयशाखाया अप्यभञ्जने कारणप्रश्ने तेन साधिक्षेपमात्मशाखाभञ्जने वायोरशक्तिकथनम् ॥ 1 ॥
नारद उवाच 001
बन्धुत्वादथवा सख्याच्छाल्मले नात्र संशयः । 001a
कस्मात्त्वां रक्षते नित्यं भीमः सर्वत्रगोऽनिलः ॥ 001c
तद्भावं परमं वायोः शाल्मले त्वमुपागतः । 002a
तवाहमस्मीति सदा येन रक्षति मारुतः ॥ 002c
न तं पश्याम्यहं वृक्षं पर्वतं वेश्म चेदृशम् । 003a
यं न वायुबलाद्भग्नं पृथिव्यामिति मे मतिः ॥ 003c
त्वं पुनः कारणैर्नूनं रक्ष्यसे शाल्मले यथा । 004a
वायुना सपरीवारस्तेन तिष्ठस्यसंशयम् ॥ 004c
शाल्मलिरुवाच 005
न मे वायुः सखा ब्रह्मन्न बन्धुर्मम नारद । 005a
चिरं मे प्रीयते नैव येन मां रक्षतेऽनिलः ॥ 005c
मम तेजोबलं भीमं वायोरपि हि नारद । 006a
कलामष्टादशीं प्राणैर्न मे प्राप्नोति मारुतः ॥ 006c
आगच्छन्परुषो वायुर्मया विष्टम्भितो बलात् । 007a
भञ्जन्द्रुमान्पर्वतांश्च यच्चान्यत्स्थाणुजङ्गमम् ॥ 007c
स मया बहुशो भग्नः प्रभञ्जन्वै प्रभञ्जनः । 008a
तस्मान्न बिभ्ये देवर्षे क्रुद्धादपि समीरणात् ॥ 008c
नारद उवाच 009
शाल्मले विपरीतं ते दर्शनं नात्र संशयः । 009a
न हि वायोर्बले नास्ति भूतं तुल्यबलं क्वचित् ॥ 009c
इन्द्रो यमो वैश्रवणो वरुणश्च जलेश्वरः । 010a
नैतेऽपि तुल्या मरुतः किं पुनस्त्वं वनस्पते ॥ 010c
यश्च कश्चिदपि प्राणी चेष्टते शाल्मले भुवि । 011a
सर्वत्र भगवान्वायुश्चेष्टाप्राणकरः प्रभुः ॥ 011c
एष चेष्टयते सम्यक्प्राणिनः सम्यगायतः । 012a
असम्यगायतो भूयश्चेष्टते विकृतं नृषु ॥ 012c
स त्वमेवंविधं वायुं सर्वसत्वभृतां वरम् । 013a
न पूजयसि पूज्यन्तं किमन्यद्वुद्धिलाघवात् ॥ 013c
असारश्चापि दुर्मेधाः केवलं बहु भाषसे । 014a
क्रोधादिभिरवच्छन्नो मिथ्या वदसि शाल्मले ॥ 014c
मम रोषः समुत्पन्नस्त्वय्येवं सम्प्रभाषति । 015a
ब्रवीम्येष स्वयं वायोस्तव दुर्भाषितं बहु ॥ 015c
चन्दनैः स्यन्दनैः शालैः सरलैर्देवदारुभिः । 016a
वेतसैर्धन्वनैश्चापि ये चान्ये बलवत्तराः । 016c
तैश्चापि नैवं दुर्बुद्धे क्षिप्तो वायुः कृतात्मभिः ॥ 016e
तेऽपि जानन्ति वायोश्च बलमात्मन एव च । 017a
तस्मात्ते नावमन्यन्ते श्वसनं तरुसत्तमाः ॥ 017c
त्वं तु मोहान्न जानीषे वायोर्बलमनन्तकम् । 018a
एवं तस्माद्गमिष्यामि सकाशं मातरिश्वनः ॥ 018c
इति श्रीमन्महाभारते शान्तिपर्वणि आपद्धर्मपर्वणि चतुःपञ्चाशदधिकशततमोऽध्यायः ॥ 154 ॥
12-154-2 न्यग्भावं परमं वायोरिति झ. पाठः ॥ 12-154-5 परमेष्ठी तथा नैव येन रक्षति वानिल इति झ. पाठः ॥